स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 9
इति श्रीस्कन्दपुराणे रेवाखण्डे त्रिपुरीवर्णनो नामाष्टमो ऽध्यायः ॥
र्क्स् अध्याय 9
नर्मदोवाच:
त्रेतायां प्रथमे पादे तव वंशे नृपोत्तम ।
भगीरथ इति ख्यातः स गङ्गा मानयिष्यति
सगराः षष्टिसाहस्रा अलाबुजसमुद्भवाः ।
कपिलस्य तु मार्गेण हये पातालगामिनि
पितुराज्ञा ऽवसाने तु विदार्य धरणीं ततः ।
हयं तु वासुदेवेन सागरास् ते विदुर्बुधाः
प्रविष्टाः सागरास् ते तु रसातलतलं गताः ।
तान् अहं पूरयिष्यामि आत्मतोयेन सुव्रत
एवं वृतो वरस् तावच् छेषं वृणु नरेश्वर ।
पादे द्वितीये त्रेतायाः कालिन्दी च सरस्वती
सरयूर् गण्डकी नाम महाभागा विनिःसृताः ।
भगीरथ इति ख्यातस् तव वंशे भविष्यति
भागीरथी च विख्याता भविष्यति सरिद्वरा ।
गङ्गा च जाह्नवी चैव समभागा प्रकीर्तिता
ख्यातिं यास्यन्ति तास् सर्वाः कन्याद्वीपे न संशयः ।
आगच्छन्ती तु सा गङ्गा जह्नुना च महर्षिणा
हस्तेनाकृष्य सा पीता यथान्यत् प्राकृतं जलम् ।
दिव्यं वर्षसहस्रं तु उदरे च विसर्पिता
विषण्णवदनो राजा तदासीत् स भगीरथः ।
निष्कलं मे तपस् तप्तं शिवसेवा च निष्कला
मया तु सेवितं ह्येतज् जगत् सर्वं चराचरम् ।
किं करोमीति निश्चित्य महेशं शरणं गतः
शिवाज्ञा सयुतो भूत्वा लोकानां हितकामया ।
आगतश्च पुनर्मोहात् तां गङ्गां स महायशाः
उवाच वचनं राजन् ऋषिः क्रोधसमन्वितः ।
गङ्गाया मोक्षणं कर्तुं यो माम् आराधयिष्यति
गङ्गाया मोक्षणं तत्र कर्तव्य ना ऽत्र संशयः ।
तस्य तद् वचनं श्रुत्वा जह्नोरमिततेजसः
तम् एवाराथयामास तपसोग्रेण भारत ।
ततस् तुष्टस् तु भगवान् मुमोचोत्तरवाहिनीम्
ततः प्रभृति लोके ऽस्मिञ् जाह्नवीति प्रकीर्तिता ।
एतत् ते कथितं राजंस् त्रेतायां यद् भविष्यति
तत्रैवा ऽन्यं प्रवक्ष्यामि मर्कटीतीर्थमुत्तमम् ।
यत्र स्नात्वा महाराज कामतो ऽकामतो ऽपि वा
चान्द्रायणशतस्योक्तं यत् पुण्यं तद् अवाप्नुयात् ।
युधिष्ठिर उवाच:
संक्षेपाच्छ्रुतम् एतद्धि विस्तरेण तपोधन
कथं तु मर्कटीतीर्थं तन् मे कथय सुव्रत ।
मार्कण्डेय उवाच:
आसीत् त्रेतायुगे राजा सत्यसेनो महातपाः
राज्ञी तस्य प्रिया चासीन् नाम्ना शृङ्गारवल्लरी ।
जातिस्मरा तु सुभगा केवलं मर्कटानना
कदाचित् स महीपालो मृगया प्रियया सह ।
जगाम नर्मदातीरं नानाद्रुमलतायुतम्
स्थापयित्वा तु तां देवीं वनान्तरम् अगात् ततः ।
क्रीडमाना च सा तत्र वंशगुल्मे स्वकं शिरः
वृष्ट्वा विस्मयमापन्ना पार्श्वस्थं कंचिद् अब्रवीत् ।
गृहीत्वैतच्छिरः शीघ्रं नर्मदाया जले क्षिप
निक्षिप्तमात्रे शिरसि राज्ञी चन्द्रानना ऽभवत् ।
एतस्मिन्न् अन्तरे राजा प्राप्तस् तत्र प्रिया ऽन्तिकम्
स दृष्ट्वा तादृशं तस्या मुखं पूर्णशशिप्रभम् ।
पृच्छति स्म प्रियां राजा विस्मयाविष्टचेतनः
कथयामास वृत्तान्तं पूर्वजन्मसमुद्भवम् ।
अत्राहं मर्कटीवासं तीरे वै नार्मदे शूभे
कदाचित् क्रीडमाना ऽहं वंशं भित्त्वा ह्यकामतः ।
ततः कालवशाज् जीर्णं शरीरं पतितं जले
शिरस् तत्रैव संलग्नं कपिवक्त्रा ऽस्मि तेन वै ।
इदानीं नर्मदातोये निक्षिप्ते शिरसि प्रिय
मुखं मे तीर्थमाहात्म्याच् चन्द्रबिम्बसमप्रभम् ।
श्रुत्वा स तीर्थमाहात्म्यं विस्मयोत्फुल्ललोचनः
पुरोहितं समाहूय स्नातुं तत्र प्रचक्रमे ।
स्नात्वा तत्र विधानेन हेमकोटिशतं ददौ
तदा प्रभृति राजेन्द्र मर्कटीतीर्थमुच्यते ।
पूर्वभागस्थितं तस्य भृगुतीर्थमनुत्तमम्
तत्र स्नात्वा तु कार्तिक्यां नर पापात् प्रमुच्यते ।
स्वर्गदो मोक्षदश् चैव देवस् तु नरकेश्वरः
देवस्य चाग्रे वंशो वै सम्मुखो यत्र दृश्यते ।
पूर्वभागे स्थितं तत्र तस्मिन् वंशे तु निर्मले
त्रिलोचन इति ख्यातं तथैव भ्रुकुटिस्थितम् ।
तृतीयं लोचनं दृष्ट्वा भृगुस् तु मुनिसत्तम
प्रणम्य दण्डवद्भूमौ स्तोतुं समुपचक्रमे ।
भृगुर् उवाच:
प्रणमामि जने संस्थं भूतेशं भूतिदं हरम्
भाव्यं भर्गं पशुपतिं भुवनेश्वरम् एव च ।
दोषमात्रविहीनं च नित्यविज्ञानविग्रहम्
परद्रव्यापहरणात् परदारनिषेवणात् ।
पराभवात् पराभूतं रक्ष मां कल्मषात् प्रभो
आत्माभिमानम् उदितं क्षणभङ्गुरके तथा ।
कुपथाभिमुखं दीनं त्राहि मां परमेश्वर
दीनद्विजवरस्यार्थे प्रज्ञाने परितो भव ।
वृष्ट्वा सदा शङ्करस्त्वं मूढं मां किं विलम्बसे
तृष्णां हर हरात्यर्थं लक्ष्मीं मे देहि निश्चलाम्
नित्यं छिनत्ति मोहं पापं हन्ति तारणं विदधाति ।
तव तीर्थमात्रगमनं तद् अपि न संचितं महेशान
भूतिमूलविभूढस्य विभागं तन् निरर्थकम् ।
करुणाहृदयं नाम स्तोत्रम् एतद् भृगूदितम्
यः पठेत् प्रातरुत्थाय स याति परमां गतिम् ।
स्तोत्रेणानेन सन्तुष्टः शिवः प्रोवाच तं भृगुम्
सर्वं दास्यामि ते विप्रवरं यन् मनसीप्सितम् ।
सिद्धिं चैव पुनः श्लाघ्यां यत् सुरैर् अपि दुर्लभाम्
भृगुरुवाच:
यदि तुष्टो ऽसि देवेश वरं दातुम् इहेच्छसि ।
मम नाम्ना ऽस्य तीर्थस्य ख्यातिर् भवति भूतले
अवतारय चात्मानं भृगुक्षेत्रे महेश्वर ।
शङ्कर उवाच:
एवं भवतु विप्रेन्द्र तव नाम्ना भविष्यति
क्षेत्रं पापहरं पुण्यं देवानाम् अपि दुर्लभम् ।
पितृपुत्रविसंवादः क्रोधाज्जातः कथञ्चन
अस्य तीर्थस्य माहात्म्यात् स तु शान्तिं गमिष्यति ।
ततः प्रभृति ये देवा ब्रह्माद्याः किन्नरा नराः
उपासते भृगुक्षेत्रं यत्र तुष्टो महेश्वरः ।
दर्शनात् स्पर्शनात् तस्य मुच्यते ब्रह्महत्यया
स्नानं यः कुरुते तत्र मुच्यते स ऋणत्रयात् ।
अवतारः कृतो राजन् युगे तत्र स्वयम्भुवा
तत्र क्षेत्रे नरश्रेष्ठ अष्टौ रुद्राः प्रकीर्तिताः ।
भृगुश् चैव तथा शूली वेदश्चन्द्रमुखस् तथा
अट्टहासस् तथा कालः कराली चाष्टमस् तथा ।
अष्टौ रुद्रास् समुत्पन्नास् तस्मिन् क्षेत्रे युधिष्ठिर
तेन रम्यं च धन्यं च भृगुक्षेत्रम् उदाहृतम् ।
अयने विषुवे चैव संक्रान्तौ ग्रहणेषु च
व्यतीपाते दिनच्छेदे छायायां तु गजस्य च ।
स्नानं दानं तथा होमं तर्पणं देवतार्चनम्
सर्वं तद् अक्षयं राजंस् तस्मिन् क्षेत्रे न संशयः ।
स्नातस्य च भृगुक्षेत्रे एकरात्रोषितस्य च
यत् पुण्यं जायते पुंसो न तत्क्रतुशतैर् अपि ।
दर्शे भाद्रपदे मासे शुक्लपक्षे विशेषतः
नरः प्रदक्षिणां कृत्वा भृगुतीर्थस्य संयतः ।
तत्क्षणाद् विरजो भूत्वा शिवलोके महीयते
अस्य तीर्थस्य माहात्म्यान् मुच्यते सर्वपातकैः ।
मर्कट्याः पश्चिमे भागे ह्य् अर्कतीर्थम् उदाहृतम्
तत्र नित्यं स्थितो भानुः सर्वदेवनमस्कृतः ।
नरः प्रदक्षिणां कृत्वा सर्वपापैः प्रमुच्यते
माहात्म्यं तस्य देवस्य शृणु राजन् समासतः ।
पुरा गन्धर्वराजस् तु मोहनो नाम नामतः
ब्रह्मणस् तु सभां प्राप्तस् तदाराधनतत्परः ।
तत्र दुर्वाससं दृष्ट्वा रूपेणानेन गर्वितः
अज्ञानेना ऽवमानेन स जहास मुनिं नृप ।
स्मेराननं समालोक्य तं शशाप मुनिस् तदा
चित्रकुष्ठी दुराचारो भव त्वं रूपगर्वितः ।
स तु शापभयात् प्राह मुनिं गन्धर्वराट् ततः
शापान्तं कुरु मे विप्र बालिशस्य प्रसादतः ।
दुर्वासा उवाच:
गच्छ गन्धर्वराज त्वं त्रिपुर्यां नर्मदातटम्
यस्मिन् नास्ते स्वयं देवः समग्रभयनाशनः ।
भासते भास्करं नाम विख्यातं चोत्तरे तटे
तत्र स्नानान् महाराज शापान्तस् ते भविष्यति ।
स जगाम पुनर् नत्वा ततो वै नर्मदातटम्
तत्र स्नात्वा विधानेन पूजयामास भास्करम् ।
त्रिरात्र्याराधितो भानुः प्रातः प्रोवाच तं नृप
वरं वृणु महाभाग यत् ते मनसि वर्तते ।
गन्धर्व उवाच:
यदि तुष्टो ऽसि देवेश वरं दातुमिहेच्छसि
चित्रकुष्ठं विनश्येत त्वत् प्रसादेन मे प्रभो ।
एवम् अस्त्विति तं प्राह गन्धर्वाधिपतिं तदा
शापान् मुक्तो जगामाथ स्वपुरम् प्रति भारत ।
एतत् ते कथितं राजन् छिवेन परिकीर्तितम्
सावित्र्याराधनं तत्र पुत्रार्थं किल भारत ।
तस्मिंस् तीर्थे नरः स्नात्वा समभ्यर्च्य च भास्करम्
पुत्रवान् व्याधिम् उक्तश्च जायते ना ऽत्र संशयः ।
कोटीश्वरं तु तत्रैव विद्धिदक्षिणभागतः
तम् अभ्यर्च्य विधानेन कोटिलिङ्गार्चनात् फलम् ।
नरः प्राप्नोति राजेन्द्र सत्यं सत्यं वदाम्यहम्
कोटितीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ।
तत्र यः सन्त्यजेत् प्राणानवशः स्ववशो ऽपिवा
सर्वपापविनिर्मुक्तः शिवलोके महीयते
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0