भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 97

97.1

इति श्रीस्कन्दपुराणे रेवाखण्डे भस्मासुरवधो नाम षण्णवतितमो ऽध्यायः ॥
र्क्स् अध्याय 97
मार्कण्डेय उवाच:
ततो गच्छेच् च राजेन्द्र धनदं तीर्थम् उत्तमम् ।
नर्मदादक्षिणे कूले सर्वपापक्षयंकरम्

97.2

सर्वतीर्थफलं तत्र प्राप्यते नात्र संशयः ।
चैत्रमासे त्रयोदश्यां शुक्लपक्षे जितेन्द्रियः

97.3

उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम् ।
पञ्चामृतेन राजेन्द्र स्नापयेद् वरदं विभुम्

97.4

पूजयेद्भक्तियुक्तेन गीतवाद्यं प्रदापयेत् ।
प्रभाते पूजयेद् विप्रानात्मनः श्रेय इच्छता

97.5

प्रतिग्रहाविमुक्ताश् च विद्यासिद्धान्तवादिनः ।
भर्तव्या हि प्रियैर् भक्त्या परिवादविवर्जिताः

97.6

पूजयेद् गोहिरण्येन वस्त्रालंकरणेन च ।
हस्त्यश्वरथदानेन सर्वपापक्षयो भवेत्

97.7

त्रिजन्मजनितं पापं धनदस्य प्रभावतः ।
स्वर्गदं दुर्विनीतानां विनीतानां च मुक्तिदम्

97.8

धनवान् स नरव्याघ्र भवेज् जन्मनि जन्मनि ।
कुलीनत्वं स्वरूपत्वं दुःखं नास्ति निरन्तरम्

97.9

व्याधेस् तु न भयं तेषां नन्देद् धनदसेवनात् ।
धनस्य च यस् तीर्थे विद्यां वै प्रददाति हि

97.10

स याति भास्करं लोकं सर्वदुःखविवर्जितः ।
मार्कण्डेय उवाच:
अहं ते कथयिष्यामि चेतिहासं पुरातनम्

97.11

द्वे भार्य्ये कश्यपस्यास्तां सर्वलोकेष्व् अनुत्तमे ।
गरुत्मान् विनतापुत्रः कद्रूपुत्रोरगाः स्मृताः

97.12

सन्तोषेण द्वयं तात तिष्ठतः काश्यपे गृहे ।
कद्र्वास् तु भगिनी तत्र इष्टा च विनता तथा

97.13

क्रीडेद् विनतया सार्धं कश्यपो ऽपि प्रजापतिः ।
ततस् त्व् एकदिने पार्थ आश्रमस्था सुशोभना

97.14

उच्चैःश्रवोहयं दृष्ट्वा अतिवेगं नभःस्थितम् ।
पश्य पश्य च तन्वङ्गि अश्वं सर्वत्र पाण्डुरम्

97.15

धावमानम् अविश्रान्तं जवेन मानसोपमम् ।
कद्रूर् उवाच:
कथम् एतत् तु तन्वङ्गि कृष्णं जल्पसि पाण्डुरम्

97.16

असत्यं भाषितं भद्रे यमलोकं गमिष्यसि ।
विनतोवाच:
सत्यानृते तु वचने पणो ऽयं मे ऽस्तु ते ऽधुना

97.17

सहस्रं चैव वर्षाणाम् अज्ञात्वा दास्यतां व्रजेत् ।
असत्या यदि मे वाणी कृष्ण उच्चैःश्रवाहयः

97.18

तदाहं त्वद् गृहे दासी सर्वदैव भवामि हि ।
यदि तूच्चैःश्रवाः श्वेतो दासी त्वं मद्गृहे पुनः

97.19

एवं परस्परं द्वाभ्यां दासीयम् अब्रवीद् इति ।
स्वाश्रमं हि गता कद्रू रात्रौ चिन्तातुरा स्थिता

97.20

श्वेतवर्णं तु कथितं श्यामं तमश्वकं तदा ।
पुत्राणां कथितं पार्थ पणश्चैव कृतो मया

97.21

श्रुतं सर्वैस् तथा वाक्यं सर्पैर् मातृपणस् तदा ।
जाता दासी न सन्देहः श्वेतो भास्करवाहनः

97.22

कद्रूर् उवाच:
यथाहं न भवे दासी तत्कार्यं च विचिन्त्यताम् ।
उच्चैःश्रवो रोमकूपे विशध्वं यूयमेव च

97.23

एकं मुहूर्तं तिष्ठध्वं यावत् कृष्णः प्रदृश्यते ।
क्षणेनैकेन भवतां दासी सा भवते मम

97.24

दासीत्वे या तु तन्वङ्गी विनता सत्यगार्विता ।
ततः स्वस्थानगाः सर्वे भवन्तु सुखिनः सदा

97.25

सर्पा ऊचुः:
यथा त्वं जननी चैव सर्वेषां भुवि पन्नगी ।
तथा सापि विशेषण वञ्चितव्या न मातृवत्

97.26

ततः सा तेन वाक्येन क्रुद्धा कालानलोपमा ।
मम वाक्यम् अकुर्वाणा ये केचिद् भुवि पन्नगाः

97.27

हव्यवाहमुखं सर्वे यास्यन्तीत्य् अविचारिणः ।
तेन वाक्येन भीतास्ते हयरोमसुवेष्टिताः

97.28

नष्टाः केचिद् दिशो दिव्याः कद्रूशापभयान्विताः ।
केचिद् गङ्गाजले नष्टाः केचिन् नष्टाः सरस्वतीम्

97.29

केचिन् महोदधिं नीताः प्रविष्टा विन्ध्यकन्दरे ।
आश्रित्य नर्मदातोयं मणिनागोत्तमो नृप

97.30

चचार विपुलं भक्त्या उत्तरे नर्मदातटे ।
मातृशापधरो नागः प्रविष्टो नर्मदाजले

97.31

त्वत्प्रसादेन भो नाथ मातृशापं तराम्य् अहम् ।
हव्यवाहमुखं यस्मात् प्रयामि न जगत्पते

97.32

ईश्वर उवाच:
हव्यवाहमुखं वत्स न यास्यसि ममाज्ञया ।
मम लोकनिवासो ऽपि तव पुत्र भविष्यति

97.33

मणिनाग उवाच:
अस्मिन् स्थाने महादेव स्थीयताम् अंशभागतः ।
सहस्रांशेन भागेन स्थीयतां नर्मदाजले

97.34

उपकाराय लोकानां मम नाम्ना च शङ्कर ।
ईश्वर उवाच:
स्थापय स्वपरं लिङ्गमाज्ञया मम पन्नग

97.35

इत्युक्त्वान्तर्दधे देवस्तदैव शिवया सह ।
तत्र तीर्थे तु ये भक्त्या शुचयो यतमानसाः

97.36

पञ्चम्यां च चतुर्दश्याम् अष्टम्यां शुक्लपक्षके ।
अर्चयन्ति सदा पार्थ नोपसर्पन्ति ते यमम्

97.37

दध्ना च मधुना चैव घृतेन क्षीरतो जनाः ।
स्नापयन्ति विरूपाक्षम् उमादेहार्धधारिणम्

97.38

कामाङ्गदहनं देवं महासुरनिषूदनम् ।
संस्नापयन्ति ये भक्त्या पश्यन्ति परमं पदम्

97.39

षट्कर्मनिरतास् तात शूद्रप्रणयवर्जिताः ।
ते ऽपि यान्ति परं लोकं सर्वपापविवर्जिताः

97.40

व्रात्यांश् च दुर्धरान् षण्ढान् वार्धक्यांश् च कृषीवलान् ।
भिन्नदृष्टिकरान् विप्रान् कश्चिन्नैव च पूजयेत्

97.41

वृषली मन्दिरे यस्य महिषं यस् तु वाहयेत् ।
ते विप्रा दूरतस् त्याज्या व्रते श्राद्धे नृपेश्वर

97.42

काणाः कुण्डाश् च गोलाश् च वैद्याश् चैव विवर्जिताः ।
नैते पूज्या द्विजाः पार्थ मणिनागेश्वरे शुभे

97.43

यदीच्छेद् ऊर्ध्वगमनां पितृणाम् आत्मनस् तथा ।
सर्वाङ्गरुचिराङ्गाश् च सदा पूज्या द्विजास् तु वै

97.44

स याति परमं लोकं यावद् आहूतसम्प्लवम् ।
ततः स्वर्गाच् च्युतः सो ऽपि जायते विपुले कुले

97.45

मणिनागेश्वरं देवं यः पश्यति नराधिप ।
धेनुं शय्यां तथा छत्रं कन्यां दासीं सुभक्तितः

97.46

पात्रे दद्यात् तु राजेन्द्र यदीच्छेच् छ्रेय आत्मनः ।
सुरभीणि च पुष्पाणि गन्धवस्त्राणि दापयेत्

97.47

दीपं धान्यं गृहं शुभ्रं सर्वोपस्करसंयुतम् ।
ददते ये नरा भक्त्या ते व्रजन्ति त्रिविष्टपम्

97.48

मणिनागे नृप स्वर्णपन्नगो यः प्रदीयते

97.49

पातकानि प्रलीयन्त आमपात्रे जलं यथा ।
नर्मदातोयसंसिद्धं भोज्यं विप्राय दीयते

97.50

ते ऽपि पापैर् विनिर्मुक्ताः क्रीडन्ते दैवतैः सह ।
त्यागिनो भोगसंयुक्ता धर्माख्यानरताः सदा

97.51

देवद्विजगुरोर् भक्तास् तीर्थसेवापरायणाः ।
मातापितृस्वामिभक्ताः क्रोधद्रोहविवर्जिताः

97.52

एतैः सर्वैर् गुणैर् युक्ता ये नराः पाण्डुनन्दन ।
जायन्ते स्वर्गकामाश् च स्वर्गे वासो भविष्यति

97.53

सर्वतीर्थवरं तीर्थं मणिनागं नृपोत्तम ।
तीर्थाख्यानम् इदं पुण्यं यः पठेच् छृणुयाद् अपि

97.54

सो ऽपि पापविनिर्मुक्तः शिवलोके महीयते ।
न विषं क्रमते तेषां विचरन्ति यथेच्छया

97.55

भाद्रपद्यां च यः षष्ठ्यां भाद्रे स्नायाच् च दर्शके ।
तस्य पुण्यफलावाप्तिर् आख्यानकथनेन तु

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc