भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 92

92.1

इति श्रीस्कन्दपुराणे रेवाखण्डे शबरस्वर्गारोहणं नामैकनवतितमो ऽध्यायः ॥
र्क्स् अध्याय 92
राजोवाच:
ततस् तयापि देवेश भानुमत्या हि किंकृतम् ।
एतन् मे संशयं देव कथयस्व प्रसादतः

92.2

हर उवाच:
चिन्तयित्वा तु सा राज्ञी गता कुण्डस्य सन्निधौ ।
दृष्ट्वा तीर्थस्य माहात्म्यं राज्ञी हर्षेण पूरिता

92.3

विप्रान् बहून् समाहूय पूजयामास तत्क्षणात् ।
ददौ च विविधं दानं ब्राह्मणेभ्यो नराधिप

92.4

दत्त्वा च दक्षिणाम् एवं मधुमासे च भूमिप ।
अमायां च ततो राज्ञी गता पर्वतमूर्धनि

92.5

नगशृङ्गं समारुह्य कृत्वा तु करसम्पुटम् ।
विज्ञाप्य ब्राह्मणान् सर्वान् इदं वचनम् अब्रवीत्

92.6

मम माता पिता भ्राता तथा ऽन्ये चैव बान्धवाः ।
सर्वे क्षमन्तु ते सर्वैर् इदं वाच्यं तदा वचः

92.7

इत्युक्त्वा शूलभेदे तु तपः कृत्वा सुदारुणम् ।
विसृज्य चैवम् आत्मानं तस्मिंस् तीर्थे दिवंगता

92.8

ब्राह्मणा ऊचुः:
सन्देशं कथयिष्यामस् त्वयोक्तं शोभनव्रते ।
मातापित्रोश् च सुश्रोणि मा ते ऽभूद् अत्र संशयः

92.9

ततो विसृज्य लोकं तु स्थिता पर्वतसन्निधौ ।
अर्धोत्तरीयवस्त्रं तु गाढं कृत्वा पुनः पुनः

92.10

ततो विसृज्य चात्मानम् एकचित्ता नराधिप ।
नगार्द्धं पतिता यावत् तावद् दृष्टा सुरासुरैः

92.11

दिव्यं विमानम् आरुह्य कैलासं सा जगाम ह ।
ततः सा पश्यतां तेषां जनानां त्रिदिवं गता

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc