भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 95

95.1

इति श्रीस्कन्दपुराणे रेवाखण्डे आदित्येश्वरतीर्थकीर्तनो नाम चतुर्नवतितमो ऽध्यायः ॥
र्क्स् अध्याय 95
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र करञ्जेश्वरम् उत्तमम् ।
यत्र ते निहतास् तात दानवास् तत्पदानुगैः

95.2

इन्द्राद्यैश् चैव संहृष्टैः स्तुतो यज्ञः सुबुद्धिभिः ।
तेषां ये पुत्रपौत्राश् च पूर्ववैरमनुस्मरन्

95.3

तत्र स्थास् तु सुराः सर्वे स्थापयित्वा ह्य् उमापतिम् ।
इन्द्रचन्द्रयमाः सूर्यः स्थापयित्वेष्टसिद्धये

95.4

हृष्टपुष्टाः सुराः सर्वे जग्मुर् आकाशसस्थिताः ।
दानवानां महाभाग करोट्यः पतिता यतः

95.5

तदा प्रभृति तत् तीर्थं करोटीति महीपते ।
विख्यातं भारते लोके भूपृष्ठे पाण्डुनन्दन

95.6

अष्टम्यां च चतुर्दश्यां शुभे पक्षे तु भक्तितः ।
उपोष्य शूलिनश् चाग्रे रात्रौ कुर्वीत जागरम्

95.7

तत्कथालापसंयुक्तं वेदोद्गीतं तथैव च ।
प्रभाते विमले प्राप्ते स्थाणुं सम्पूज्य यत्नतः

95.8

पञ्चामृतेन संस्नाप्य श्रीखण्डेनैव चार्चयेत् ।
शतपल्लवपुष्पैश् च पूजयेच् च प्रयत्नतः

95.9

बहुरूपं जपेन्मन्त्रं दक्षिणां तु प्रदाय च ।
तत्फलं समवाप्नोति आदित्येश्वर नार्मदे

95.10

श्रुततीर्थप्रभावं वै यः पठेच् च नराधिप ।
तत्सर्वं कथयिष्यामि भक्त्या तव महीपते

95.11

यथोक्तेन विधानेन नाभिमात्रे जले स्थितः ।
श्राद्धं तत्रैव प्रेताय कारयेत जितेन्द्रियः

95.12

विविधैरग्रपाठैश् च वेदाध्ययनतत्परैः ।
गोहिरण्येन सम्पूज्य वस्त्रताम्बूलभोजनैः

95.13

भूषणैः पट्टदानैश् च ब्राह्मणं पाण्डुनन्दन ।
तस्मिंस् तीर्थे तु सम्पूज्य कामिकं भोजनं ददेत्

95.14

भवेत् कोटिगणं तस्य नात्र कार्या विचारणा ।
तत्र तीर्थे यथा भक्त्या त्यजेद् देहं च मानद

95.15

तस्य तीर्थे भवेत् पुण्यं तच् छृणुष्व नराधिप ।
यावद् अस्थिमनुष्यस्य तिष्ठते नर्मदाम्भसि

95.16

तावद् वसति धर्मात्मा शिवलोके सुदुर्लभे ।
ततः कालात् प्रच्युतश् च देवो मानुष्यतां गतः

95.17

कोटिध्वजपतिः श्रीमान् जायते नात्र संशयः ।
सर्वधर्मसमायुक्तो मेधावी जीवपुत्रकः

95.18

विख्यातश् च धरापृष्ठे दीर्घायुर् मानवो भवेत् ।
इन्द्रचन्द्रयमैः रुद्रैर् आदित्यैर् वसुभिस् तथा

95.19

विश्वेदेवैस् तथा सर्वैः स्थापितास् त्रिदशेश्वरः ।
नर्मदोत्तरकूले तु लोकानां हितकाम्यया

95.20

मानवः प्रेतम् उद्दिश्य प्रासादं कारयेत् तु यः ।
तस्मिन् नरवरश्रेष्ठः स सद्गतिम् अवाप्नुयात्

95.21

न्यायोपार्जितद्रव्येण यः श्राद्धं कुरुते ऽत्र वै ।
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश् च सत्कृताः

95.22

ते ऽपि यान्ति परे लोके शाङ्करे सुरपूजिते ।
यः शृणोति नरो भक्त्या माहात्म्यं तीर्थजं नृप

95.23

तस्य पापं प्रणश्येत षण्मासेन तु यत्कृतम् ।
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र कुमारेश्वरम् उत्तमम्

95.24

प्रसिद्धं सर्वतीर्थानाम् अगस्त्येश्वरम् उत्तमम् ।
षण्मुखेन तपस्तप्तं सर्वपातकनाशनम्

95.25

स्नानं च परया भुक्त्या सिद्धिः प्राप्ता नराधिप ।
देवसैन्याधिपो राजन् सर्वशत्रुविमर्दनः

95.26

उग्रतेजा महात्मा च संजातस् तीर्थसेवनात् ।
तदा प्रभृति तत्तीर्थं विख्यातं नर्मदातटे

95.27

तस्मिंस् तीर्थे तु यो भक्त्या एकचित्तो जितेन्द्रियः ।
अष्टम्यां च चतुर्दश्यां कार्त्तिकस्य विशेषतः

95.28

स्नापयेद् गिरिजानाथं दधिदुग्धेन सर्पिषा ।
गीतं तत्र प्रकर्तव्यं पिण्डदानं यथाविधि

95.29

ब्राह्मणैः श्रोत्रियैः पार्थ षट्कर्मनिरतैः सदा ।
यत्किंचिद् दीयते तत्र अक्षयं पाण्डुनन्दन

95.30

सर्वतीर्थात् परं तीर्थं निर्मितं शशिना नृप ।
एतत् ते सर्वम् आख्यातं कुमारेश्वरजं फलम्

95.31

कुमारदर्शनात् पुण्यं प्राप्यते पाण्डुनन्दन ।
मृतः स्वर्गम् अवाप्नोति सत्यम् ईश्वरभाषितम्

95.32

ततो गच्छेत् तु राजेन्द्र अगस्त्येश्वरम् उत्तमम् ।
तत्र सिद्धो महाभाग अगस्त्यो मुनिपुङ्गवः

95.33

युधिष्ठिर उवाच:
कथं सिद्धो महाभाग अगस्त्यो मुनिपुङ्गवः ।
कुम्भोद्भवो महाभाग मित्रावरुणसम्भवः

95.34

नर्मदातटम् आश्रित्य तत्सर्वं कथयस्व मे ।
मार्कण्डेय उवाच:
महाप्रश्नो महाराज परिपृष्टश् च यस् त्वया

95.35

तत् ते ऽहं सम्प्रवक्ष्यामि शृणुष्वैकमनाः सदा ।
पुराकृतयुगे तात भारार्ता जगती स्थिता

95.36

विज्ञप्तुकामा देवेशं नाकपृष्ठं गता नृप ।
इन्द्राय कथयामास दैत्यभारार्दितं जगत्

95.37

इन्द्र उवाच:
ब्रह्मा च जगतः कर्ता तवैव मम सुन्दरि ।
ब्रह्मलोकं गमिष्यामि मन्त्रिभिर्दैवतैः सह

95.38

ततः सर्वे गतास् तत्र यत्रासौ कमलासनः ।
बृहस्पतिर् उवाच:
ब्रह्मन् निर्लम्बना जाता दैत्यभाराद् वसुन्धरा

95.39

असहन्ती तु तं भारं याति देवी रसातलम् ।
प्रतीकारं पृथिव्याश् च कुरुष्व जगतीपते

95.40

सर्वसत्त्वोपकाराय सृष्टिस् त्वयि जगत्पते ।
पितामह उवाच:
कर्ता ऽस्मि सर्वजगताम् अयोनिकलशोद्भवः

95.41

अगस्त्यस् तपसां राशिः शक्तो दैत्यनिवारणे ।
एकतः सर्वदेवानां बलं तेजश् च जायते

95.42

एकतो ऋषिमुख्यस्य जायते नात्र संशयः ।
ब्रह्मणो वचनं श्रुत्वा सर्वे देवाः सवासवाः

95.43

तथैव कारणं चान्यत् कथयन्ति स्म भारत ।
विज्ञातं देवदेवेश विश्वामित्रचिकीर्षितम्

95.44

त्रिशङ्क्वर्थे च यज्ञो ऽयं विश्वामित्रेण साधितः ।
स्पर्धया च वशिष्ठस्य यज्ञाङ्गानि समासृजत्

95.45

स्पर्धया सृजताकाशं भूमिं चान्यां समासृजत् ।
यथा तु हिमवच् छैलः पूर्वापरमहोदधिम्

95.46

व्याप्यैव संस्थितो भूम्यां देवकार्यार्थसाधकः ।
तथासौ स्पर्धते विन्ध्यः स्पर्धया कौशिकस्य च

95.47

तिष्ठन्ति देवकार्याणि कौशिकेन सुरेश्वर ।
कार्यद्वयप्रतीकारं चिन्तय स्वजगद्गुरो

95.48

ब्रह्मोवाच:
एकस् त्व् अस्य गुरुर् विप्रो ह्य् अगस्त्यो मुनिपुङ्गवः ।
उत्पथे वर्तमानस्य कौशिकस्य दुरासदः

95.49

अगस्त्यो मार्गभेत्ता वै भविष्यति न संशयः ।
गुरुर् आत्मवतां शास्ता सर्वेषां वै न संशयः

95.50

वर्धनं पर्वतस्यास्य देवमार्गप्रवर्तनम् ।
शासः कौशिकविप्रस्य वसुधायां समन्ततः

95.51

क्षमः समस्तकार्याणां मित्रावरुणनन्दनः ।
एवं तु निश्चयं कृत्वा देवाः सेन्द्रपितामहाः

95.52

ययुर्वसुन्धरासार्धं हिमवन्तं नगेश्वरम् ।
ददृशुस् ते स्थितं विप्रं ध्यायमानं च योगिनम्

95.53

सुदृढं निश्चलध्यानं मोक्षमार्गनियामकम् ।
तंदृष्ट्वा स्तोतुम् आरब्धाः सेन्द्रचन्द्राः सवारुणाः

95.54

देवा ऊचुः:
जयम् इच्छस्व देवानां भगवन् कलशोद्भव ।
प्रसादसुमुखो भूत्वा देवानां भयमागतम्

95.55

अगस्त्य उवाच:
किं कार्यं तु समुत्पन्नं येन दूरं समागताः ।
एकान्तवासिनं नित्यं तं मां यूयं सुराश् च भोः

95.56

उच्यतां यन् मया कार्यं तत्सर्वं करवाण्य् अहम् ।
ततो मन्दानिलोद्धूतकमलाकरशोभिना

95.57

गुरुं नेत्रसहस्रेण प्रेरयामास वृत्रहा ।
वाक्पतिर् उवाच:
त्वया पूर्वं महाभाग देवकार्यार्थसिद्धये

95.58

समुद्राः कर्षिताः सर्वे ईश्वरेण यथा जगत् ।
विध्वस्तास्त्रिदशाः सर्वे दानवैर् बलदर्पितैः

95.59

जिता देवास् तु ते सर्वे दानवेभ्यः पराङ्मुखाः ।
तेषां वरापहाराय समुद्राः शोषिताः पुरा

95.60

साम्प्रतं दुःखिता धात्री पश्येमां भूतधारिणीम् ।
दैत्यभारेण दुःखार्ता भूमिर्जाता रसातलम्

95.61

गन्तव्यं दक्षिणामाशां तपोराशे द्विजोत्तम ।
नर्मदोदधिमर्यादां कुरु पुण्यां महाद्विज

95.62

वृद्धिं विन्ध्यनगस्यापि देवकार्यं समुद्धर ।
कौशिको ऽथ कनीयांस् ते य उन्मार्गप्रवर्तकः

95.63

अगस्त्य उवाच:
देवकार्यं करिष्यामि सुखं तिष्ठ वसुन्धरे ।
गच्छामि दक्षिणाम् आशां शक्तः शिष्यस्य वारणे

95.64

वर्धनं पर्वतस्यास्य वारयामि न संशयः ।
देवा ऊचुः:
याम्यां गत्वा सुरैः सार्धं द्रष्टव्यो यं न संशयः

95.65

सिंहस्थे भास्करे विप्र येन यास्यन्ति भक्तितः ।
नश्यते च धनं धान्यं तेषां सौख्यं न संशयः

95.66

अधिकाराय देवानां स च दृष्टो भविष्यति ।
तत्प्रतिज्ञाय गीर्वाणाः समं वसुधया गताः

95.67

अगस्त्यं तपसां राशिं निर्गच्छन्तः समन्ततः ।
अगस्त्यपदविक्षेपाच् चलिता च वसुन्धरा

95.68

मनोवेगेन सम्प्राप्तः कौशिको यत्र तापसः ।
कौशिको ऽपि गुरुं दृष्ट्वा साष्टाङ्गं प्रणिपत्य च

95.69

धन्ये ऽहं मुनिशार्दूलप्रीतो ऽहं तव दर्शनात् ।
अर्घपात्रं समादाय दध्यक्षतसमन्वितम्

95.70

दूर्वा च चन्दनं पूज्यभक्त्या पात्रे समाहितम् ।
गुरुपादपरिक्षिप्त उवाच मधुरं तदा

95.71

आदेशो दीयतां तात तव प्रेष्यो द्विजोत्तम ।
अगस्त्य उवाच:
देवकार्यविघातं च कौशिक त्वं विसर्जय

95.72

देवकार्यविसृष्टेन कर्मणा न प्रवर्तसे ।
यदि ते निश्चला भक्तिर् विश्वामित्र ममोपरि

95.73

तदा त्वं वर्जयेः सर्वम् उन्मार्गस्य प्रवर्तनम् ।
विश्वामित्र उवाच:
गुरुर् आत्मवतां शास्ता राजा शास्ता दुरात्मनाम्

95.74

इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ।
स्पर्धया च वशिष्ठस्य त्रिशङ्कुर्मे सुयाचितः

95.75

अद्य प्रभृति तत् सर्वं त्यक्तम् एव द्विजोत्तम ।
इत्युक्तः प्रययौ शीघ्रं रेवातीरं सुदुर्लभम्

95.76

उत्तरं तटम् आसाद्य तपस् तत्र समारभत् ।
नर्मदा त्रिषु लोकेषु पवित्रा पापनाशिनी

95.77

निश्चयं परमं कृत्वा मित्रावरुणनन्दनः ।
शिलातले निविष्टस् तु चचार विपुलं तपः

95.78

वायुभक्षः सदा कालं कुम्भयोनिर् महातपाः ।
ज्ञातो भक्तियुतः श्रेष्ठ ईश्वरेण युधिष्ठिर

95.79

प्रत्यक्षो द्वादशे वर्षे सङ्गतः पार्वतीपतिः ।
ईश्वर उवाच:
साधु साधु मुनिश्रेष्ठ तपसा द्योतितं नभः

95.80

निश्चयं तव तुष्टो ऽस्मि मित्रावरुणनन्दन ।
वर्षायुतसहस्रेण नान्येषां वरदो ह्य् अहम्

95.81

अगस्त्य उवाच:
संसारपल्वलातीतसृष्टिजन्मविवर्जित ।
दुर्लक्ष्यासुरसङ्घानां प्रमथेश नमो ऽस्तु ते

95.82

नन्दिस्कन्दगणा देवा वृथा क्लिश्यन्ति मोहिताः ।
सनत्कुमारमुख्याश् च ऋषयः शंसितव्रताः

95.83

त्वद् रूपं ते न जानन्ति शम्भो नाथ नमो ऽस्तु ते ।
ब्रह्माद्या देवताः सर्वे ध्यायन्ति त्वाम् अहर्निशम्

95.84

नैते पश्यन्ति त्वद् रूपं धातर्देव नमो ऽस्तु ते ।
ईश्वर उवाच:
प्रसन्नस् तव विप्रेन्द्र ऊर्ध्वरेतस् त्व् अयोनिज

95.85

तव भक्तिगृहीतो ऽहं प्रसन्न उमया सह ।
अगस्त्य उवाच:
यदि तुष्टो ऽसि देवेश यदि देयो वरो मम

95.86

प्रत्यक्षो भव तीर्थे ऽस्मिन् यदि सत्यं वरप्रदः ।
अन्तर्जले सदाकालं धर्माध्यक्षो महेश्वर

95.87

शिलायां भव नित्यं च नर्मदायोत्तरे तटे ।
देवकार्यस्य कर्ताहं त्वत्प्रसादाज् जगत्पते

95.88

तथेति चोक्त्वा वृषवाहनो ऽपि जगाम कैलासनगं नगेशः ।
अयोनिजो योगबलेन युक्तः प्रविद्यया लिङ्गबलाच् छिवस्य

95.89

जगाम दक्षिणाम् आशां सुरसङ्घैर् अभिष्टुतः ।
तपोवनं यथापुण्यं देवदानवसेवितम्

95.90

प्रविष्टो मुनिशार्दूलः पवित्रं देवकम्बलम् ।
निश्चला सुषमादेवी संस्थिता धरणी तथा

95.91

पुष्पाणि ववृषुर्देवा जयशब्दं पुनः पुनः ।
युधिष्ठिर उवाच:
तस्य तीर्थस्य यत्पुण्यं कथ्यतां मुनिसुव्रत

95.92

आदिमध्यावसाने च ब्राह्मणैः सह बान्धवैः ।
पितॄणां सर्वतीर्थानां सर्वसत्त्वोपकारकम्

95.93

मार्कण्डेय उवाच:
पितॄन् मोक्षदं प्रोक्तं सर्वकाले जनाधिप ।
शिवाख्यां कार्त्तिके मासि कृष्णपक्षे चतुर्दशीम्

95.94

उपोष्य यो नरो भक्त्या कामक्रोधविवर्जितः ।
शमीतरुं समास्थाय रात्रौ कुर्वीत जागरम्

95.95

तत्कथालापसंयुक्तो धर्माख्यानैर् द्विजैः सह ।
गवां घृतेन देवेशं रात्रौ च स्नापयेत् पुनः

95.96

घटेनैव घटार्धेन तदर्धेन स्वशक्तितः ।
घृतेन बोधयेद् दीपं घृतं विप्राय दापयेत्

95.97

पञ्चामृतेन गव्येन स्नापयेत् परमेश्वरम् ।
प्रभाते पूजयेद् विप्रान् स्वदारनिरतान् सदा

95.98

वेदाभ्यसनशीलांश् च परदारविवर्जितान् ।
शूद्रसेवारता नित्यं धूर्तकर्मरता जनाः

95.99

पतिताः कूटसाक्ष्येण प्रतिग्रहरताः सदा ।
वेदद्वेषणशीलाश् च कुब्जाश् च विकलाः सदा

95.100

हीनातिरिक्तगात्रा ये द्विजाः श्राद्धे विवर्जिताः ।
वेदोक्तेन विशुद्धाङ्गाः पूज्या नित्यं युधिष्ठिर

95.101

भूमिदानेन वस्त्रेण कन्यादानैर् विशेषतः ।
श्राद्धकालेषु योगेषु भर्तव्या भक्तितत्परैः

95.102

गोदानं तत्र कर्तव्यं श्रेयो ऽर्थम् आत्मनस् तथा ।
सवत्सां क्षीरिणीं शुभ्रां पुष्टां वै शीलसंयुताम्

95.103

कम्बलं परया भक्त्या पादुकोपानहौ तथा ।
हिरण्यरुक्मिणीं कन्थां ताम्बूलं भोजनं तथा

95.104

घण्टाभरणशोभाढ्यां वस्त्रयुग्मावगुण्ठिताम् ।
स्वर्णशृङ्गीं रौप्यखुरीं कांस्यदोहेन संयुताम्

95.105

उच्चार्य परया भक्त्या यावद् आहूतसंप्लवम् ।
सर्व कोटिगुणं पार्थ शुभं वा यदि वाशुभम्

95.106

तीर्थाख्यानं च यो भक्त्या पठते शृणुते ऽथवा ।
मुच्यते सर्वपापेभ्यः शिवलोके वसत्य् अपि

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc