स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 94
इति श्रीस्कन्दपुराणे रेवाखण्डे ऽर्कतीर्थमहिमानुवर्णनो नाम त्रिनवतितमो ऽध्यायः ॥
र्क्स् अध्याय 94
मार्कण्डेय उवाच:
तीर्थस्यास्य च यत्पुण्यं तच् छृणुष्व नराधिप ।
पण्डितो वृद्धभावेन भक्त्या त्रातो नरेश्वर
उद्देशं कथयिष्यामि दृष्ट्वा वान्तरम् एव च ।
कुरुक्षेत्रं यथापूतं रवितीर्थं श्रुतं तथा
ईश्वरेण पुराख्यातं षण्मुखस्य युधिष्ठिर ।
श्रुतं रुद्रगणैः सर्वैर् अहं तत्र समीपगः
मार्तण्डग्रहणे प्राप्ते ये व्रजन्ति षडानन ।
रवितीर्थे कुरुक्षेत्रे तुल्यम् एव फलं भवेत्
स्नाने दाने तथा जाप्ये होमे चैव विशेषतः ।
कुरुक्षेत्रे तथा पुण्यं नात्र कार्या विचारणा
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ।
रवितीर्थे विशेषेण रविपर्वणि भूमिप
तत्र सूर्यदिने भक्त्या व्यतीपाते च वैधृतौ ।
संक्रमणे ग्रहणे वा ऽपि ये व्रजन्ति जितेन्द्रियाः
कामक्रोधविनिर्मुक्ता रागद्वेषैस् तथैव च ।
कथां च वैष्णवीं पार्थ वेदाध्ययनम् एव च
ऋग्वेदं वा यजुर्वेदं सामवेदम् अथर्वणम् ।
ऋचम् एकां तु जप्त्वैव समस्तफलम् आप्नुयुः
गायत्र्या च चतुर्वेदफलम् आप्नोति मानवः ।
प्रभाते पूजयेद् देवम् अन्नदानहिरण्मयैः
तत्र स्नात्वा द्विजे योग्ये कपिलां यः प्रयच्छति ।
पृथिवी तेन वै दत्ता सशैलवनकानना
भूर्लोकश् च भुवर्लोको महर्लोको जनस् तथा ।
तपः सत्य तथा लोकं पातालान्य् एकविंशतिः
तेन दत्तं भवेत् सर्वं गोदानं येन वै कृतम् ।
तेषाम् अब्दकृतं पापं नश्येद् वै नात्र संशयः
युधिष्ठिर उवाच:
पुण्या गतिः कथं तात एतत् कथय तत्त्वतः ।
मार्कण्डेय उवाच:
पुरा कृतयुगस्यादौ ब्रह्मालोकपितामहः
उत्पाद्य तथा सकलं भूतग्रामं चतुर्विधम् ।
आकुला पृथिवी तेन संजाता पाण्डुनन्दन
ततः पश्चाद् विचिन्त्येदं कथं लोको भविष्यति ।
कथं स्वर्गं प्रयास्यन्ति मानवा भक्तिसंयुताः
भानुश् चैव कथं प्रीतो लोकानां जायते भृशम् ।
विरञ्चेश्चिन्त्यमानस्य अग्निकुण्डात् समुत्थिता
ज्वलन्ती तेजसा पूर्णा घण्टा लुलितनिःस्वना ।
दृष्ट्वा तां तु महाभागां कपिलां कुण्डमध्यगाम्
ब्रह्मालोकगुरुस्तां तु प्रणम्येदम् उवाच ह ।
नमस्ते कापिले पुण्ये सर्वलोकेष्व् अनुत्तमे
माङ्गल्ये मङ्गले देवि त्रिषु लोकेषु वन्दिते ।
त्वं लक्ष्मीस् त्वं धृतिर्मेधा पवित्रा तु वरानने
उमादेवीति विख्याता त्वं शची नात्र संशयः ।
वैष्णवी त्वं महादेवी ब्रह्माणी त्वं वरानने
कुमारी त्वं महाभागे भक्तिः श्रद्धा तथैव च ।
कालरात्री तु भूतानां कुमारी परमेश्वरी
त्वं त्रुटिस्त्वं घटी चैव मुहूर्तक्षणम् एव च ।
संवत्सरर्तवो मासास् त्वं कालः पुरुषः सदा
नास्ति किंचित् त्वया हीनं त्रैलोक्ये सचराचरे ।
एवं स्तुता तु सा तेन कपिला परमेष्ठिना
तम् उवाच महाभागा प्रहृष्टा परमेष्ठिनम् ।
प्रसन्ना तव वाक्येन देवदेव जगद्गुरो
ब्रह्मोवाच:
जगद्धिताय जनिता मया त्वं परमेश्वरि ।
स्वर्गान् मर्त्यमितो याहि लोकानां हितकाम्यया
सर्वदेवमयीं त्वां तु सर्वलोकमयीं तथा ।
विधिना ये प्रदास्यन्ति तेषां वासस् त्रिविष्टपे
एवमुक्ता ततः पुण्या कपिला परमेष्ठिना ।
आजगाम भुवः पृष्ठे वन्द्यमाना सुरोत्तमैः
पवित्रा वसुधा तेन संजाता पाण्डुनन्दन ।
तस्या अङ्गेषु ये देवास् तान् मे निगदतः शृणु
मुखे ह्य् अग्निः स्थितो देवो दन्तेषु च भुजङ्गमाः ।
धाता विधाता चोष्ठौ च अश्विनौ कर्णसंस्थितौ
वज्रपाणिः स्थितः शृङ्गे शृङ्गमध्ये पितामहः ।
कालो मध्यगतस् तात पाशभृद् वरुणस् तथा
यमश् च भगवान् देव आस्यस्योपरि संस्थितः ।
नाभिमध्ये स्थितश् छन्दो देवा जङ्घासु भारत
वसुन्धरा स्थिता नाभ्यां पर्वताः सन्धिषु स्थिताः ।
वृक्षा गुल्मानि वल्ल्यश् च सन्धिमार्गे व्यवस्थिताः
ऋषयो रोमकूपेषु संस्थिताः पाण्डुनन्दन ।
स्नायुस्थाः पितरः सर्वे प्रस्रवं सर्वतीर्थजम्
सर्वेषां गोमयं श्रेष्ठं पवित्रं पापनाशनम् ।
खुरेषु पन्नगाः सर्वे पुच्छाग्रे सूर्यरश्मयः
एवं भूता तु कपिला सर्वदेवमयी किल ।
ये ध्यायन्ति गृहे भक्त्या ते मुक्ता नात्र संशयः
प्रातरुत्थाय यो भक्त्या नित्यं कुर्यात् प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा
कपिलापञ्चगव्येन यः स्नापयति शङ्करम् ।
विष्णुं वा जगदाधारं सूर्यं वा त्व् अन्यदैवतम्
पञ्चामृतेन संस्नाप्य भक्त्या गव्येन पाण्डव ।
अब्दं वा श्रोत्रिये नित्यं कपिलां यः प्रयच्छति
तुल्यम् एतत् फलं प्रोक्तं शङ्करेण युधिष्ठिर ।
य प्रदास्यति विप्राय रवितीर्थे सुयन्त्रितः
कपिलां वाथ कृष्णां वा श्वेतां रक्तां च पाटलाम् ।
क्षीरिणीं तरुणीं शुभ्रां सवत्सां वस्त्रसंयुताम्
स्वर्णशृङ्गीं रौप्यखुरीं विष्णुरूपं द्विजं स्मरन् ।
आत्मानं विष्णुरूपं च धेनुम् आदित्यरूपिणीम्
यो ददाति महाबाहो तस्य वासस् त्रिविष्टपो ।
ब्रह्महत्या विनिर्मुक्तः सुरापानं च दारुणम्
गुर्वङ्गनागमः स्तेयो स्वामिद्रोहो गवां वधः ।
मित्रविश्वासघातं च गुरुनिन्दासमुद्भवम्
स्थितिर्नष्टे च वंशे च निर्माल्यस्यावलङ्घनम् ।
कन्यागमागमश् चैव अभक्षस्य तु भक्षणम्
वृषली गमनं रौद्रं कुरूपागमनोद्भवम् ।
अग्निदं गरदं चैव कूटसाक्ष्यसमुद्भवम्
तत्सर्वं नाशयेत् पापं धेनुर्दानेन पाण्डव ।
सुरभिसंगमे पुण्ये निष्ठुते पापनाशने
श्राद्धं प्रेतस्य यो भक्त्या दापयेत् कुन्तिनन्दन ।
तस्य प्रीतो भवेत् सूर्यः सुप्रीतो भव एव च
दानं यद् दीयते तत्र सूर्यम् उद्दिश्य भक्तितः ।
मित्रलोके सुखं याति नर्मदायाः प्रसादतः
दधिच्छन्दे मधुच्छन्दे देवयाने सुखप्रदे ।
भीमेश्वरे कुरुश्रेष्ठ समं पुण्यं प्रशस्यते
पृथिव्यां सागरान्तायां प्रख्यातं तीर्थपञ्चकम् ।
ये न जानन्ति भूमिस्था ते मृता नात्र संशयः
स्नानं देवार्चनं जाप्यं होमं ब्राह्मणपूजनम् ।
भूमिदानेन वस्त्रेण अन्नदानेन भक्तितः
उपानच्छत्रशयाना गृहदानेन पाण्डव ।
ग्रामकन्याप्रदानेन गजदानहयेन च
विद्याशकटदानेन सर्वेषाम् अभयप्रदः ।
स याति सर्वतीर्थानि रवितीर्थं युधिष्ठिर
तीर्थयात्राप्रभावेण व्याधयो यान्ति संक्षयम् ।
शत्रवो मित्रतां यान्ति विषं वा ह्य् अमृतायते
ग्रहाः सर्वे ऽभवन् प्रीताः प्रीतस् तस्य दिवाकरः ।
तीर्थस्यास्य पयः पीत्वा यत् पुण्यं जायते नृणाम्
अब्दम् अश्वत्थसेवायां कपिलायास् तु दानतः ।
तत्फलं कथयिष्यामि भक्त्या तव महीपते
पापाः सर्वे विलीयन्ते भिन्नपात्रे जलं यथा ।
तीर्थस्याभिमुखं वृत्तं गच्छतां नात्र संशयः
इह बाह्यान्तरं तीर्थं कथितं तव पार्थिव ।
पापिष्ठानां कृतघ्नानां स्वामिमित्रविरोधिनाम्
तीर्थाख्यानं शुभं तेषां गोपितव्यं सदा बुधैः
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0