भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 93

93.1

इति श्रीस्कन्दपुराणे रेवाखण्डे भानुमतीस्वर्गारोहणं नाम द्विनवतितमो ऽध्यायः ॥
र्क्स् अध्याय 93
देव उवाच:
ततः पुष्करिणीं गच्छेत् सर्वपापप्रणाशिनीम् ।
श्रुत्वा तस्याः प्रभावं तु सर्वपापैः प्रमुच्यते

93.2

रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।
यत्रास्ते सर्वदा देवो दिव्यमूर्तिर्दिवाकरः

93.3

कुरुक्षेत्रं यथापुण्यं सर्वकामिकम् उत्तमम् ।
इदं तीर्थं तथा पुण्यं सर्वकामफलप्रदम्

93.4

कुरुक्षेत्रे यथा वृद्धिर् दानस्य जगतीपते ।
पुष्करिण्यां तथा वृद्धिर् दानस्यापि न संशयः

93.5

यवम् एकं तु यो दद्यात् सौवर्णं चात्र वै नृप ।
पुष्करिण्यां तथा स्नानं सर्वं स्थानेश्वरे स्मृतम्

93.6

सूर्यग्रहे यथा शक्त्या दत्त्वा दानं यथा विधि ।
हस्त्य् अश्वरथरत्नानि गृहं गाश् च धुरन्धरान्

93.7

सुवर्णं रजतं वापि ब्राह्मणेभ्यो ददाति यः ।
त्रयोदशदिनं यावत् त्रयोदशगुणं भवेत्

93.8

तिलमिश्रेण तोयेन तर्पयेत् पितृदेवताः ।
द्वादशाब्दं भवेत् तृप्तिस् तत्र तीर्थे महीपते

93.9

यस् तत्र कुरुते श्राद्धं पायसैर् मधुसर्पिषा ।
श्राद्धं मघादि ऋक्षेषु पितॄणां दत्तम् अक्षयम्

93.10

अक्षतैर् बदरैर् बिल्वैर् इङ्गुदैर् वै तिलैः सह ।
अक्षयं फलमाप्नोति तस्मिंस् तीर्थे न संशयः

93.11

तत्र स्नात्वा तु यो देवं पूजयेच् च दिवाकरम् ।
स गच्छेत् परमं लोकं त्रिदशैर् अपि वन्दितः

93.12

ऋचमेकां पठेद् यस् तु यजुषः साम्न एव च ।
समग्रस्य स वेदस्य फलम् आप्नोति वै द्विजः

93.13

त्रिपुष्करं जपेन् मन्त्रं ध्यायमानो दिवाकरम् ।
स गच्छेत् परमं लोकं त्रिदशैर् अपि वन्दितम्

93.14

यस्तत्र विधिवत् प्राणांस् त्यजते नृपसत्तम ।
स गच्छेत् परमं स्थानं यत्र देवो दिवाकरः

93.15

मार्कण्डेय उवाच:
भूयो ऽप्य् अन्यत् प्रवक्ष्यामि आदित्येश्वरम् उत्तमम् ।
सर्वदुःखहरं पार्थ सर्वविघ्नविनाशनम्

93.16

अस्य तीर्थस्य चान्यानि तीर्थानि कुरुनन्दन ।
न लभन्ते श्रियं नाके मर्त्ये पातालगोचरे

93.17

कुरुक्षेत्रं यथा गङ्गा नैमिषं पुष्करं तथा ।
वाराणसी च केदारं प्रयागो नृपनन्दन

93.18

रवितीर्थस्य सर्वाणि कलां नार्हन्ति षोडशीम् ।
रवितीर्थे च यद् दत्तं शृणुष्व कुरुनन्दन

93.19

स्नेहार्थे कथयिष्यामि वार्धक्ये नास्ति पण्डितः ।
शृण्वन्तु ऋषयः सर्वे तपोनिष्ठा महात्मानः

93.20

श्रुतं मे रुद्रसान्निध्ये स्कन्दरुद्रगणैः सह ।
पार्वत्या प्रार्थितः शम्भूरवितीर्थस्य यत्फलम्

93.21

शम्भुनापि तदाख्यातं गिरिजायाः पुरस् तदा ।
तत्सर्वम् एकचित्तेन रुद्रोद्गीतं श्रुतं मया

93.22

दुर्भिक्षोपहता विप्रा नर्मदा तटम् आश्रिताः ।
उद्दालको वशिष्ठश् च माण्डव्यो गौतमस् तथा

93.23

याज्ञवल्क्यो ऽथ शाण्डिल्यश्च्यवनो भार्गवस् तथा ।
नाशके तुर्विभाण्डश् च बालखिल्यादयस् तथा

93.24

शातातपो ऽपि शङ्खश् च जैमिनिर् गोभिलस् तथा ।
जैगीषव्यः शतानीक ऋषिसङ्घाः समागताः

93.25

तीर्थयात्रा कृता तैस् तु नर्मदाया समन्ततः ।
आदित्येशं समायाताः प्रसङ्गाद् ऋषिसत्तमाः

93.26

वृक्षैस् संछादितं सर्वं धवैस्तिन्दुकपाटलैः ।
जम्बीरैर् अर्जुनैः कुन्दैर् जटाकेसरकिंशुकैः

93.27

पुन्नागनारिकेरैस् तु खदिरैः कल्पपादपैः ।
अनेकश्वापदाकीर्णं मृगमालासमाकुलम्

93.28

ऋक्षहस्तिसमायुक्तं चित्रकैश् च सुशोभितम् ।
प्रविश्य ऋषयः सर्वे वने पुष्पफलाकुले

93.29

वनान्ते च नारी शुभ्रा दृष्टा रक्ताम्बरान्विता ।
रक्तमाल्या सुशोभाढ्या रस्तचन्दनचर्चिता

93.30

रक्ताभरणसंयुक्ता शशिहस्ता भयावहा ।
तस्याः समीपगो दृष्टः कृष्णजीमूतसन्निभः

93.31

महाकायो भीमवक्त्रः पाशहस्तो भयावहः ।
अनाधृष्यो वयोवृद्ध आतुरः पिङ्गलोचनः

93.32

दीर्घजिह्वः करालास्यस् तीक्ष्णादंष्ट्रो दुरासदः ।
वृद्धां स्त्रियं कुरुश्रेष्ठ ते पश्यन् विप्रपुंगवाः

93.33

ततः समीपगा वृद्धा स च वृद्धश् च भारत ।
स्वाध्यायनिरतैर् विप्रैस् तौ पृष्टौ पापकर्मिणौ

93.34

वृद्धावूचतुः:
युष्माकं यमिनः सर्वे तिष्ठध्वं तीर्थमध्यतः ।
शीघ्रं प्रविश्यतां सर्वे नर्मदा चैव सेव्यताम्

93.35

तयोः श्रुत्वा तु वचनं ब्राह्मणाः शंसितव्रताः ।
जग्मुस् ते नर्मदाकच्छं दृष्ट्वा रेवां द्विजोत्तमाः

93.36

नताः केचित् स्तुवन्त्य् अन्ये जयदेवि नमो ऽस्तु ते

93.37

ऋषय ऊचुः:
नमो ऽस्तु ते सिद्धगणैर् निषेविते नमो ऽस्तु ते सर्वपवित्रमङ्गले ।
नमो ऽस्तु ते विप्रसहस्रपूजिते ।
नमो ऽस्तु ते रुद्रसमुद्भवे परे

93.38

नमोऽस्तु ते सर्वपवित्रपावने नमो ऽस्तु ते देवि वरे प्रसीद नः ।
नमो ऽस्तु ते शीतजले सुखप्रदे सरिद्वरे पापहरे दयान्विते

93.39

अनेकभूताङ्गसुशोभिताङ्गे गन्धर्वयक्षोरगपाविताङ्गे ।
महागजौघा महिषा वराहाः क्रीडन्ति तोये सुमहोर्मिमालैः

93.40

नमामः सर्वे वरदे सुखप्रदे ऽस्मान् पशुपाशबद्धान् ।
पापैरनेकैः पशुपाशबद्धा भ्रमन्ति तावन्नरकेषु नित्यम्

93.41

यावत् तवाम्भो नहि संस्पृशन्ति स्पृष्टं करैश्चन्द्रमसो रवेश् च ।
अनेकसंसारभयार्दितानां पापैर् अनेकैः परिवेष्टितानाम्

93.42

गतिस् त्वम् अम्भोजसमानवक्त्रे द्वन्द्वैर् अनेकैर् अभिसंवृतानाम् ।
नद्यस् तु पूज्या विमला भवन्ति ।
त्वां देवि चासाद्य न संशयो ऽत्र

93.43

दुखातुराणाम् अभयं ददासि देवैर् अनेकैर् अभिपूजितासि ।
विण्मूत्रदेहार्णवमग्नदेहा भवन्ति तावन् नरकेषु मर्त्याः

93.44

महानिलोद्धूततरङ्गभङ्गं जलं न यावत् तव संस्पृशन्ति ।
म्लेच्छाः पुलिन्दास् त्वथ यातुधानाः पिबन्ति चाम्भस्तव देवि पुण्यम्

93.45

ते ऽपि प्रमुञ्चन्ति भयात् तु घोरात् किम् अत्र विप्रा भयपापभीताः ।
घोरे युगे ऽस्मिन् कलिनाम्न्यपुण्ये त्वं भ्राजसे कालजलौघपूर्णे

93.46

देव्यत्र नक्षत्रपथे ऽपि गङ्गा तव प्रसादाद् दिवि देव्यतिष्ठत् ।
काले यथेष्टं परिपालय त्वं यास्याम लोकं तव सुप्रसादात्

93.47

वयं तथा त्वं कुरु नः प्रसादं त्वाम् आश्रितास् त्वां शरणं गता वै ।
गतिस् त्वम् एवात्र पितेव पुत्रं त्वम् आदिदेव प्रभवे विचित्रे

93.48

काले ऽप्य् अनावृष्टिभवं क्षयं च रक्षस्व (?) ।
सर्वं जगतः स्वरूपम् .... ....

93.49

एवं स्तुता महादेवी नर्मदा सरितां वरा ।
प्रत्यक्षा सा पराभूता ब्राह्मणानां युधिष्ठिर

93.50

नर्मदोवाच:
तुष्टाहं वरदा विप्रा दास्ये वो वाञ्छितं फलम् ।
ततो ऽवर्षन् महामेघा धान्यं च प्रचुरं तथा

93.51

कन्दमूलफलं शाकं सुखं सर्वसंश्रितम् ।
मार्कण्डेय उवाच:
पठन्ति ये स्तोत्रम् इदं नरेन्द्र शृण्वन्ति भक्त्या परयआ प्रपन्नाः

93.52

तेभ्यो ऽन्तकाले सरिदुत्तमेयं गतिं विशद्धां नितरां ददाति ।
प्रातः समुत्थाय समान एवं संकीर्तयेद् रुद्रमुमां च देवीम्

93.53

पापानि सर्वाणि लयं ग्रयान्ति समाश्रयन्ते च महानुभावाः ।
पापैस् तु मुक्ता दिवि मोदयन्ते शम्भोर्गिरा चैव तु नान्यथा च

93.54

मार्कण्डेय उवाच:
दृष्टास् ते पुरुषा नान्या नर्मदातटम् आश्रिताः ।
स्नानदेवार्च्चनैर्युक्ताः पञ्चैव तु महाबलाः

93.55

ते दृष्टा ब्राह्मणैः सर्वैर् वेदवेदाङ्गपारगैः ।
विप्रा ऊचुः:
दिनान्ते च स्त्रियोर् युग्मं दृष्टं रौद्रं भयावहम्

93.56

त्रयो वृद्धाश् च पुरुषाः पाशहस्ता भयावहाः ।
दुर्द्धरा दुर्निसंकाशा इतश्चेतश् च चञ्चलाः

93.57

व्याहरन्ति भिया वाचा आकाङ्क्षा दर्शनस्य च ।
अपरस्परिणस् सर्वे निरीक्षन्ते परस्परम्

93.58

तेषु सङ्घेषु यत्प्रोक्तं तत्सर्वं कथयामि ते ।
पुरुषा ऊचुः:
तीर्थावगाहनं सर्वैः पूर्वपश्चिमदक्षिणे

93.59

उत्तरे च कृतं भक्त्या न पापं तद् व्यपोहितम् ।
निष्पापाश् चात्र सञ्जातास् तीर्थस्यास्य प्रभावतः

93.60

शृण्वन्तु ऋषयः सर्वे अग्निज्वालोपमा द्विजाः ।
पातकानि च घोराणि यान्य् अचिन्त्यानि देहिनाम्

93.61

पापिष्ठेन तु चानेन गरोर्दारा विदूषिताः ।
हृतं चान्येन मित्रस्य सुवर्णं च तथा च वै

93.62

ब्रह्महत्या कृता रौद्रा कृतं चान्येन पातकम् ।
सुरापानं तु चाप्य् अस्य संजातं चान्यकामतः

93.63

गोवधं पापम् एतेन कृतम् एकेन पापिना ।
अकामतो ऽपि सर्वेषां पातकानि नराधिप

93.64

ब्राह्मणास् तांस् तु ते दृष्ट्वा पापिष्ठा गतकल्मषाः ।
तीर्थस्यास्य प्रभावेण नर्मदायाः प्रभावतः

93.65

न क्वाचित् पातकानां तु प्रवेशश् चात्र जायते ।
एवं संचिन्त्य ते सर्वे पापिष्ठाश् च परस्परम्

93.66

क्षिप्रम् एव समुद्धृत्य विचिन्त्य हृदये हरिम् ।
स्नात्वा रेवाजले पुण्ये तार्पित्वा पितृदेवताः

93.67

नत्वा तु भास्करं देवं हृदि ध्यात्वा जनार्दनम् ।
कृत्वा प्रदक्षिणां भक्त्या ज्वलिते जातवेदसि

93.68

पतिताः पाण्डवश्रेष्ठ पापोद्विग्नाश् च पापिनः ।
सात्त्विकीं कामनां कृत्वा त्यक्त्वा प्राणान् दिवङ्गताः

93.69

निष्पापास् ते महाभागैर् नर्मदायोत्तरे तटे ।
विमानस्थास् तदा दृष्टा ब्राह्मणैस् ते युधिष्ठिर

93.70

आश्चर्यमतुलं दृष्टम् ऋषिभिर् नर्मदातटे ।
तदा प्रभृति ते सर्वे रागद्वेषविवर्जिताः

93.71

रवितीर्थं द्विजा हृष्टाः सेवन्ते मोक्षकाङ्क्षया

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc