भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 90

90.1

इति श्रीस्कन्दपुराणे रेवाखण्डे दीर्घतपाख्यानो नामैकोननवतितमो ऽध्यायः ॥
र्क्स् अध्याय 90
उत्तानपाद उवाच:
दृष्ट्वा तत्तीर्थमाहात्म्यं चित्रसेनो नरेश्वरः ।
विपुलं तीक्ष्णधारं च कण्ठे चासि नृपोत्तम

90.2

देवान् सर्वान् हृदि ध्यायन् ब्रह्मविष्णुमहेश्वरान् ।
विनिक्षिपन्नथात्मानौ प्रत्यक्षौ विष्णुशङ्करौ

90.3

करे धृत्वा तु राजानं रुद्रो वचनम् अब्रवीत् ।
हर उवाच:
प्राणत्यागं महाराज अकाले मा कुरुष्व ह

90.4

अद्यापि तु युवासि त्वं न युक्तं मरणं तव ।
स्वस्थानं गच्छ वै शीघ्रं भोगान् भुङ्क्ष्व यथेप्सितान्

90.5

भुङ्क्ष्व निष्कण्टकं राज्यं नाकं शक्र इवापरः ।
चित्रसेन उवाच:
न राज्यं कामये देव न पुत्रान् न च बान्धवान्

90.6

न भार्यां न च कोशं च न गाश्च न तुरङ्गमान् ।
मुञ्चस्व मां महादेव अविघ्नं क्रियतां मम

90.7

स्वर्गप्राप्तिर् ममाद्यैव त्वत्प्रसादान् महेश्वर ।
देव उवाच:
यस्याग्रतो भवेद् विष्णुर्ब्रह्मा रुद्रस् तथैव च

90.8

स्वर्गेण तस्य किं कार्यं गतो ऽसौ किं करिष्यति ।
तुष्टाव त्वां त्रयो देवा वृणीष्व वरम् उत्तमम्

90.9

यथेप्सितं महाराज सत्यम् एतन्न संशयः ।
चित्रसेन उवाच:
यदि तुष्टास् त्रयो देवा ब्रह्मविष्णुमहेश्वराः

90.10

अद्य प्रभृति युष्माभिः स्थातव्यम् इह सर्वदा ।
गयाशिरं यथा पुण्यं कृतं युष्माभिर् एव च

90.11

तथैवेदं तु कर्तव्यं शूलभेदं च पावनम् ।
यत्र यत्र स्थिता यूयं तत्र तत्र वसाम्य् अहम्

90.12

गणानाम् इह सर्वेषाम् अवध्यो ऽहं सुरेश्वर ।
ईश्वर उवाच:
अद्य प्रभृति तिष्ठाम शूलभेदे नरेश्वर

90.13

कलांशेन त्रयो देवास् त्रिकालं निवसामहे ।
नन्दिसंज्ञो गणश् च त्वं भविष्यसि न संशय

90.14

भविष्यत्य् अग्रपूजा ते मत्समीपे सदा नृप ।
प्रक्षिप्य च निजास्थीनि यथा दीर्घतपा ययौ

90.15

सकुटुम्बो विमानस्थः स्वर्गे तिष्ठति तत्कुरु ।
एवं देवा वरं दत्त्वा चित्रसेनाय पार्थिव

90.16

कुण्डमूर्धनि यास्यामस्त्रयो देवास् तदा स्थिताः ।
परस्परं वदन्त्य् एवम् इदं तीर्थं तथा शुभम्

90.17

यथा गयाशिरं पुण्यं सर्वमासि च पठ्यते ।
तथा रेवातटे पुण्यं शूलभेदं न संशयः

90.18

ब्रह्मोवाच:
इदं तीर्थं महाराज यथापुण्यं गयाशिरः ।
स्नात्वा चैवोदके तस्मिन् नरो निर्मलतां व्रजेत्

90.19

एकं गयाशिरं मुक्त्वा सर्वतीर्थानि शङ्कर ।
शूलभेदस्य तीर्थस्य कलां नार्हन्ति षोडशीम्

90.20

कुण्डस्य दक्षिणे भागे दशहस्तप्रमाणतः ।
ऐन्द्रवारुणवायव्यां प्रमाणन्त्व् एकविंशतिः

90.21

एतत् प्रमाणं तीर्थस्य पिण्डदानादिकर्मसु ।
नराः पुण्याश् च ते सर्वे अत्र दानं कृतं च यैः

90.22

विष्णुस् त्रिनेत्ररूपेण ब्रह्मरूपी पितामहः ।
तस्मिंस् तीर्थे स्थिता नित्यं पूजां गृह्णन्ति भक्तितः

90.23

जातं जातं निरीक्ष्यन्ते स्वपुत्रं हि पितामहाः ।
कदा यास्यति पुत्रो ऽसौ कदा दाता भविष्यति

90.24

पञ्चस्थानेषु यः श्राद्धं कुरुते भक्तिमान् नरः ।
स्वकुलानि तु सर्वाणि प्रेतभूतानि तारयेत्

90.25

एकविंशत्पितृपक्षे मातृपक्षैकविंशतिम् ।
भार्याया एकादशैवेति सर्वाण्य् एतानि तारयेत्

90.26

द्विजदेवप्रसादेन पितॄणां च तथैव हि ।
श्राद्धदो वसते तत्र यत्र देवो महेश्वरः

90.27

आत्मनो घातका ये च गोघ्नाः स्त्रैणहताश् च ये ।
दंष्ट्रिभिर् जलपातेन विद्युत्पातेन ये हताः

90.28

न तेषाम् अग्निसंस्कारो न शौचं नोदकक्रिया ।
तत्र तीर्थे तु यः श्राद्धं तेषां कुर्यात् स्वभक्तितः

90.29

मोक्षप्राप्तिर् भवेत् तेषां त्रिस्थानेषु न संशयः ।
तृप्तिस् तु जायते तेषां वर्षम् एकं न संशयः

90.30

अजानता कृतं पापं बालभावेषु यत्कृतम् ।
तत्सर्वं नश्यति क्षिप्रं सकृत्स्नानेन भूपते

90.31

रजकेन यथा धौतवस्त्रं निर्मलतां व्रजेत् ।
पापोपलिप्तस् तीर्थे ऽस्मिन् स्नातो निर्मलतां व्रजेत्

90.32

संन्यासं कुरुते यस् तु तस्मिंस् तीर्थे नराधिप ।
ध्यायमानो महादेवं स गच्छेत् परमं पदम्

90.33

क्रीडित्वा च यथा कामं स्वेच्छया शिवमन्दिरे ।
वेदवेदाङ्गतत्त्वज्ञो जायते विपुले कुले

90.34

रूपवान् सुभगश् चैव सर्वव्याधिविवर्जितः ।
सर्वधर्मसमोपेतः सर्वाचारसमन्वितः

90.35

एतत् ते कथितं राजंस् तीर्थस्य फलमुत्तमम् ।
तच्छ्रुत्वा मानवो नित्यं मुच्यते सर्वपातकैः

90.36

यश् चैनं श्रावयेद् भक्त्या आख्यानं द्विजसन्निधौ ।
श्राद्धे देवगृहे चैव पठेत् पर्वणि पर्वणि

90.37

गीर्वाणास् तस्य तुष्यन्ति मनुष्याः पितृभिः सह ।
पठतां शृण्वतां चैव नश्येद् वै पापसंचयः

90.38

लिखित्वा तीर्थमाहात्म्यं ब्राह्मणेभ्यो ददाति यः ।
जातिस्मरं स लभते प्राप्नोत्य् अभिमतं फलम्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc