भाषा

ENहिગુ
ग्रंथ पाठ

स्मरदीपिका · श्लोक 142-161

142

समदन्ता गुरुश्रोणी बिम्बौष्ठी च सुगायनी ।
भवेत् कन्या प्रशंस्या सा धर्मकामार्थसिद्धये

143

भूमौ पादकनिष्ठा वानामिका वार्पयेद् युगम् ।
कन्या सा वर्जनीया च सैवोपपतिका मता

144

कन्या सा पुंश्चली खर्वा या स्याच् छबलमध्यमा ।
पीवरा कर्कशाङ्गी च पिङ्गनेत्रा कचे जटा

145

दीर्घनेत्रा दीर्घवक्त्रा खर्वा परुषवादिनी ।
जङ्घायाम् उत्तरोष्ठे च बिभ्रती लोमसंचयम्

146

करोति यदि वा नित्यं भोजनं विपुलं बहु ।
निम्नग्रीवा निम्नकण्ठा बहुकेशी सुलोचना

147

गण्डकूपे हसन्ती च दन्तपङ्क्त्या तु दन्तुरा ।
सा विज्ञैर् वर्जनीया च सुखैश्वर्यसमीहया

148

तद् यथा कुलद्वयं चापि विनिन्दिता स्त्री यशोविभूतिं च तिरस्करोति ।
निमग्नचन्द्रेव निशासमाना प्रयाति नैवादरतां पृथिव्याम्

149

सेवनं योषितां कुर्यान् मत्वा दोषबलाबलम् ।
बालायोग्यातिरूढानाम् ऋतुयोगविभागतः

150

बाला च तरुणी प्रौढा वृद्धा भवति नायिका ।
एभिः प्रकारैर् विख्याता युवती नागरी सदा

151

बालेति गीयते नारी यावत् षोडशवत्सरम् ।
तस्मात् परं च योग्या सा यावद् विंशतिवत्सरम्

152

विद्वद्भिः सर्वजगति तरुणीत्य् अभिधीयते ।
तदूर्ध्वम् अतिरूढा स्याद् यावत् पञ्चाशतं पुनः

153

वृद्धा ततः परं ज्ञेया सुरतोत्सववर्जिता ।
प्रीणाति बाला मालाद्यैस् तरुणी वस्त्रदानतः

154

प्रेमवाक्यादिभिः प्रौढा वृद्धा च दृढताडनात् ।
फलताम्बूलवासोभिर् बाला वश्या भवेन् नृणाम्

155

विविधाभरणैः स्नेहैस् तरुणी वशवर्तिनी ।
गाढालिङ्गनचुम्बनैश् च अतिरूढास् तु योषितः

156

गौरवैर् मधुरालापैर् भवेद् वृद्धा प्रियंवदा ।
तथा कुसुमधर्मिण्यः स्त्रियो वृद्धपरिग्रहाः

157

उपक्रामन्ति विश्वासाद् द्विषन्ति पुरुषं क्षणात् ।
निदाघशरदोर् बाला सेव्या विषयिणां भवेत्

158

हेमन्ते शिशिरे योग्या प्रौढा वर्षावसन्तयोः ।
सततं सेव्यमानापि बाला वर्धयते बलम्

159

क्षेमं नयति योग्या स्त्री वृद्धा प्रकुरुते जराम् ।
उत्साहहानिं वृद्धा स्त्री दिशेद् रोगक्षयादिकम्

160

बाला च प्राणदा प्रोक्ता तरुणी प्राणहारिणी ।
प्रौढा करोति वृद्धत्वं वृद्धा मरणम् आदिशेत्

161

आसीने लालयेद् बालां तरुणीं शयने तथा ।
उत्थाने त्व् अतिरूढां च लालनं त्रिविधं मतम्

मूल पाठ: Smaradīpikā · Edition: included in: Kamakunjalata, Benares : The Chowkhamba Sanskrit Series Office, 1967. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc