स्मरदीपिका · श्लोक 101-120
सम्प्रसार्य स्त्रियाः पादौ शय्यार्पितकफोणिकः ।
भगे लिङ्गस्य संयोगाद् रमते सम्पुटो हि सः
स्त्रीपादौ सरलीकृत्य भूमौ कुञ्चितजानुकः ।
स्तनलग्नो रमेत् कामी बन्धः सम्पुटको मतः
स्वजङ्घाद्वयबाह्ये च वा योषित्पदद्वयम् ।
स्तनौ धृत्वा रमेत् कामी बन्धः स्यान् मन्मथप्रियः
नारीपादद्वयं कामी धारयेत् कुचमण्डले ।
धृत्वा कण्ठं रमेन् नारीं बन्धो ऽयं रतिसुन्दरः
स्त्रिया ऊरुयुगं धृत्वा कराभ्यां पीडयेत् पुनः ।
कुर्याच् च निर्भयां कामी बन्धः स्याद् ऊरुपीडनः
धृत्वा वामकरेणोरुं पादं चापि शिरःस्थितम् ।
रमते सुदृढः कामी स्मरचक्रं प्रकीर्तितम्
स्वजानुद्वयमध्याभ्यां हस्ताभ्यां धारयेत् स्त्रियम् ।
रमेन् निःशङ्कितः कामी बन्धः स्यान् नागपाशकः
समाश्लिष्य यदा कान्तः कामिन्या जघनद्वयम् ।
ऊर्ध्वगं रमते दोर्भ्यां बन्धो गगनकः स्मृतः
नारीपादद्वयं चैव स्कन्धे यः परिवर्तनम् ।
कृत्वा कान्तो रमेद् आशु बन्धो ऽयं वंशदारकः
मुखं मुखे यदा बाह्यं बाह्ये जङ्घे ऽपि जङ्घयोः ।
वक्षो वक्षःस्थले दत्त्वा भवेत् स कनकक्षयः
सुन्दरीं च रमेत् कान्तः कट्यासक्तभुजद्वयाम् ।
हृदि तत्कान्तहस्तां च बन्धो ऽयं नागरो मतः
स्त्रीपादद्वयम् आलिङ्ग्य विमुखाक्षिप्तलिङ्गकः ।
योनिम् आपीडयेत् कामी बन्धः कुलिशनामकः
स्वजङ्घाद्वयबाह्येन धारयेत् कुचमण्डलम् ।
धृत्वा कण्ठं रमेत् कामी बन्धः स्यात् कामसुन्दरः
इत्यादिकण्ठविन्यासाद् गाढं सम्पादयेत् सुखम् ।
तस्माद् विदग्धसंघातैः कार्या बन्धाः प्रयत्नतः
स्त्रियम् आनतपूर्वाङ्गीं पादाहितकरद्वयाम् ।
धृतोदरो रमेत् कामी बन्धो ऽयं पशुनामकः
पादालीढस्तनीं नारीम् उत्क्षिप्तजघनां यदि ।
कान्तः कामयते पश्चात् कथितस् त्व् एकबन्धकः
उद्धृत्य पादम् एकं तु भुवि संस्थाप्य चापरम् ।
कुड्याश्रितां रमेत् कान्तां बन्धस् त्रैविक्रमो मतः
हृदि संस्थाप्य पादैकं बाहुभ्यां वेष्टयेद् यदि ।
कान्तः कुड्याश्रितां नारीं बन्धो वेष्टनको मतः
नारीजानुद्वयं धृत्वा आत्मजानुद्वयोपरि ।
कुड्याश्रितां रमेत् कान्तां बन्धो दोलादिनामकः
नारीबाहुद्वयं न्यस्य स्वीयबाहुद्वये तथा ।
ग्रीवां धृत्वा रमेत् कामी बन्धो दोलायितः स्मृतः
मूल पाठ: Smaradīpikā · Edition: included in: Kamakunjalata, Benares : The Chowkhamba Sanskrit Series Office, 1967. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0