भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 8

8.1

इति श्रीस्कन्दपुराणे रेवाखण्डे व्यासतीर्थमहिमवर्णनो नाम सप्तमो ऽध्यायः ॥
र्क्स् अध्याय 8
मार्कण्डेय उवाच:
अथान्यत् परमं तीर्थं त्रिषु लोकेषु विश्रुतम् ।
त्रिपुरी नाम विख्यातं रेवाया उत्तरेतटे

8.2

सपादलक्षतीर्थानि यत्र तिष्ठन्ति भारत ।
शतमष्टोत्तरं तत्र लिङ्गानां तु स्वयम्भुवाम्

8.3

त्रिपुरः पातितो राजन् देवदेवेन शूलिना ।
स्तोतव्यं किं परं तत्र सुरासुरनिषेवितम्

8.4

लोकानुग्रहकं देवं स्वयं विद्धि महेश्वरम् ।
गोकर्णं नाम विख्यातं भोगदं मोक्षदायकम्

8.5

कीर्तनाद् देवदेवस्य स्नपनेना ऽर्चनेन च ।
तोयेन नर्मदायास् तु ब्रह्महत्या प्रणश्यति

8.6

गन्धधूपप्रदीपैश् च तथा विभवविस्तरैः ।
अपि वर्षसहस्रेण पुण्यसंख्या न ज्ञायते

8.7

यदा तदा शिवे दानं तस्य संख्या न विद्यते ।
धन्यास् ते मानवा राजन् स्नात्वा पश्यन्ति ये हरम्

8.8

कैलासे स वसेन् मर्त्यस् त्रिपुर्यां यो वसेन् नृप ।
अकामात् कामतो वा ऽपि प्राणत्यागं करोति यः

8.9

हंसयुक्तविमानेन किङ्किणीरवशालिना ।
छत्रेण ध्रियमाणेन सौवर्णेन विराजता

8.10

झल्लरीतूर्यवाद्येन नृत्यगीतोत्सवेनच ।
सुरासुरैर् वीक्ष्यमाणः सर्वालङ्कारभूषितः

8.11

भुङ्क्ते तु विपुलान् भोगान् यावद् इच्छन् महेश्वरे ।
एवम् एवा ऽपि चान्यानि यानि काम्यानि मानुषैः

8.12

त्रिपुरारिस् तु देवेशो यत्र तिष्ठति भारत ।
त्रयस्त्रिंशत् प्रसिद्धानां देवानां कोटिभिः शिवः

8.13

त्रिपुर्यां निवसेद् यस्माच्छिवक्षेत्रमतः स्मृतम् ।
क्रोशद्वयप्रमाणं तु शिवक्षेत्र प्रकीर्तितम्

8.14

अत्रान्तरे मृता ये च ते प्रयान्ति शुभां गतिम् ।
ब्रह्मणा तु पुरा चेष्टं ब्रह्मयज्ञं मखोत्तमम्

8.15

शक्रेण देवराजेन कृतं क्रतुशतं पुरा ।
गोकर्णं च महादेवं सर्वसिद्धिप्रदायकम्

8.16

वटेश्वरं तथा चान्यं सिद्धलिङ्गं सुरेश्वरम् ।
ईश्वरं चैव कामेशमश्विभ्याम् अर्चितं हरम्

8.17

अनङ्गं वामदेवं च कपोतेश्वरम् एव च ।
सर्वेश्वरं सोमनाथं ऋणमोचनम् एव च

8.18

कपालमोचनं देवं तथान्यम् अघनाशनम् ।
इन्द्रेश्वरं च ब्रह्मेशं शिवं नारायणं भवम्

8.19

विश्वदेवं सिद्धनाथम् अमरं चान्द्रम् एव च ।
सिद्धं विद्याधरं यज्ञम् अतुलं वासवं तथा

8.20

ईशानमग्निगर्भं च कुबेरमतुलं तथा ।
गायत्रं चैव सावित्रं रोहिणीतीर्थमेव च

8.21

दाक्षायणी चैव सती दक्षयज्ञहरा स्मृता ।
रत्नावली सूर्यपत्नी सूर्यभामा च वारुणी

8.22

विष्णुर् मरीचिर् मैत्रेयऋष्यशृङ्गो विभाण्डजः ।
तपस्वी शौनको गर्गो दुर्वासा उग्रतापसः

8.23

पञ्चायुतानि सिद्धानि त्रिपुर्यां नृपसत्तम ।
अपि वर्षसहस्राणि न स्तोतुं शक्यते पुरी

8.24

त्रिपुरीक्षेत्रमाहात्म्यं शक्रेणापि नराधिप ।
अनेकानि सहस्राणि क्षत्रियाणां युधिष्ठिर

8.25

दीक्षायज्ञविधानेन नाकपृष्ठमुपासते ।
इतिहासं प्रवक्ष्यामि आदिकल्पे कृते युगे

8.26

स्वायम्भुवे ऽन्तरे प्राप्ते कापिले कालसंज्ञके ।
मनुर्नाम पुरा राजा चक्रवर्ती महायशाः

8.27

अयोध्यां स पुरीं लेभे सूर्यवंशो महीपतिः ।
समाराध्य महादेवं शङ्करं मधुसूदनम्

8.28

अवध्या दानवैर् या तु निर्मिता विश्वकर्मणा ।
वापीकूपसहस्रेण परिखा ऽट्टालकेन वा

8.29

धनदस्य पुरी यद्वद् अलका नाम विश्रुता ।
अयोध्या शोभना राजन् छक्रस्येवामरावती

8.30

धनधान्यसमाकीर्णा सर्वालङ्कारभूषिता ।
ब्रह्मघोषनिनादेन भूमिं दिवम् इवाकरोत्

8.31

साग्निहोत्रैश् च विद्वद्भिर् ब्राह्मणैर् वेदपारगैः ।
चतुर्वर्णाश् च धर्मश् च प्राकृता इतरे जनाः

8.32

सपादलक्षवर्षाणि प्रजा सर्वा च जीवति ।
न कार्मण्यजरारोगा दुर्भिक्षं न तु मृत्युभीः

8.33

स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी ।
अन्यायेन च भूतेषु दत्ता हर्ता न विद्यते

8.34

नवखण्डां सप्तद्वीपां संशैलवनकाननाम् ।
शशास मेदिनीं सर्वां यथा शक्रस् त्रिविष्टपम्

8.35

एकपत्नीगृहं यद्वद् गृहस्थस्य विराजते ।
यज्ञदानसहस्रेण तर्पितास् सर्वदेवताः

8.36

यं यं प्रार्थयते कामं तं तमाप न संशयः ।
एको दोषः परं तत्र नदी नैवा ऽत्र विद्यते

8.37

राहुसोमसमायोगे देवखातं समाययौ ।
स्नानं कर्तुं समाधाय ब्राह्मणैर् वैदपारगैः

8.38

विमानानां सहस्रेण गत्वा विशं नृपोत्तमः ।
शङ्खतूर्यनिनादेन वेणुवीणास्वनेन च

8.39

सान्तः पुरपरीवारो वीक्ष्यमाणो ऽङ्गनागणैः ।
निर्वर्त्य पर्वकाले तु दानहोमविधिक्रियाम्

8.40

विवेश नगरीं पुण्याम् अयोध्यां देवनिर्मिताम् ।
पौर्णमास्यां गते यामे स्वस्थे चैव नृपोत्तमे

8.41

श्रूयते किङ्किणीशब्द आकाशे व्योमचारिणाम् ।
गीतवादित्रयुक्तानां सहस्रं पङ्क्तिः वाजिनाम्

8.42

मनोहराणां यानानां दृष्ट्वा चैव दिवौकसाम् ।
जगाम विस्मयं राजा भवनोपरि शोभितः

8.43

कस्यैतानि विमानानि ममैव भवनोपरि ।
शयने शयने चैव कामभोगविवार्जितः

8.44

शोकोपहतचित्तस्य चिन्तया व्याकुलीकृतः ।
किम् इदं साहसं लोके विमानानां नभोपरि

8.45

एवं चिन्तयतस् तस्य सा निष्क्रान्ता निशा नृप ।
उदिते च तथा सूर्ये धर्मकर्म समाप्य वै

8.46

वशिष्ठं प्राह राजर्षिर् अभिवाद्य नमस्कृतम् ।
उपविष्टं यथा न्यायम् आसने देवनिर्मिते

8.47

इतिहासपुराणादि श्रावयन् विधिपूर्वकम् ।
मनुना च पुरा पृष्टो वशिष्ठो मुनिपुङ्गवः

8.48

कस्यैतानि विमानानि ममोपरि महामुने ।
केन कर्म्मविपाकेन दानेन नियमेन च

8.49

संशयो मे महाभाग त्रिकालज्ञ निवेदय ।
कस्मिन् देशे कृतो यज्ञः स्वर्गकामफलप्रदः

8.50

येन याम्य क्षयांल् लोकान् नित्यान्तक विवार्जितान् ।
क्षत्रवंशसमुत्पन्नो यस् तु वै शिक्षते क्षितिम्

8.51

मातृकं पैतृकं वंशं यज्ञम् इष्ट्वा दिवं नयेत् ।
स जातो येन भूलोकः सर्वथावद्यवर्जितः

8.52

अन्ये पुत्रत्वम् आपन्नास्ते तु क्लेशाय केवलम् ।
एवम् उक्तो वशिष्ठस् तु मनुना ब्राह्मणैः सह ।
प्रसन्नस् त्व् अब्रवीत् तं तु वशिष्ठो मुनिसत्तमः

8.53

शृणुष्व त्वं महाभाग कथ्यमानं निबोध मे ।
ब्रह्मणा गदितं पूर्वं कश्यपस्य महामुनेः

8.54

दक्षस्यात्रेर् गुरोश् चैव प्रजापतिर् अकल्पयत् ।
वेदश्रुतपुराणोक्तं तत्र कृत्स्नं मया श्रुतम्

8.55

हन्त ते कथयिष्यामि यथावदनुपूर्वशः ।
पुराणवेदबाह्यं तु कर्म्म यत्क्रियते नृप

8.56

न तत् सन्तः प्रशंसन्ति धर्महानिश् च जायते ।
नर्मदातीरमाश्रित्य त्रिपुरी नाम विश्रुता

8.57

यैर् इष्टं तत्र यज्ञैस् तु दानहोमबलिक्रिया ।
तेषां राजन् विमानानि स्थितान्य् उपरि वेश्मनः

8.58

न तां लङ्घयितुं शक्ताः सर्वे देवास् सवासवाः ।
अतिक्रामन्ति ते स्वर्गं शिवेन सह मोदन्ते

8.59

विषादं त्यज राजेन्द्र गहना कर्म्मणां गतिः ।
अन्यक्षेत्रे सहस्रं तु दत्तं तप्तं हुतं तथा

8.60

एकं तु कल्पगा तीरे तुल्यं भवति वा न वा ।
शिवेन श्रावितं चासीत् पुराणं स्कन्दकीर्तितम्

8.61

जम्बूद्वीपे महाराज एका देवी तु नर्मदा ।
पापकर्मदुराचारान् नयते स्म दिवौकसम्

8.62

ते ऽपि यान्ति न सन्देहः कल्पगातोयदर्शनात् ।
धर्मध्वजाश् च ये मर्त्यास् त्रिषु लोकेषु विश्रुताः

8.63

संसारार्णवमग्नानां पापोपहतचेतसाम् ।
यानरूपावरारोहा त्रैलोक्ये सचराचरे

8.64

एकवक्त्रस् तु तत् पुण्यं न गुणान् स्तोतुमर्हति ।
त्यक्त्वा चैव महाभाग ब्रह्मविष्णुमहेश्वरान्

8.65

संख्यां कर्तुं न शक्नोति तपसो दानकर्म्मणाम् ।
न गङ्गायमुना चापि नदी चैव सरस्वती

8.66

इरावती वितस्ता च विपाशा कपिला तथा ।
शोणश् च घर्घरश् चैव सारङ्गा बदरी तथा

8.67

पुण्या महानदी तापी गण्डकी च पयोष्णिका ।
तुङ्गभद्रा महापुण्या भीमरथ्या महानदी

8.68

तीर्थानि सागराणां हि जम्बूद्वीपे वसन्ति हि ।
देवखाततडागेषु गर्तेषु च सरित्सु च

8.69

किं फलं लभते मर्त्य इष्ट्वा यज्ञैर् नृपोत्तम ।
अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति

8.70

पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति ।
अयं यथा तथा धर्मः समं भारत वर्तते

8.71

तस्मात् पापं न कुर्वीत चञ्चले जीविते सति ।
श्रुत्वाख्यानम् इदं राजा नर्मदाकीर्तनं शुभम्

8.72

आदिदेश ततो ऽमात्यान् भृत्यांश् चैव सहस्रशः ।
राजोपस्करम् आदाय यूयं गच्छतमाचिरम्

8.73

धेनूनां पञ्चलक्षाणि सवत्सानां च भारत ।
श्यामकर्णहयानां च लक्षमेकं शितत्विषाम्

8.74

अयुतं च करीन्द्राणां घण्टाभरणसंयुजाम्

8.75

हिरण्यकोटीः पञ्चाशत् सर्वासृङ्मणयस् तथा ।
सुमुहूर्ते सुनक्षत्रे चन्द्रे चैकादशे शुभे

8.76

नानादेशनृपैः सार्द्धं गीतवादित्रमङ्गलैः ।
दिव्ययानसमारूढः स्तूयमानो मुहुर् मुहुः

8.77

ब्राह्मणैर् वेदविद्भिश् च प्रायाच्च त्रिपुरीं नृपः ।
सप्तकल्पवहां पुण्यां सुरासुरनमस्कृताम्

8.78

आजन्मरूढैस् तु पापैः सान्तः पुरपरिच्छदः ।
विमुक्तः पृथिवीपालः कल्पगा तोयदर्शनात्

8.79

पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे ।
मेकलातोयसंस्पर्शात् पवित्राणीह तान्य् अपि

8.80

स्नानं कृत्वा यथा न्यायं पितॄन् देवांश् च तर्पयन् ।
अर्चयित्वा महेशानं गन्धपुष्पविलेपनैः

8.81

दशयोजनपर्य्यन्तं यज्ञरूपं च मण्डपम् ।
अकारयन् महाबाहुः सर्वधर्मपरायणः

8.82

हेमरूप्यम् अयं सर्वं यच् चान्यद् भोज्यभाजनम् ।
अगस्त्यो गौतमो गर्गो विष्णुः शातातपस् तथा

8.83

अत्रिश् चैव वशिष्ठश् च पुलस्त्यः पुलहः क्रतुः ।
भृगुर् अग्निर्मरीचिश् च कश्यपो ऽथ मनुस् तथा

8.84

दुर्वासा याज्ञवल्क्यश् च भरद्वाजो ऽथ भल्लुकः ।
विश्वामित्रो जमदग्नी ऋष्यशृङ्गो विभाण्डकः

8.85

दक्षः पराशरो व्यासः काषायणबृहस्पती ।
एते चान्ये च बहव ऋषयः शंसितव्रताः

8.86

चतुर्विद्यावेदविदो यज्ञकर्म्मविशारदाः ।
तीर्थं वै पुष्करं यद्वद् ब्रह्मविष्णुशिवात्मकम्

8.87

तत्र प्रावर्तयद् यज्ञं हयमेधमनुत्तमम् ।
आहूता देवताः सर्वा देवेन्द्रः पाकशासनः

8.88

तर्पिता अर्घपाद्यैश् च मधुपर्कैश् च विष्टरैः ।
ततो निवर्तितो यज्ञो यथोक्तो वेदकर्म्मणा

8.89

तर्पिता ब्राह्मणास् सर्वे यथा विभवविस्तरैः ।
हारकेयूरकटकैः कण्ठाभरणभूषणैः

8.90

केचित् कुङ्जरम् आरूढास् तथा च हयसंस्थिताः ।
दिव्ययानसमारूढा दिव्यमालावलम्बिनः

8.91

वयांसि पक्षिणो यत्र तथा ऽन्ये वनचारिणः ।
यज्ञोच्छिष्टेषु लुलिता जाताः सर्वे हिरण्मयाः

8.92

यं यं कामं प्रार्थयते तं तं प्राप्नोत्यसंशयम् ।
घोषणा क्रियतां राष्ट्रे दण्डहस्तैस् तु किङ्करैः

8.93

पितृदेवमनुष्याश् च तृप्ता यान्ति परां गतिम् ।
ब्रह्मविष्णुमहेशाना वरं दत्त्वा दिवं ययुः

8.94

अत्र यज्ञस् तपोदानं सर्वं भवति चाक्षयम् ।
एवं निवर्तितो यज्ञो राज्ञश्चामिततेजसः

8.95

कृताञ्जलिपुटो भूत्वा मनुरित्य् आह कल्पगाम् ।
चान्द्रायणसहस्रस्य सोमयागशतस्य च

8.96

त्वत् तोयपानमात्रेण समम् भवति वा न वा ।
लोकानां तारणार्थाय अवतीर्णा महानदी

8.97

त्वया व्याप्तं जगत्कृत्स्नं लोकाश्चैव चराचराः ।
स्नानावगाहनात् पानात् स्मरणात् कीर्तनाद् अपि

8.98

अनेकभाविकं पापं तूलराशिम् इवानलः ।
दहत्य् एवं हि तोयं ते नात्र कार्य्या विचारणा

8.99

स्वर्गसोपानभूता ऽसि पितॄणां हितकाम्यया ।
दिवं नय वरारोहे भूतग्रामं चतुर्विधम्

8.100

याः काश्चित् सरितो लोके तीर्थानि विविधानि च ।
तेषां त्वं जननी देवि पितॄणां तारिणी परा

8.101

त्वया विना तु यत् तीर्थं धर्मकर्मशुभोदयम् ।
सूर्येणैव विहीनं हि निरालोकं जगद् यथा

8.102

सूर्याचन्द्रमसोर्भावः सामान्यः सर्वजन्तुषु ।
समं वर्षति पर्जन्यः सस्येषु च तृणेषु च

8.103

तथा त्वं सर्वलोकानां माता चैव गरीयसी ।
अपि वर्षसहस्रेण गुणान् कीर्तयितुं शुभे

8.104

ब्रह्मा बृहस्पतिश् चैव न शक्तो ऽपि वरानने ।
स्तोत्रं श्रुत्वा महाभागा मनोरमिततेजसः

8.105

प्रत्युवाच वरारोहा मकरासनसंस्थिता ।
सर्वाभरणशोभाढ्या चन्द्रकान्तिनिभानना

8.106

वरं वृणु महाभाग तुष्टा ऽस्मि मनसीप्सितम् ।
नमस्कृत्य महादेवीं राजा वचनमब्रवीत्

8.107

यदि तुष्टा वरारोहे वरं दातुं ममेच्छसि ।
तीर्थभूतं जगत् सर्वं कुरुष्व वरवर्णिनि

8.108

अयोध्याविषये देशे स्रवन्त्यः सम्भवन्त्विति ।
नानाविधास् तु सरितो गङ्गाद्यास् तु सुरालये

8.109

यथा च पतितास् सर्वास् तथा त्वं कल्पगे कुरु

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc