स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 98
इति श्रीस्कन्दपुराणे रेवाखण्डे मणिनागतीर्थवर्णनो नाम सप्तनवतितमो ऽध्यायः ॥
र्क्स् अध्याय 98
मार्कण्डेय उवाच:
दक्षिणे नर्मदातीरे तीर्थं परमशोभनम् ।
सर्वपापहरं पुण्यं गोपालेश्वरम् उत्तमम्
गोदेहान् निःसृतं लिङ्गं पुण्यं भूमितले नृप ।
युधिष्ठिर उवाच:
गोदेहात् निःसृतं कस्माल् लिङ्गं पापक्षयं करम्
दक्षिणे नर्मदा तीरे मणिनागसमीपतः ।
संक्षेपात् कथ्यतां विप्र गोपालेश्वरम् उत्तमम्
मार्कण्डेय उवाच:
कामधेनुस् तपस् तत्र पुत्रार्थं च चकार ह ।
ध्यायती परया भक्त्या देवदेवं महेश्वरम्
तुष्टस् तस्या जगन्नाथः कपिलाया महेश्वरः ।
निःसृतो देहमध्यात् तु अक्षयः परमेश्वरः
महेश्वर उवाच:
तुष्टो देवि जगन्मातः कपिले परमेश्वरि ।
आराधनं कृतं कस्माद् वद देवि वरानने
सुरभिर् उवाच:
लोकानाम् उपकाराय सृष्टाहं परमेष्ठिना ।
लोके कार्यं हि सर्वं वै मत्प्रसादात् प्रसिध्यति
लोकाः सर्वे प्रपश्यन्ति त्वत्पसादात् त्रिशूलिनम् ।
तीर्थे त्वं भव भोः शम्भो लोकानां हितकाम्यया
मार्कण्डेय उवाच:
तदा प्रभृतितत्तीर्थं विख्यातं वसुधातले ।
स्नानेनैकेन राजेन्द्र सर्वपापं व्यपोहति
गोपालेशे तु गोदानं यस् तु भक्त्या प्रदापयेत् ।
योग्ये द्विजोत्तमे देया योग्या धेनुः सकाञ्चनी
सवस्त्रा तरुणी शुभ्रा क्षीरिणी वृषसंयुता ।
कृष्णपक्षे चतुर्दश्याम् अष्टम्यां वा युधिष्ठिर
सर्वेषु चैव मासेषु कार्त्तिके च विशेषतः ।
दापयेत् परया भक्त्या द्विजे स्वाध्यायतत्परे
विधिना च प्रदास्यन्ति विधिना प्रतिगृह्णते ।
उभयोः पुण्यकर्माणि प्रेक्षकाः पुण्यभाजनाः
पिण्डदानं प्रकर्तव्यं प्रेतानां भावसंयुतैः ।
पिण्डेनैकेन राजेन्द्र प्रेता यान्ति परां गतिम्
भक्त्या प्रणामं रुद्रस्य ये कुर्वन्ति दिने दिने ।
तेषां पापं प्रलीयेत भिन्नपात्रे जलं यथा
तस्मिंस् तीर्थे तु यो राजन् वृषं चैव समुत्सृजेत् ।
युधिष्ठिर उवाच:
वृषोत्सर्गे कृते तात यत्फलं भवते नृणाम्
तत्सर्वं कथयस्वाद्य प्रयत्नेन द्विजोत्तम ।
मार्कण्डेय उवाच:
सर्वलक्षणसम्पन्ने वृषे चैव तु यत्फलम्
तद् अहं सम्प्रवक्ष्यामि शृणु त्वं धर्मनन्दन ।
कार्त्तिके चैव वैशाखे पौर्णमास्यां नराधिप
रुद्रस्य सन्निधौ भूत्वा शुचिः स्नात्वा जितेन्द्रियः ।
वृषोत्सर्गं तथा राजन् कारयेद् धरप्रीतये
स्थाने स्थित्वा पवित्रे तु चतस्रो वत्सिकाः शुभाः ।
वृषभाय च मुञ्चेत सर्वलक्षणसंयुताः
प्रीयतां च महादेवो ब्रह्माविष्णुस् तथा परे ।
वृषभे रोमसंख्या तु सर्वाङ्गेषु नराधिप
तावद् वर्षप्रमाणं तु शिवलोके महीयते ।
शिवलोके उषित्वा तु पश्चान् मर्त्ये च जायते
कुले महति सम्भूतो धनधान्यसमाकुले ।
सुरूपे रूपवांश् चैव विद्याढ्ये सत्यवादिनाम्
गोपालेश्वरकं पुण्यं मयाख्यातं युधिष्ठिर ।
गोदेहात् निःसृतं लिङ्गं नर्मदादक्षिणे तटे
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0