स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 91
इति श्रीस्कन्दपुराणे रेवाखण्डे चित्रसेनकथावर्णनो नाम नवतितमो ऽध्यायः ॥
र्क्स् अध्याय 91
राजोवाच:
अन्यच् च श्रोतुम् इच्छामि केन गङ्गावतारिता ।
रुद्रशीर्षस्थिता पुण्या देवी कथम् इहागता
पुण्या देवशिलानाम तस्या माहात्म्यमुत्तमम् ।
एतदाख्याहि मे सर्वं प्रसादात् पुरुषोत्तम
रुद्र उवाच:
शृणुष्वैकमना भूत्वा यथा गङ्गावतारिता ।
पुरा देवी महाभाग ब्रह्माद्यैः सकलैः सुरैः
अभ्यर्थयज् जगन्नाथं देवदेवं जगद्गुरुम् ।
घटमध्ये स्थिता गङ्गा मोचिता च सुभूतले
भारती च ततो मुक्ता रुद्रेण शिरसो भुवि ।
नरास्तीर्थे तटे तस्याः स्नानं कुर्वन्ति भक्तितः
पिबन्ति च जलं नित्यं न ते यान्ति यमालयम् ।
यत्र सा पतिता कुण्डे शूलभेदे नराधिप
देवनद्याः प्रतीच्यां च यत्र प्राची सरस्वती ।
याम्यां च शूलभेदाख्यम् अस्ति तीर्थम् अनुत्तमम्
तत्रदेवशिला रम्या स्वयं देवेन निर्मिता ।
तत्र स्नात्वा तु यो भक्त्या ब्राह्मणं भोजयेन् नृप
अल्पस्यैव तु दानस्य तस्य चान्तो न विद्यते ।
उत्तानपाद उवाच:
कानि दानानि शस्तानि देवेश धरणीतले
यानि दत्त्वा नरो भक्त्या मुच्यते सर्वकिल्बिषैः ।
देवशिलाया माहात्म्यं स्नानदानाद्धि यत्फलम्
व्रतोपवासनि यमैर् यत् प्राप्यं तद् वदस्व मे ।
श्रीभगवान् उवाच:
आसीत् पुरा महावीर्यश्चेदिनाथो महाबलः
वीरसेन इति ख्यातो मण्डलाधिपतीश्वरः ।
तस्य राज्ये रिपुर्नास्ति न व्याधिर्न च तस्करः
न चाधर्मो ऽभवत् तत्र धर्म एव हि सर्वदा ।
सदा मुदान्वितो राजा सभार्यो बहुपुत्रकः
एका च दुहिता तस्य सुरूपा गिरिजा इव ।
दृष्टा सा पितृमातृभ्यां बन्धुवर्गजनैः सह
कृत्वा वैवाहिकं कार्यं काले प्राप्ते यथा विधि ।
अनन्तरं चेदिपतिर् द्वादशाब्दे महेश्वरः
ततस् तस्यास्तु यो भर्ता स मृत्युवशम् आगतः ।
विधवां तां सुतां दृष्ट्वा राजा शोकसमन्वितः
उवाच वचनं राजा स्वभार्यां दुःखपीडितः ।
भद्रे दुःखम् इदं जातं यावज् जीवं सुदुःसहम्
नैषा रक्षयितुं शक्या रूपयौवनदर्पिता ।
नोपायो विद्यते भार्य्ये भानुमत्याश् च रक्षणे
परस्परं विवदतोस् तच्छ्रुत्वा कन्यका ऽब्रवीत् ।
भानुमत्य् उवाच:
न व्रीडामि तवाग्रे ऽहं ज्वलन्ती दाहकेनच
सत्यं नोत्पद्यते दोषो मदर्थे च नराधिप ।
अद्य प्रभृत्य् अहं तात न वेषं धारये क्वचित्
स्थूलवस्त्रैर् निजाङ्गानि परिधास्यामि संयता ।
चरिष्यामि व्रतान् सर्वान् पुराणविहितान् अपि
आत्मानं शोषयिष्यामि तोषयन्ती जनार्दनम् ।
ममैषा वर्तते बुद्धिर् यदि त्वं तात मन्यसे
भानुमत्या वचः श्रुत्वा राजा स्नेहार्दितो ऽभवत् ।
तीर्थयात्रां समुद्दिश्य कोशं दत्त्वा च पुष्कलम्
विसृज्य राजा स्वसुतां वृद्धान् कृत्वा तु रक्षणे ।
पुरुषं सायुधं चान्यं ब्राह्मणं च पुरोहितम्
अवगाह्य तटे ध्यातुं गङ्गायां सा नराधिप ।
नित्यम् आपूजयद् विप्रान् गन्धमाल्यादिभूषणैः
दासीदासप्रभृतयस् तस्या ये रक्षणे क्षमाः ।
ततः पितुर्मतेनैव गङ्गातीरे समास्थिताः
द्वादशाब्दानि सा तीरे गङ्गायाः समवस्थिता ।
त्यक्त्वा गङ्गां क्वचिद् राजपुत्री काष्ठां तु दक्षिणाम्
प्राप्ता सा सचिवैः सार्द्धं यत्र रेवा महानदी ।
षण्मासं च स्थिता तत्र ओंकारे ऽमरकण्टके
नानाविधेषु तीर्थेषु तीर्थात् तीर्थं जगाम ह ।
स्नात्वा स्नात्वा द्विजान् पूज्यभक्तियुक्ता ह्य् अधिष्ठिता
वारुणीं च दिशं गत्वा देवनद्याश् च सङ्गमे ।
ददर्श चाश्रमं पुण्यम् ऋषिसङ्घैर् निषेवितम्
दृष्ट्वा ऋषिसमूहं सा प्रणिपत्येदम् अब्रवीत् ।
माहात्म्यं चास्य तीर्थस्य नाम चैवास्य कीर्तय
ऋषिर् उवाच:
चक्रतीर्थं तु विख्यातं चक्रं दत्तं पुरा हरेः ।
महेश्वरेण तुष्टेन देवदेवेन शूलिना
अत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः ।
अनिवर्तिका गतिस् तस्य भविता नात्र संशयः
द्वितीये ऽह्नि ततो गच्छेच् छूलभेदं तपस्विनि ।
रात्रौ जागरणं कृत्वा पठेत् पौराणिकीं कथाम्
विष्णुपूजां प्रकुर्वीत पुष्पदीपनिवेदनैः ।
प्रभाते भोजयेद् विप्रान् दानं दद्यात् स्वभक्तितः
चतुर्थे ऽह्णि तथा गच्छेद् यत्र प्राची सरस्वती ।
ब्रह्मदेवाद् विनिष्क्रान्ता पावनार्थं नराधिप
तत्र स्नात्वा नरो गत्वा तर्पयेत् पितृदेवताः ।
श्राद्धदस् तु वसेत् तत्र यत्र देवः पितामहः
पञ्चमे ऽह्णि ततो गच्छेल् लिङ्गं मार्कण्डसंज्ञितम् ।
तत्र स्नात्वा तु यो भक्त्या अर्चयेत् पितृदेवताः
श्राद्धं कृत्वा यथा न्यायम् अनिन्द्यान् पूजयेद् द्विजान् ।
पितरस्तस्य तृप्यन्ति द्वादशाब्दं न संशयः
सर्वदेवमयं स्थानं सर्वतीर्थमनुत्तमम् ।
कोटितीर्थसमं स्थानं कोटिलिङ्गोत्तमोत्तमम्
त्रिरात्रं कुरुते यस् तु शुचिः स्नानं जितेन्द्रियः ।
पक्षं मासं च षण्मासम् अब्दम् एकं कदाचन
न तस्य वसतिर् मर्त्ये नाके वासः सदाक्षयः ।
नियमस्थस् तु मुच्येत त्रिजन्मजनितादघात्
विना पुमांसं या नारी द्वादशाब्द तु सुव्रता ।
तिष्ठते साक्षयं कालं रुद्रलोके महीयते
मुनेश् च वचनं श्रुत्वा मुदां परमिकां ययौ ।
ततो ऽवगाहते तीर्थमहर्निशमतन्द्रितम्
दृष्ट्वा तीर्थप्रभावं तु राज्ञी वचनम् अब्रवीत् ।
श्रूयतां वचनं मे ऽद्य ब्राह्मणाः सपुरोहिताः
न त्यजाम् ईदृशं स्थानं यावज् जीवाम्य् अहर्निशम् ।
मात्रे पित्रे तथा भ्रात्रे सद्भिर् वाच्यम् इदं वचः
वर्तते शूलभेदे सा नियता व्रतचारिणी ।
एकान्तरोपवासेन शनैर् मासमुपोषिता
देवशिलास्थिता नित्यं ध्यायमाना तु केशवम् ।
अहर्निशं स्थिता भूमौ दृष्टा राज्ञी शुभानना
व्रतस्था नियताहारा नाम्ना भानुमती शुभा ।
गतेषु द्विजमुख्येष्व् आययौ शबरयुग्मकम्
उवाच वचनं तत्र तां दृष्ट्वा शबराङ्गना ।
नैवा ऽस्याः सदृशी काचित् त्रिषु लोकेषु विश्रुता
साक्षाद् असौ देवकन्या ह्यवतीर्णा महीतले ।
भार्याया वचनं श्रुत्वा शबरस् ताम् उवाच ह
कमलानि यथा लाभं दत्त्वा त्वं भुङ्क्ष्व सत्वरम् ।
मम चैवार्चने बुद्धिर् न भोक्तव्यं मया ऽद्य वै
न मया वर्जितं भद्रे पापवृद्ध्या ऽशुभं कृतम् ।
शबर्य् उवाच:
न पूर्वं तु मया स्वामिन् भुक्तं तस्मिंस् तु वासरे
भुक्तशेषं मया भुक्तं यावत् कालं स्मराम्य् अहम् ।
भार्याया निश्चयं ज्ञात्वा स्नानं कर्तुं जगाम ह
अर्धोत्तरीयवस्त्रेण स्नानं कृत्वा तु भक्तितः ।
सर्वदेवं नमस्कृत्य गतो देवशिलां प्रति
तस्थौ स शङ्कमानो ऽपि ध्यायमानो जनार्दनम् ।
कुमुदद्वयं शबर्या तु दासीहस्ते निवेदितम्
दृष्ट्वा राज्ञी तथा पुष्पे दासीं चैव तदाब्रवीत् ।
त्वेदं पुष्पद्वयं लब्धं कथ्यतां तच् च साम्प्रतम्
शीघ्रं गच्छावगच्छ त्वं पुष्पं चैवानयापरम् ।
अनेन वसुना चैव कमलानि समानय
भानुमत्या वचः श्रुत्वा गता सा शबरीं प्रति ।
श्रीफलानि च पुष्पाणि बहून्य् अन्यानि देहि मे
शबर्य् उवाच:
श्रीफलानि च दास्यामि पुष्पाणि च विशेषतः ।
मूल्येन मे स्पृहा नास्ति गत्वा राज्ञीं निवेदय
गता दासी निवेद्याथ राज्ञी च स्वयम् आगता ।
उवाच शबरं राज्ञी पुष्पं मूल्येन देहि मे
शबर उवाच:
न मूल्यं कामये देवि फलपुष्पसमुद्भवम् ।
श्रीफलानि च पुष्पाणि यथेष्टं मम गृह्यताम्
अर्चां कुरु यथान्यायं वासुदेवं जगत्पतिम् ।
राज्ञी उवाच:
विना मूल्यं न गृह्णामि कमलानि तवाधुना
धान्यस्य खण्डिकाम् एकाम् एतां प्रति निगृह्यताम्
शबर उवाच:
नाहारं चिन्तयाम्यद्य मुक्त्वा देवं वरानने
देवकार्यं विना भद्रे नान्याबुद्धिः प्रवर्तते ।
राज्ञी उवाच:
न त्वयान्नं परित्याज्यं सर्वमन्ने प्रतिष्ठितम्
तस्मात् सर्वप्रयत्नेन ममान्नं प्रतिगृह्यताम् ।
तपस्विनो महाभागा ये चारण्यनिवासिनः
ते मद्द्वारे स्थिताः सर्वे याचन्ते ते ऽन्नकाङ्क्षिणः ।
शबर उवाच:
निषेधो ऽधिकृतः पूर्वं मया सत्यं न संशयः
सत्यमूलं जगत् सर्वं सत्ये चैव प्रतिष्ठितम् ।
सत्येन तपते सूर्यः सत्येन द्योतते शशी
सत्येन वायवोवान्ति धरा सत्ये प्रतिष्ठिता ।
तस्मात् सर्वप्रयत्नेन सत्यं सत्यं न लोपयेत्
राज्ञी उवाच:
आरामोपहृतं पुष्पम् आरण्यं पुष्पम् एव च ।
क्रीतं प्रहिग्रहाल् लब्धं पुष्पम् एवं चतुर्विधम्
उत्तमं फलमारण्यं गृहीत्वा स्वयम् एव हि ।
मध्यमं फलमाराम्यमधमं क्रीतम् एव च
प्रतिग्रहेण यल् लब्धं निष्फलं तद् विदुर्बुधाः ।
पुरोहित उवाच:
गृहाण राज्ञि पुष्पाणि पूजां कुरु जनार्दने
उपकारं प्रकुर्वन्ती पूजां चक्रे यथाविधि ।
रात्रौ जागरणं कृत्वा कथा पौराणिकी श्रुता
शबरस् तु ततो भार्याम् इदं वचनम् अब्रवीत् ।
दीपार्थं गृह्यतां स्नेहो यथालाभेन सुन्दरि
दत्त्वा दीपं ततः कृत्वा धूपं पूजां जनार्दने ।
कृत्वा जागरणं रात्रौ ध्यायमानस् तु केशवम्
ततः प्रभातसमये दृष्ट्वा स्नानोत्सुकंजनम् ।
केचिच् च शूलभेदे तु देवनद्यां तथैव च
सरस्वत्यां तथा केचिन्मार्कण्डेये तथा ह्रदे ।
चक्रतीर्थे तथा केचित् स्नानं कुर्वन्ति भक्तितः
शुचिभूतास् तु ते सर्वे जना देवशिलोपरि ।
श्राद्धं कुर्वन्ति वै तत्र प्रयत्नेन द्विजर्षभाः
तान् दृष्ट्वा शबरो बिल्वैः पिण्डं निर्वर्तयेत् ततः ।
भानुमत्या तथा सक्तुपिण्डनिर्वपणं कृतम्
अनिन्द्य भोजयेद् विप्रं दम्भदोषविवर्जितम् ।
हविष्येण तथा दध्ना शर्करामधुसर्पिषा
पायसेन च गव्येन कृशरेण विशेषतः ।
भोजयित्वा तथा राज्ञी दानं दत्त्वा यथाविधि
पादुकोपानहौ छत्रं शय्या गोवृषम् एव च ।
विविधानि च दानानि हेमरत्नमयानि च
तत्र तीर्थे महाराज कपिलां यः प्रयच्छति ।
तेन दत्ता मही राजन् सशैलवनकानना
उत्तानपाद उवाच:
तिलप्रदः प्रजा इष्टा दीपदश्चक्षुरुत्तमम् ।
भूमिदः स्वर्गम् आप्नोति दीर्घायुश् च हिरण्यदः
गृहदो रोगरहितो रौप्यदो रूपमुत्तमम् ।
वासोदश् चन्द्रलोकं तु अश्वदः सूर्यलोकभाक्
वृषदस् तु श्रियं पुण्यां गोदानात् तु त्रिविष्टपम् ।
शय्यादानं च यो दद्यात् स स्वर्गमभयप्रदः
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् ।
सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते
भार्याम् अश्वं महीं वासस् तिलकां च न सर्पिषम् ।
ये नयेन हि भावेन दानं विप्राय यच्छति
तेन तेन हि भावेन प्राप्नोति पदपूजितम् ।
दृष्ट्वा दानानि सर्वाणि राज्ञ्या दत्तानि यानि च
उवाच शबरो भार्यां यच् छृणुष्व नराधिप ।
शबर उवाच:
पुराणं पठितं भद्रे ब्राह्मणैर् वेदपारगैः
श्रुतं च तन् मया सर्वं दानधर्मपरं शुभम् ।
पूर्वजन्मार्जितं पापं स्नानदानव्रतेन च
तत्सर्वं च क्षयं जातं मदीयेन प्रिये शृणु ।
अत्र दत्तं हुतं तप्तं सर्वं भवति चाक्षयम्
ते द्विजा भानुमत्या च शूलभेदं गतास् ततः ।
ददृशुः शबरं कुण्डे शबर्या सह संस्थितम्
ईशान्यां च ततो गत्वा भृगुपर्वतमूर्धनि ।
मर्तुकामस् तथारूढो भार्यया सह पार्थिव
राजपुत्र्य् उवाच:
तिष्ठ तिष्ठ महासत्त्व शृणुष्व वचनं मम ।
किमर्थं त्यजसि प्राणानद्यापि च युवा भवान्
किं सन्तापः समुद्वेगः किं दुःखं व्याधिर् एव च ।
शिशुश् च दृश्यते ऽद्यापि कारणं कथयस्व मे
शबर उवाच:
कारणं नास्ति मे किंचिन् न दुःखं किंचिद् एव हि ।
संसारसारभूतत्वे नान्या बुद्धिः प्रवर्तते
दुःखेन लभते यस्मान् मनुष्यत्वं वरानने ।
मानुष्यं जन्म चासाद्य यो न धर्मं समाचरेत्
स गच्छेन् नरकं घोरम् अल्पदोषेण सुन्दरि ।
तस्मात् पतितुम् इच्छामि अस्मिंस् तीर्थे तपस्विनि
राजपुत्र्य् उवाच:
अद्यापि वर्तते कालः स्वधर्मा विविधाः क्रियाः ।
कृत्वा प्रकृतधर्माणि तत्र दानेन शुद्ध्यति
अहं दास्यामि ते धान्यं वासांसि द्रविणानि च ।
नित्यं त्वमाचरेर्धर्मं ध्यायमानो जनार्दनम्
शबर उवाच:
न चाहं कामये देवि धान्यं वस्त्राणि चैव हि ।
यः परस्यान्नम् अश्नाति स नरो ऽश्नाति किल्बिषम्
राजपुत्र्य् उवाच:
कन्दमूलफलाहारो भुक्त्वा वै भक्ष्यमुत्तमम् ।
अवगाह्य च तीर्थानि सर्वपापैः प्रमुच्यसे
ततो विमुक्तपापस् तु यः कश्चित् पुरुषः शुचिः ।
कर्मणा तेन चैव त्वं गतिं सम्प्राप्स्यसे शुभाम्
शबर उवाच:
अत्र मध्ये मया त्यक्ताः प्राणा दृष्ट्वा हितं च यत् ।
सत्यन्न लोपये देवि इति मे निश्चिता मतिः
प्रसादः क्रियतां देवि क्षमस्व त्वं जनैः सह ।
बद्धोत्तरीयवस्त्रेण आत्मानं च प्रयत्नतः
भार्यया सहितस् तत्र हरिं ध्यात्वा पपात ह ।
नगार्धं पतितो यावद् गतजीवो नराधिप
तूष्णीं भूतं तु तं दृष्ट्वा कुण्डस्योपरि भूमिप ।
त्रिमूर्तिगर्ते तत्काले शबरो भार्यया सह
दिव्यं विमानम् आरूढो गतश् च गतिमुत्तमाम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0