भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 96

96.1

इति श्रीस्कन्दपुराणे रेवाखण्डे ऽगस्त्यतीर्थवर्णनो नाम पञ्चनवतितमो ऽध्यायः ॥
र्क्स् अध्याय 96
मार्कण्डेय उवाच:
अथानन्देश्वरं गच्छेत् सर्वदेवनमस्कृतम् ।
रुद्रस्य परमानन्दो यत्र जातो युधिष्ठिर

96.2

तत्तीर्थं कथयिष्यामि सूर्यपापक्षयं करम् ।
युधिष्ठिर उवाच:
आनन्दश् चैव संजातो रुद्रस्य द्विजसत्तम

96.3

कथयस्व महाभाग संक्षेपान् मुनिसत्तम ।
मार्कण्डेय उवाच:
कथयामि नृपश्रेष्ठ आनन्देश्वरम् उत्तमम्

96.4

दानवानां वधं कृत्वा देवदेवश् च शङ्करः ।
पूजितो दैवतैः सर्वैः किन्नरैर् यक्षपन्नगैः

96.5

आनन्दं परमं प्राप्य ननर्त वृषवाहनः ।
भैरवं रूपम् आसाद्य गौरी चार्द्धाङ्गधारिता

96.6

भूतवेतालकङ्कालैर् भैरवैर् भैरवो वृतः ।
नर्मदायोत्तरे तीरे दक्षिणे पाण्डुनन्दन

96.7

तुष्टैर् मरुद्गणैस् तत्र स्थापितः कमलासनः ।
तदा प्रभृति वै देव आनन्देश्वर उच्यते

96.8

अष्टम्यां च चतुर्दश्यां पौर्णमास्यां नराधिप ।
विधिं स्नात्वार्चयेद् देवां सुगन्धेन विलेपयेत्

96.9

ब्राह्मणान् पूजयेत् तत्र यथाशक्त्या युधिष्ठिर ।
गोदानं तत्र कर्तव्यं वस्त्रदानं तथैव च

96.10

वसन्तस्य त्रयोदश्यां श्राद्धं तत्रैव कारयेत् ।
इङ्गुदैर् बदरैर् बिल्वैर् अक्षतेन जलेन वा

96.11

प्रेतानां कारयेच् छ्राद्धम् आनन्देश्वरतीर्थके ।
प्रेता आनन्दिताः स्युस् ते यावद् आहूत सम्प्लवम्

96.12

सन्ततिर्धनसौख्यं च सप्तजन्मनि जायते ।
आनन्दश् च भवेत् तेषां जन्म जन्म युधिष्ठिर

96.13

मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र मातृतीर्थम् अनुत्तमम् ।
सङ्गमस्य समीपस्थं नर्मदादक्षिणे तटे

96.14

मातरस् तत्र राजेन्द्र संजाता नर्मदातटे ।
उमया याचितस् तत्र व्यालयज्ञोपवीतकः

96.15

उवाच योगिनीवृन्दं कष्टं कष्टं न शोभनम् ।
उवाच वरदश् चास्मि योगिवृन्दवरप्रदः

96.16

योगिन्य ऊचुः:
अजेयाः सर्वदेवानां त्वत् प्रसादान् महेश्वर ।
तीर्थानामभिसंख्याने प्रख्याता वसुधातले

96.17

एवं भवतु योगिन्यस् तत्रैवान्तरधीयत

96.18

मार्कण्डेय उवाच:
तस्मिंस् तीर्थे तु यो मर्त्यो नवम्यां विजितेन्द्रियः ।
उपोष्य परया भक्त्या पूजयेन् मातृमण्डलम्

96.19

तस्य ता मातरः प्रीताः प्रीतो ऽयं वृषवाहनः ।
बन्ध्याया मृतवत्साया अपुत्राया युधिष्ठिर

96.20

स्नपनं चारभेत् तत्र मन्त्रज्ञैर् ब्राह्मणोत्तमैः ।
सहिरण्येन कुम्भेन पञ्चरत्नफलान्वितम्

96.21

स्नापयेत् पुत्रकामा च कांस्यपात्रेण मन्त्रतः ।
पुत्रान् सा लभते नारी वीर्ययुक्तान् गुणान्वितान्

96.22

यं यं कामम् अभिध्यायेत् तं तं सा लभते नृप ।
मातृतीर्थात् परं तीर्थं नास्त्य् अन्यत् पाण्डुनन्दन

96.23

तस्यैवानन्तरं तात जलमध्येश्वरं परम् ।
लिङ्गेश्वरमिति ख्यातं सुरासुरनमस्कृतम्

96.24

युधिष्ठिर उवाच:
अत्यक्ता सा तु रेवा या कथं त्यक्ता च शम्भुना ।
जलमध्ये हि तिष्ठेत शूलपाणिः पिनाकधृक्

96.25

तदहं श्रोतुम् इच्छामि तव वाक्याद् द्विजोत्तम ।
मार्कण्डेय उवाच:
आश्चर्यभूता लोके ऽस्मिन् प्रतिष्ठा पाण्डुनन्दन

96.26

पण्डितो वृद्धभावेन कथयामि नृपोत्तम ।
आदौ कृतयुगे तात दानवो बलदर्पितः

96.27

कालबाष्प इति प्रोक्तो दुर्जयो देवदानवैः ।
तपश् चचार विपुलं नर्मदाया जले शुभे

96.28

आराधयन् महादेवम् उग्रेण तपसा भृशम् ।
ततस् तुतोष भगवान् सपत्नीको महेश्वरः

96.29

ईश्वर उवाच:
भो भो वत्स वरं ब्रूहि तुष्टो ऽहं तव भक्तितः ।
देवस्य वचनं श्रुत्वा कालबाष्पो ऽब्रवीद् वचः

96.30

देवाश् चैव मया भग्नाः प्रसादात् तव शूलिनः ।
संग्रामे च विषण्णो ऽहं तस्माद् आराधनं कृतम्

96.31

हस्तं शिरसि यस्यैव दास्यामि च महेश्वर ।
न स जीवेत् पुमांल् लोके वरम् एतं ददस्व मे

96.32

ईश्वर उवाच:
यत् ते ऽभिलषितं दैत्य तत् तथैव भविष्यति ।
इति श्रुत्वा वचो दैत्यः शम्भुम् एवाभिदुद्रुवे

96.33

हस्तं ते मूर्ध्नि दास्यामि न तत्सत्यं वचस् तव ।
रुद्रः पलायितस् तेन केशवं शरणं गतः

96.34

निवेद्य केशवं सर्वं तस्मिन्न् एव न्यलीयत ।
केशव उवाच:
हन्म्य् अहं तं महादेव दुष्टं दैत्यजनेश्वरम्

96.35

हस्तं शिरसि तस्यैव दापयामि महेश्वर ।
ततस् त्वरितमापन्नः प्रविष्टो नमदातटे

96.36

कृष्णः स्त्रीवेषधारी च दैत्यसंमुखम् आगतः ।
द्वात्रिंशल्लक्षणोपेता नियुक्ता कामसायकैः

96.37

मधुमाथवके शम्भुं ध्यात्वा सर्वत्र कैशवी ।
वनं बभ्राम सर्वत्र सुशीला वटपादपम्

96.38

क्षोभयन्तीव चित्तानि सा रेमे धर्मनन्दन ।
रिङ्गमाणश् च दैत्यो ऽसौ कालबाष्पः सुदुर्जनः

96.39

प्रविष्टः स वने रम्ये यत्र सा शुभलोचना ।
अहं भवामि ते भर्ता दुर्जयो देवदानवैः

96.40

त्रैलोक्यस्वामिनी त्वं च प्रसीद मम सुन्दरि ।
श्रीकृष्ण उवाच:
यदि मां मन्यसे भार्यां प्रत्ययश् च भवेन् मम

96.41

दानव उवाच:
स्वयं भवामि तन्वङ्गि शपथं मम साधनम् ।
तद् अहं च करिष्यामि इति मे सत्यभाषितम्

96.42

स्त्र्युवाच:
कुरुष्व त्वं महाभाग शिरो हस्ते प्रदीयताम् ।
मार्कण्डेय उवाच:
कामान्धेनैव राजेन्द्र निक्षिप्तो मस्तके करः

96.43

तत्क्षणाद् अभवद् भस्म दग्धस् तृणचयो यथा ।
केशवस्योपरि तदा पुष्पवृष्टिः पपात ह

96.44

गताः सर्वे दिवं देवाः स्वस्थानं विगतज्वराः ।
क्षौराब्धिम् अगमद् विष्णुः कालबाष्पे निपातिते

96.45

य इदं शृणुयाद् भक्त्या चरितं दानवस्य च ।
श्राद्धं तत्रैव यः कुर्यात् कामक्रोधविवर्जितः

96.46

उद्धृतास् तेन सर्वे वै नरकाच् च पितामहाः ।
क्षेत्रे तस्मिंस् तु यो दद्याद् ब्राह्मणे वेदपारगे

96.47

तस्य दानफलं सर्वं कुरुक्षेत्राद् विशिष्यते ।
स्पर्शते य इदं लिङ्गं शङ्करेण च निर्मितम्

96.48

स्पर्शमात्रो मनुष्यस् तु रुद्रवासो ऽभिजायते ।
एतस्मात् कारणाद् राजंल् लोकपालाश्च देवताः

96.49

दुर्गादेवी तथा चैव मधुहन्ता चतुर्भुजः ।
दानवाद्याश् च सर्वे ऽपि रक्षणे चेश्वरस्य च

96.50

रक्षन्ते च सदाकालं गृहव्यापाररूपतः ।
पुत्रभ्रातृसमा भूत्वा स्वामिसम्बन्धरूपिणः

96.51

लिङ्गेश्वरं तु राजेन्द्र देवैरद्या ऽपि रक्ष्यते

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc