स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 99
इति श्रीस्कन्दपुराणे रेवाखण्डे गोपालेश्वरमहिमानुवर्णनो नामाष्टनवतितमो ऽध्यायः ॥
र्क्स् अध्याय 99
मार्कण्डेय उवाच:
नर्मदायोत्तरे कूले तीर्थं परमशोभनम् ।
सर्वपापहरं पुण्यं नाम्ना वै गौतमेश्वरम्
स्थापितं गौतमेनैव लोकानां हितकाम्यया ।
स्वर्गसोपानरूपेण तीर्थं पुंसां युधिष्ठिर
गच्छ त्वं परया भक्त्या यत्र देवो जगद्गुरुः ।
पातकानां विनाशाय स्वर्गवासाप्तये नृप
सौख्यस्य वर्धनं लिङ्गं जयदं दुःखनाशनम् ।
पिण्डदानेन चैकेन कुलानां उद्धरेत् त्रयम्
यत् किंचिद् दीयते भक्त्या स्वल्पं वा यदि वा बहु ।
तत्सर्वं शतसाहस्रम् आज्ञया गौतमस्य च
तीर्थानां परमं तीर्थं स्वयं रुद्रेण भाषितम् ।
मार्कण्डेय उवाच:
दक्षिणे नर्मदाकूले तीर्थं परमशोभनम्
शङ्खचूडेश्वरं तत्र प्रसिद्धं भूमिमण्डले ।
शङ्खचूडेश्वरस् तत्र संस्थितः पाण्डुनन्दन
वैनतेयभयात् पार्थ संस्थितो नर्मदातटे ।
तत्र तीर्थे तु यो भक्त्या शुचिर् भूत्वा समाहितः
स्नापयेच् छङ्खचूडं तु क्षौद्रेण दधिसर्पिषा ।
रात्रौ जागरणं कृत्वा देवस्याग्रे नराधिप
दधिभक्तेन सम्पूज्य ब्राह्मणान् छंसितव्रतान् ।
गोदानं च तथा देयं सर्वपापक्षयं करम्
तस्मिंस् तीर्थे तु यः पार्थ सर्पदष्टो ऽपि नश्यति ।
सो ऽपि याति परं लोकं शङ्खचूडस्य चाज्ञया
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0