भाषा

ENहिગુ
ग्रंथ पाठ

स्मरदीपिका · श्लोक 162-181

162

अध्वक्लान्ता ऋतुस्नाता प्रथमज्वरिता तथा ।
मधुपानप्रसन्ना च नर्तिता विरही तथा

163

षण्मासगर्भिणी मासप्रसूता नवरङ्गिणी ।
एता वहन्ति सुतरां स्त्रियो न सुरतोत्सवम्

164

आलिङ्गनविहीनं तु यो वेत्ति सुरतोत्सवम् ।
पशोर् इव भवेत् तस्य सिद्धिः स्वार्थैकसिद्धये

165

आलिङ्गचुम्बने दंशो भगस्तनविमर्दनम् ।
नखदानं च घातश् च ग्रहणं कुचकेशयोः

166

करोति चिन्मयं हास्यं जिह्वाकण्ठाधरग्रहः ।
एतद् दशप्रभेदं हि क्षरणस्य प्रकीर्तितम्

167

नारीणां मोहनं तावद् यावन् नोत्कण्ठिता प्रिया ।
अन्यथा तत्सुखोच्छितिर् अशीतार्ककराद् इव

168

शीत्कारं चाथ हुंकारं हसितं च त्रपाक्षयः ।
प्रस्विन्नवदनं चैव विकारो ऽथ भगस्य च

169

बुद्ध्वा चैतानि लिङ्गानि योषितां सुरते बुधः ।
तया तुल्यसुखं वाञ्छन्न् अनुरागं समाचरेत्

170

पुष्पं माल्यं सुवर्णं च राजतं तरुणीसुखम् ।
तरुणीरहिते कान्ते व्यर्थं देशविचेष्टितम्

171

दैवाद् यदि कदाचिद् धि विच्छेदः क्रमशस् तदा ।
दशमीं मन्मथावस्थां प्राप्नोत्य् एव न संशयः

172

अभिलाषश् चिन्तनं चानुस्मृतिर् गुणकीर्तनम् ।
उन्मादो विप्रलापश् च उद्वेगो व्याधिर् अष्टमः

173

जरता मरणं चेति दशावस्था मनोभुवः ।
प्रमदानां नराणां च स्मरोन्मथितचेतसाम्

174

लक्षयित्वेङ्गितं स्त्रीणां हृदि विज्ञः प्रवर्तते ।
सत्यं वल्लभतां याति सुमध्यानां च योषिताम्

175

विज्ञः साध्यां यत्नसाध्यां वचसा चैव साधयेत् ।
साधनं कठिनं स्त्रीणां दुर्निरूप्या भवन्ति ताः

176

प्राकाशीं बाहुमूलस्य कक्षोदरकुचस्य च ।
बालालिङ्गनमोक्षं च कवरीमोचनं तथा

177

स्वीयाङ्गावयवस्यैव निरन्तरविलोकनम् ।
अश्रुपातो ऽङ्गुलीमर्दश्लेष्मोत्सर्गं मुहुर्मुहुः

178

कान्तस्य रूपसौभाग्यसंक्रीडागुणसम्पदाम् ।
संकीर्तनं महोल्लासः स्वाङ्गभद्रावमर्दनम्

179

श्रुतिवर्त्माङ्गुलिक्षेपः सस्मिते वदनेक्षणे ।
एतान्य् अफलसाध्यानि लिङ्गानि च समुन्नयेत्

180

व्रीडयालंकृता कान्ता ऊष्मार्ता लोभवर्जिता ।
साध्या लिङ्गर्थवीर्यस् ता असाध्या सा प्रकीर्तिता

181

यत्नसाध्या साधुवक्त्री धनहीना प्रवासिनी ।
साध्येङ्गितविपर्यस्ता यत्नसाध्या कुटुम्बिनी

मूल पाठ: Smaradīpikā · Edition: included in: Kamakunjalata, Benares : The Chowkhamba Sanskrit Series Office, 1967. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc