भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 89

89.1

इति श्रीस्कन्दपुराणे रेवाखण्डे शूलभेदमहिमानुकथनं नामाष्टाशीतितमो ऽध्यायः ॥
र्क्स् अध्याय 89
ईश्वर उवाच:
अन्यच् चाख्यानकं वक्ष्ये पुरावृत्तं नराधिप ।
सकुटुम्बो गतः स्वर्गम् ऋषिर् दीर्घतपा महान्

89.2

शङ्कर उवाच:
काशिराजेति विख्यातश् चित्रसेनो महाबलः ।
तस्य पुर्यां स वसते सर्वकामसमन्वितः

89.3

सा पुरी जनसम्पूर्णा नानारत्नोपशोभिता ।
वाराणासीति विख्याता गङ्गातीरे समाश्रिता

89.4

इन्द्रप्रस्थसमप्रख्या गौरीगोकुलसंयुता ।
बहुद्विजसमाकीर्णा वेदध्वनितनिःस्वना

89.5

वणिग्जनैर्बहुविधैः क्रयविक्रयसंयुतैः ।
अट्टाट्टालैः प्रतोलीभिर् उत्सवाद्यैस् तु मण्डिता

89.6

देवतायतनैर् दिव्यैर् आरामैर् उपशोभिता ।
नानापुष्पफलैर् रम्यैः कदलीषण्डमण्डिता

89.7

तस्या उत्तरदिग्भागे आरामश्चोत्तमः शुभः ।
समन्दारवनं नाम त्रिषु लोकेषु विश्रुतम्

89.8

नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ।
बहुमन्दारसंयुक्तं तेन मन्दारकं वनम्

89.9

विप्रो दीर्घतपा नाम सर्वदा तत्र तिष्ठति ।
तपस् तपति सो ऽत्यर्थं तेन दीर्घतपाः स्मृतः

89.10

स तिष्ठते सपत्नी कस् तिष्ठते पुत्रसंयुतः ।
शुश्रूषयन्ति तं सर्वे सुताः पञ्च समीपगाः

89.11

तस्य पुत्रः कनीयांस् तु ऋष्यशृङ्गो महातपाः ।
वेदाध्ययनसंयुक्तो ब्रह्मचारी गुणान्वितः

89.12

योगाभ्यासरतो नित्यं कन्दमूलफलाशनः ।
तिष्ठते मृगरूपेण मृगमध्ये वसन् सदा

89.13

दिनारम्भे दिनान्ते च मातापित्रग्रतः स्थितः ।
अभिवादयते नित्यं भाक्तमान् ऋषिपुत्रकः

89.14

पुनर्जगाम तत्रैव कानने गिरिगह्वरे ।
क्रीडन् बालमृगैः सार्धं राजबाणमृतस् तु सः

89.15

राजोवाच:
आश्रमे वसतस् तत्र सुदीर्घतपसस् तदा ।
सूनुस् तस्य कनीयांस् तु कथं मृत्युवशं गतः

89.16

श्रीभगवान् उवाच:
शृणुष्वैकमना भूत्वा कथां चित्रां महीपते ।
श्रवणाद् एव तस्या हि सर्वपापैः प्रमुच्यते

89.17

काशिराजो महाराजा महाबलपराक्रमः ।
चित्रसेन इति ख्यातो वाराणस्यां वसत्य् असौ

89.18

एवं वसंस् तत्र राज्ये मन्त्रिणो वाक्यम् अब्रवीत् ।
मृगया च गमिष्यामि यूयं राज्ये प्रतिष्ठिताः

89.19

गम्यतां मन्त्रिभिः प्रोक्तो गतो ऽसौ वसुधाधिपः

89.20

छत्रैश्छत्राणि दृश्यन्ते गच्छन्तं काननं प्रति ।
रजस्तत्रोत्थितं भूरि गजवाजिपदाहतम्

89.21

तेनैवाच्छादितं सर्वं सादित्यं भूमिमण्डलम् ।
न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः

89.22

पादपाश् च न दृश्यन्ते गिरिसातूनि सर्वशः ।
तत्रापि च महाराज मृगयूथम् अदृश्यत

89.23

अधावन् पुरुषाः सर्वे सराजाराजपुत्रकाः ।
वृन्दलोपो ऽभवत् तेषां शीघ्रं जग्मुर् दिशो दश

89.24

एकमार्गं गतो राजा चित्रसेनो महीपतिः ।
एकाकी स गतस् तत्र यत्र यत्र च ते मृगाः

89.25

प्रविष्टस् तु ततो दुर्गे कानने पक्षिवर्जिते ।
वल्मीगुल्मलताकीर्णे प्रविष्टो नैव दृश्यते

89.26

एकाक्यपश्यदात्मानं न चाश्वं न पदातिकान् ।
न को ऽपि चात्र जानाति नाहं वेद्मि दिशो दश

89.27

एवं कष्टं गतो राजा चित्रसेनो नराधिपः ।
छायां समाश्रितस् तत्र विश्रम्य च पुनः पुनः

89.28

क्षुत्तृषार्तो भ्रमन् दुर्गे कानने गिरिगह्वरे ।
ततो ऽपश्यत् सरो दिव्यं पद्मिनीषण्डमण्डितम्

89.29

हंसकारण्डवाकीर्णं चक्रवाकोपकूजितम् ।
सरो दृष्ट्वा तु राजेन्द्रः संप्रहृष्टतनूरुहः

89.30

कुमुदानि गृहीत्वा तु तत्र स्नानं समाचरत् ।
तर्पयित्वा पितॄन् देवान् मनुष्यांश् च यथा विधि

89.31

पपौ पानीयममलं यथावत् समभीप्सितम् ।
उत्तीर्य स जलात् तीरे दृष्ट्वा वृक्षं समीपतः

89.32

चिन्तया ऽनुपविष्टो ऽसौ किं तु कर्म करोम्य् अहम् ।
ततश् छायाश्रितान् पश्यन् वनोद्देशे मृगान् बहून्

89.33

केचित् पूर्वमुखास् तत्र अपरे दक्षिणामुखा ।
वारुण्यभिमुखाः केचित् केचित् कौबेरम् आश्रिताः

89.34

केचिन् निद्रां प्रकुर्वन्ति ऊर्ध्वकर्णाः स्थिताः परे ।
मृगमध्ये स्थितो योगी ऋष्यशृङ्गो महातपाः

89.35

मृगान् दृष्ट्वा ततो राजा प्रहारार्थम् अचिन्तयत् ।
वधित्वा च मृगं चैकं भक्षयामि यदृच्छया

89.36

स्वस्थावस्थो भविष्यामि मृगमांसस्य भक्षणात् ।
काशीं प्रति गमिष्यामि मार्गम् अन्वेषयंस् ततः

89.37

विचिन्त्यैवं ततो राजा वृक्षमूलं समाश्रितः ।
चापं धृत्वा कराग्रेण प्राक्षिपत् तच् छरं विभुः

89.38

क्षिप्तमात्रे शरे तस्मिन् सर्वे नष्टा मृगास् ततः ।
तेषां मध्ये स चैवेक ऋष्यशृङ्गो महातपाः

89.39

शरेण विद्धः पतितः कृष्ण कृष्णेति चाब्रवीत् ।
हाहा शब्दं कृतं तेन केनाहं पातितो ऽधुना

89.40

कस्यैषा दुर्मतिर्जाता यया बुद्धिर् ममोपरि ।
मृगमध्ये स्थितश्चाहं न किंचदपराद्धवान्

89.41

वाचां तां मानुषीं श्रुत्वा स राजा विस्मयान्वितः ।
शीघ्रं गत्वा ततो ऽपश्यद् ब्राह्मणं ब्रह्मवर्चसम्

89.42

हा हा कष्टं कृतं मे ऽद्य येनासौ घातितो मया ।
ब्राह्मण उवाच:
न ते सिद्धिर् भवेत् किंचिन् मयि पञ्चत्वम् आगते

89.43

तवैव विहिता हत्या मयि पञ्चत्वम् आगते ।
जननी मे पिता वृद्धौ भ्रातरो हि तपस्विनः

89.44

भ्रातृजाया मरिष्यन्ति मयि पञ्चत्वम् आगते ।
एता हत्या भविष्यन्ति तव शुद्धिः कथं भवेत्

89.45

उपायं कथयिष्यामि कर्तुं त्वं यदि मन्यसे

89.46

राजोवाच:
उपायः कथ्यतां मे ऽद्य यस् ते मनसि वर्तते ।
करिष्ये तदहं सर्वं प्रयत्नेन महामुने

89.47

शृङ्ग्य् उवाच:
पृच्छामि त्वां कुतः को वा कथं त्वम् इह चागतः ।
ब्रह्मक्षत्रविशां मध्ये ऽन्त्यजः शूद्रो ऽथवा पुनः

89.48

राजोवाच:
नाहं विप्रो न वैश्यो ऽहं न शूद्रः क्षत्रियो ह्य् अहम् ।
शृङ्ग्युवाच:
मां गृहीत्वाश्रमं पुण्यं यत्र तौ पितरौ मम

89.49

आवेदयस्व दयस्व चात्मानं पुत्रपापिनम् आगतम् ।
तौ दृष्ट्वा मां करिष्येते कारुण्यं च तवोपरि

89.50

उपायं वा करिष्येते येन शान्तिर् भविष्यति ।
तस्य तद् वचनं श्रुत्वा चित्रसेनो नृपोत्तमः

89.51

स्कन्धे कृत्वा च तं विप्रं जगामाश्रमकं प्रति ।
न शक्नोति च तं वोढुं विश्रम्य च पुनः पुनः

89.52

तावत् पश्यति तं विप्रं मूर्छितं विकलेन्द्रियम् ।
मुमोच चित्रसेनस् तु छायां न्यग्रोधकस्य च

89.53

विश्रामं च ततः कृत्वा वाचं कुर्वन् मुहुर् मुहुः ।
पश्यतस् तस्य राजेन्द्र ऋष्यशृङ्गो महातपाः

89.54

पञ्चत्वम् अगमच् छीघ्रं ध्यानयोगेन योगवित् ।
दाहयामास तं विप्रं विधिदृष्टेन कर्मणा

89.55

स्नानं कृत्वा तु शोकार्तो रुरोद च मुमोह च ।
ततश् चानन्तरं राजा उद्वेगं परमं गतः

89.56

कथं यास्ये गृहान् अद्य वाराणस्यां हतो ह्य् अहम् ।
ब्रह्महत्या समाविष्टो जुहोम्य् अग्नौ कलेवरम्

89.57

अथवा ऋषिवाक्येन गच्छाम्य् एवाश्रमं प्रति ।
कथयामि यथावृत्तं गत्वा तस्य महा ऋषेः

89.58

एवं विचिन्त्य राजासौ जगामाश्रमसन्निधौ ।
ऋष्यशृङ्गस्य चास्थीनि गृहीत्वा स नृपोत्तमः

89.59

दृष्टिमार्गे स्थितस् तस्य ब्रह्मर्षेर् भावितात्मनः ।
दीर्घतपा उवाच:
आगच्छ स्वागतं ते ऽद्य आसने उपविश्यताम्

89.60

दीर्घतपास्म्य् अहं ते ऽद्य मधुपर्कः सविष्टरः ।
राजोवाचा:
अर्घस्यैव न योग्यो ऽहं महर्षेर् भावितात्मनः

89.61

मृगमध्ये स्थितो विप्र तव पुत्रो मया हतः ।
पुत्रघ्नं शाधि मां विप्र तीव्रदण्डेन दण्डय

89.62

मृगभ्रान्त्या हतो विप्र ऋष्यशृङ्गो महातपाः ।
इति ज्ञात्वा च मां विप्र कुरुष्व च यथोचितम्

89.63

माता तस्य वचः श्रुत्वा गृहान् निर्गत्य विह्वला ।
हा हतास्मीत्य् उवाचाथ पतिता च महीतले

89.64

विललाप सुदुःखार्ता पुत्रशोकेन पीडिता ।
हा पुत्र पुत्रेति वदन् करुणं कुररी यथा

89.65

श्रुत्यध्ययनसम्पूर्णो जपहोमपरायणः ।
आगतं त्वां गृहद्वारे कदा पृच्छामि पुत्रक

89.66

त्रिलोक्याम् अपि श्रूयते चन्दनं किल शीतलम् ।
पुत्रगातपरिष्वङ्गश् चन्दनाद् अपि शीतलः

89.67

परिष्वजितुम् इच्छामि त्वाम् अहं पुत्रसुप्रियम् ।
पञ्चत्वं च गमिष्यामि त्वद् विहीना सुदुःखिता

89.68

एवं विलपती दीना पुत्रशोकेन पीडिता ।
मूर्छिता विह्वला दीना निपपात महीतले

89.69

भार्यां च पतितां दृष्ट्वा पुत्रशोकेन पीडितः ।
चुकोप मुनिश्रेष्ठश् चित्रसेनं नृपं तदा

89.70

दीर्घतपा उवाच:
याहि याहि महापाप मा मुखं दर्शयस्व मे ।
किं त्वया घातितो विप्र ह्य् अकामाच् च सुतो मम

89.71

ब्रह्महत्या भविष्यन्ति बहवस् ते नराधिप ।
सकुटुम्बस्य मे त्वं हि मृत्युर् एवम् उपागतः

89.72

एवम् उक्त्वा ततो विप्रो विचिन्त्य च पुनः पुनः ।
क्रोधं परित्यज्य ततो मुनिमार्गं जगाम ह

89.73

ऋषिर् उवाच:
उद्वेगं त्यज भो राजन् दुरुक्तं गदितं मया ।
पुत्रशोकाभिभूतेन दुःखमाप्तेन मानद

89.74

किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः ।
प्रायेण हि मनुष्याणां बुद्धिः कर्मानुसारिणी

89.75

अनेनैव प्रकारेण यत् त्वया लिखितं मम ।
परं तव भविष्यन्ति विप्रहत्या न संशयः

89.76

ब्रह्मक्षत्रविशां मध्ये शूद्रो वा चान्त्यजादिषु ।
कस्त्वं कथय सत्यं मे कस्माच् च निहतः सुतः

89.77

चित्रसेन उवाच:
विज्ञापयामि विप्रर्षे क्षन्तव्यं च ममोपरि ।
नाहं विप्रो ऽस्मि भो तात न शूद्रो नैव वैश्यजः

89.78

नचापि चान्त्यजातीयः क्षत्रियो ऽहं द्विजोत्तम ।
काशिराजो मृगान् हन्तुम् आगतो वनम् उत्तमम्

89.79

भ्रमता पातितस् तत्र मृगरूपधरो मुनिः ।
किं कर्तव्यं मया विप्र उपायं कथयस्व मे

89.80

दीर्घतपा उवाच:
ब्रह्महत्या न शक्येत एकेन तरितुं विभो ।
देशे काले यथाशक्त्या तच्छृणुष्व नराधिप

89.81

चत्वारो मे सुता राजन् सभार्या मातृपूर्वकाः ।
मया सह न जीवन्ति ऋष्यशृङ्गस्य कारणे

89.82

उपायं शोभनं तात कथयामि शृणुष्व भोः ।
शक्यते यदि चेत् कर्तुं सुखोपायं नरेश्वर

89.83

सकुटुम्बसमस्तान् नो दाहयस्वानले नृप ।
अस्थीनि नर्मदातोये शूलभेदे विनिक्षिपेः

89.84

नर्मदादक्षिणे कूले शूलभेदेति विश्रुतम् ।
सर्वपापहरं तीर्थं सर्वतीर्थोत्तमोत्तमम्

89.85

शुचिर् भूत्वा ममास्थीनि क्षिप त्वं शूलभेदके ।
मुच्यते सर्वपापेभ्यो मम वाक्यात् न संशयः

89.86

राजोवाच:
आदेशो दीयतां तात करिष्यामि न संशयः ।
सर्वस्वम् अपि यत् किंचिद् राज्यं कोशः स्त्रियः सुताः

89.87

तव दानं प्रयच्छामि विप्र मां त्वं प्रसीद च ।
परस्परं विवदतोर् मुनिराज्ञोस् तदा नृप

89.88

स्फुटित्वा हृदयं शीघ्रं मुनेर् भार्या मृता तदा ।
पुत्रशोकसमाक्रान्ता निर्जीवा पतिता क्षितौ

89.89

पुत्राश् च मातृशोकेन सर्वे पञ्चत्वम् आगताः ।
स्नुषाश् चैव तु ताः सर्वा मृताश् च सह भर्तृभिः

89.90

पञ्चत्वं तु गतान् सर्वान् मुनिमुख्यान् निरीक्ष्य तान् ।
विप्राश् चाह्वानितास् तेन ते तत्राश्रमवासिनः

89.91

तेभ्यो निवेदयामास यथा वृत्तं नरोत्तमः ।
संहतैस् तैर् अनुज्ञातः कथंचिद् दह्य यत्नतः

89.92

देहं स्वं पावनं कृत्वास्थीनि प्रगृह्य यत्नतः ।
याम्यां हि प्रस्थितो राजा पादचारी महीपतिः

89.93

न शक्नोति यदा गन्तुं छायामाश्रित्य तिष्ठति ।
विश्रम्य च पुनर् गच्छन् विश्रम्य च पुनः पुनः

89.94

सचैलं कुरुते स्नानमस्थीन् वोढा पदे पदे ।
विना जलं निराहारः सो ऽगच्छद् दक्षिणामुखः

89.95

अचिरेणैव कालेन स गतो नर्मदातटे ।
आश्रमस्थान् द्विजान् सर्वान् पप्रच्छ राजसत्तमः

89.96

कथ्यतां मे द्विजश्रेष्ठाः शूलभेदस्य मार्गकः

89.97

विप्रा ऊचुः:
नर्मदादक्षिणे कूले गतो द्रक्ष्यसि नान्यथा

89.98

ऋषिवाक्येन वै राजा गतो ऽथ हि नरेश्वरः ।
स ददर्श ततस् तीर्थं बहुद्विजसमाकुलम्

89.99

बहुद्रुमलताकीर्णं बहुपुष्पोपशोभितम् ।
बहुमूलफलोपेतं बहुश्वापदशोभितम्

89.100

ऋषिसङ्घैः समाकीर्णं नानाव्रतधरैः शुभैः ।
एकपादस्थिताः केचिद् अपरे सूर्यवर्चसः

89.101

एकदृष्टिस्थिताः केचिद् ऊर्ध्वबाहुस्थिताः परे ।
चान्द्रायणपरा केचित् केचित् पक्षोपवासिनः

89.102

मासोपवासिनः केचित् केचिद् ऋतुमुपोषिताः ।
शीर्णपर्णाशिनः केचित् केचिन् मारुतभोजनाः

89.103

योगाभ्यासरताः केचिद् ध्यायन्तः परमं पदम् ।
गार्हस्थम् आस्थिताः केचित् केचिच् चैवाग्निहोत्रिणः

89.104

एवं विधान् द्विजान् दृष्ट्वा जानुभ्याम् अवनीं गतः ।
प्रणम्य शिरसा राजन् राजा वचनम् अब्रवीत्

89.105

कस्मिन् देशे तु तत् तीर्थं कथयध्वं द्विजोत्तमाः ।
सर्वेषां वाञ्छितां सिद्धिं दद्याच् च फलम् ईप्सितम्

89.106

ऋषिरुवाच:
धन्वन्तरशतं गच्छ भृगुतुङ्गस्य मूर्धनि ।
कुण्डं द्रक्ष्यसि विस्तीर्णं तोयपूर्णं सुशोभनम्

89.107

तेषां तद्वचनं श्रुत्वा गतः कुण्डस्य मूर्धनि ।
दृष्ट्वा हि चैव तत्तीर्थं भ्रान्तिर् जाता नृपस्य हि

89.108

वीक्ष्य कुण्डं महाभागं गङ्गां चैव विशेषतः ।
प्राचीं सरस्वतीं दृष्ट्वा भ्रान्तिर्जाता नृपस्य हि

89.109

ततो विस्मयमापन्नश् चिन्तयानो मुहुर्मुहुः ।
आकाशसंस्थितं दृष्ट्वा सामिषं कुररं तथा

89.110

भ्रममाणं गृहीत्वा तं वध्यमानं निरामिषैः ।
परस्परं हि युध्यन्ते सर्वे चामिषभक्षकाः

89.111

हतश् चञ्चुप्रहारैस् तु कुररः पतितो ऽम्भसि ।
शूलेन शूलिना यत्र भूभागं भेदितं पुरा

89.112

तत् तीर्थस्य प्रभावेण स सद्यः पुरुषो ऽभवत् ।
विमानस्थं तु तं दृष्ट्वा क्रौंच वै दिव्यरूपिणम्

89.113

अप्सरोभिर् गीयमानं नृपस् तत् तीर्थम् आगतः ।
अस्थीनि भूमौ निक्षिप्य स्नानं कृत्वा यथा विधि

89.114

तिलमिश्रेण तोयेन तर्पयित्वेष्टदेवताः ।
धृत्वास्थीनि ततो राजा निक्षिप्यान्तर्जले तथा

89.115

क्षणम् एकं ततो वीक्ष्य राजा ऊर्ध्वमुखः स्थितः ।
तां ददर्श ततः सर्वान् देवमूर्तिधरान् शुभान्

89.116

दिव्यवस्त्रैश् च संवीतान् दिव्याभरणभूषितान् ।
विमानैः काञ्चनैर् दिव्यैर् अप्सरोगणसेवितैः

89.117

पृथग्भूताश् च तान् सर्वान् विमानेषु व्यवस्थितान् ।
उत्पततः समालोक्य स राजा हर्षितो ऽभवत्

89.118

ऋषिर् विमानम् आरूढश् चित्रसेनम् अथाब्रवीत् ।
भो भोः साधु महाराज चित्रसेन महामते

89.119

त्वत्प्रसादान् नृपश्रेष्ठ गतिर्दिव्या ममाद्य वै ।
इदं च यत्त्वया किंचित् कृतं परमदुष्करम्

89.120

स्वसुतो ऽपि न शक्नोति पितॄणां कर्तुम् ईदृशम् ।
मदीयवचनाद् राजन् निष्पापस् त्वं भविष्यसि

89.121

यत् त्वं द्रक्ष्यसि राजेन्द्र कामिकं मनसेप्सितम् ।
आशीर्वादं ततो दत्त्वा चित्रसेनाय धीमते

89.122

स्वर्गं जगाम स्वसुतैस् ततो दीर्घतपा मुनिः

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc