स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 100
इति श्रीस्कन्दपुराणे रेवाखण्डे शङ्खचूडतीर्थमहिमानुवर्णनो नाम नवनवतितमो ऽध्यायः ॥
र्क्स् अध्याय 100
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र पराशरवरोत्तमम् ।
पराशरो महात्मा च नर्मदायास् तटे शुभे
तपश् चचार विपुलं पुत्रार्थं पाण्डुनन्दन ।
हिमाचलसुता गौरी लक्ष्मीनारायणान्विता
तोषिता परया भक्त्या नर्मदायोत्तरे तटे ।
पराशरेण ऋषिणा तस्य तुष्टा वरं ददौ
देव्य् उवाच:
भो भो ऋषिवरश्रेष्ठ तुष्टाहं तव भक्तितः ।
वरं याचस्व विप्रेन्द्र पराशरमहामते
पराशर उवाच:
यदि तुष्टासि मे देवि यदि देयो वरो मम ।
पुत्रो मे दीयतां शीघ्रं सर्वशास्त्रविशारदः
तीर्थं चात्र भवेद् देवि सन्निधानं वरेण तु ।
लोकोपकारहेत्व् अर्थं स्थीयतां गिरिनन्दिनि
पराशराभिधानेन नर्मदादक्षिणे तटे ।
पराशरवचः श्रुत्वा देवी हिमवतः सुता
एवं भवतु ते विप्र इत्युक्त्वान्तरधीयत ।
पराशरो महात्मा च स्थापयामास पार्वतीम्
शङ्करं स्थापयामास सुरासुरनमस्कृतम् ।
अर्चितं सर्वदेवानां दानवानां दुरासदम्
पराशरो महात्मा च कृतार्थो विगतज्वरः ।
तस्मिंस् तीर्थे तु यो भक्त्या शुचिः प्रयतमानसः
मासे चैत्रे च विख्याते श्रावणे नृपनन्दन ।
मासि मार्गशिरे चैव शुक्लपक्षे तु सर्वदा
शङ्करं पाण्डवश्रेष्ठ गिरिजां पूजयेत् तथा ।
अष्टम्यां च चतुर्दश्यां सूर्यपर्वणि सर्वदा
स्त्रियो वा पुरुषा वापि कामक्रोधविवर्जिताः ।
तत्र गत्वा शूचौ स्थाने नर्मदादक्षिणे तटे
उपोष्य परया भक्त्या व्रतं कुर्युर् महामुने ।
रात्रौ जागरणं कृत्वा दीपदानं स्वशक्तितः
सपत्नीकानुत्तमांश् च शीलश्रद्धासमन्वितान् ।
पूजयेद् ब्राह्मणान् पार्थ अन्नदानहिरण्मयैः
वस्त्रेण च्छत्रदानेन शय्या ताम्बूलभोजनैः ।
श्राद्धं कार्यं नृपश्रेष्ठ आमश्राद्धं प्रशस्यते
आमं चतुर्गुणं प्रोक्तं ब्राह्मणानां युधिष्ठिर ।
वेदोक्तेन विधानेन द्विजाः पूज्याः प्रयत्नतः
हस्तमात्रकुशैश् चैव तिलैश् च वाञ्च्छितैर् नृप ।
विप्रं चोदङ्मुखं चैव आत्मानं दक्षिणामुखम्
आमं दर्भेषु निःक्षिप्य इत्युच्चार्य द्विजाग्रतः ।
प्रेता यान्तु परं लोकं तीर्थस्यास्य प्रभावतः
पापं मे प्रशमं यातु यातु वृद्धिः सदा शुभम् ।
वृद्धिं यातु सदा वंशो ज्ञातिवर्गो द्विजोत्तम
एवम् उच्चार्य विप्रेन्द्रं देयं पराशराश्रमे ।
गोभूनीलहिरण्यानि अन्नं वस्त्रं च शक्तितः
दातव्यं पाण्डवश्रेष्ठ पराशरवराश्रमे ।
यः शृणोति नरो भक्त्या सो ऽपि पापैः प्रमुच्यते
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0