भाषा

ENहिગુ
ग्रंथ पाठ

स्मरदीपिका · श्लोक 121-141

121

कुड्याश्रितां रमेत् कान्तां कण्ठासक्तकरद्वयाम् ।
पादाभ्यां मध्यम् आवेष्ट्य बन्धः प्रालम्बको मतः

122

स्त्रियाः पादद्वयं कान्तः कान्तस्योरुद्वयोपरि ।
कटिम् आलोलयेद् आशु बन्धो ऽयं हंसलीलकः

123

लिङ्गोपरिस्थिता नारी भूमौ दत्त्वा करद्वयम् ।
हृदये दत्तहस्ता च बन्धो लीलासनो मतः

124

विपरीतरते नारीम् ऋतुस्नातां न गुर्विणीम् ।
योजयेत् कामशास्त्रज्ञः सद्यो भुक्तवतीं तथा

125

भगे निःक्षिप्तजिह्वाग्रो विलोलं चुम्बति प्रियः ।
तथैव रमणस्यापि नारी लिङ्गं प्रकर्षति

126

मध्यदेशभवा नार्यो नखदन्तपदे रताः ।
चुम्बाघातरता नार्यस् तथा मध्यमदेशजाः

127

अधोमुखरताश् चैव केशग्राहेषु सिन्धुजाः ।
नानारतरता नार्यस् तथा सिंहलदेशजाः

128

चुम्बनालिङ्गने रक्तास् तथा कृत्रिमलिङ्गकैः ।
महाराष्ट्रे रता रामाः स्त्रीराज्ये कोशलेषु च

129

क्षताघातांशुकाक्षेपैस् तथा कृत्रिमलिङ्गकैः ।
ध्वजवृषणलुब्धाश् च रामाः कार्णाटदेशजाः

130

चुम्बकेशग्रहैश् चैव जिह्वावक्षोजमर्दनैः ।
वृषणैस् ताडनेनाङ्गे रता द्राविडदेशजाः

131

नितान्तरसिका बन्धे चुम्बनालिङ्गनादिषु ।
लुब्धाश् चाधरपानेषु न तु लावण्यविग्रहाः

132

तीर्थयात्राभिलुब्धाश् च गौडवङ्गाङ्गनाः किल ।
निःसहा मर्दनाघाते नेपालाः कामरूपजाः

133

स्त्रीणां विषयसात्म्यं च ज्ञात्वा मैथुनम् आचरेत् ।
समाने सुखसम्पत्तिर् अन्यथा वै द्विषन्ति ताः

134

मृदुह्रस्वध्वजो यत्र प्रियो ऽशक्तो द्रुतच्युतिः ।
यत्र स्त्रीणां च काठिन्यं तत्र नीचरतो भवेत्

135

नार्यो नीचरतोद्विग्ना द्विषन्ति पुरुषं क्षणात् ।
श्रूयते चैव कर्णाटे कान्तया निहतः पतिः

136

अङ्गुलीनां प्रवेशैस् तु तथा कृत्रिमलिङ्गकैः ।
मृदुह्रस्वध्वजैः कामी रमेत् स्त्रीतोषहेतवे

138

अथ प्रासङ्गिकं कन्यापरीक्षणप्रकरणम् ।
इदानीं यद् अहं वक्ष्ये कन्यायाः लक्षणं ततः ।
निरूप्य लक्षणादींस् तां परितः स्वीयसम्पदम्

139

न कृष्णा नातिगौराङ्गी तन्वी मृदुवचास् तथा ।
न खर्वा नातिदीर्घा च सुवक्त्रा चारुलोचना

140

कम्बुग्रीवा च मृद्वङ्गी श्यामरुक्थोदरी तु या ।
अल्पनिद्राल्पभोक्त्री च समाङ्गी निम्ननासिका

141

आरक्ता सुतरां नेत्रे नखे दन्तच्छदे ऽपि च ।
पद्मरक्तादिचिह्नं च पाणौ पादे विशेषतः

मूल पाठ: Smaradīpikā · Edition: included in: Kamakunjalata, Benares : The Chowkhamba Sanskrit Series Office, 1967. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc