स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 10
इति श्रीस्कन्दपुराणे रेवाखण्डे ऽर्कतीर्थमाहात्म्ये नवमो ऽध्यायः ॥
र्क्स् अध्याय 10
मार्कण्डेय उवाच:
दक्षिणे तस्य तीर्थस्य कल्पगातीरमाश्रितम् ।
सोमेनाराधितं तीर्थं भुक्तिमुक्तिफलप्रदम्
तत्र स्नात्वा दिवं यान्ति मृतास् ते न पुनर्भवाः ।
दक्षिणे तस्य देवस्य स्थितः शक्रेश्वरः शिवः
शक्रेणाराधितः पूर्वं सर्वकामसमृद्धये ।
अन्यत् तीर्थं प्रवक्ष्यामि ब्रह्मकुण्डम् इति स्मृतम्
यत्रास्ते भगवान् विष्णू रेवा चोत्तरवाहिनी ।
तत्र स्नात्वा महाराज वैष्णवं लोकम् आप्नुयात्
दर्शे चैव व्यतीपाते तिलतोयप्रदानतः ।
श्राद्धस्य करणात् तत्र पितॄणां तृप्तिरक्षया
उदीची नर्मदा यत्र प्रतीची यत्र जाह्नवी ।
क्षेत्रं गच्छ नृपश्रेष्ठ प्राची यत्र सरस्वती
ब्रह्मकुण्डोत्तरे भागे विद्धि देवं सनातनम् ।
अम्बरीषम् इति ख्यातं माधवं मधुसूदनम्
एकादश्यां समभ्यर्च्य स्नात्वा यस् तु नराधिप ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
तस्यैव पश्चिमे भागे हंसतीर्थं नराधिप ।
तत्र स्नात्वा पुरा राजन् हंसा वै त्रिदिवङ्गताः
तत्रापि कुरुते श्राद्धं दानं चैव नराधिप ।
हंसतीर्थप्रभावेण तिर्यग् योनौ न जायते
पश्चिमे तस्य भागे तु लिङ्गं परमसिद्धिदम् ।
महाकालम् इति ख्यातं यन् मयाराधितं पुरा
तम् अभ्यर्च्य विधानेन शिवलोकम् अवाप्नुयात् ।
अथान्यत् संप्रवक्ष्यामि तीर्थराजम् अनुत्तमम्
मातृतीर्थम् इति ख्यातं लिङ्गं च मातृकेश्वरम् ।
तत्र स्नातस्य राजेन्द्र हयमेधफलं भवेत्
तत् प्रवाहम् अतिक्रम्य यद् वा रेवोत्तरं महत् ।
सप्तविंशोद्भवः शिवस् तत्र लोकेषु गीयते
तत्र स्नात्वा पितृभ्यश् च तोयपिण्डप्रदानतः ।
सर्वकामसमृद्धात्मा शिवलोके महीयते
तत्र यद् दीयते दानं किंचिद्वापि युधिष्ठिर ।
तस्य संख्या न विद्यते इत्य् आह भगवान् छिवः
तत प्रतीच्यां लिङ्गन् तु ब्रह्मेश्वरम् इति श्रुतम् ।
ब्रह्मणा साधितं सद्यः सर्वकामफलप्रदम्
दर्शनात् तस्य देवस्य सर्वपापैः प्रमुच्यते ।
अङ्गारे वा चतुर्दश्यां तद् अभ्यर्च्य विधानतः
शिवभक्तिपरो मर्त्यः शिवलोके महीयते ।
अन्यत् तीर्थं प्रवक्ष्यामि स्वर्गद्वारम् अनुत्तमम्
तत्र स्नातो नरव्याघ्र स्वर्गलोके महीयते ।
तत्र पश्चिमभागे तु लिङ्गं सिद्धेश्वरं परम्
तत्र सिद्धेश्वरं चैव तीर्थं पापप्रणाशनम् ।
तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः
पौषे मासि सिताष्टम्यां तमभ्यर्च्य विधानतः ।
दत्त्वा तु कपिलां धेनुं स्वर्गलोके महीयते
तस्माद् उत्तरतो विद्धि सङ्गमं लोकविश्रुतम् ।
गङ्गायमुनयोर् नित्यं रेवायाश् च नराधिप
तत्र स्नातस्य राजेन्द्र अश्वमेधफलं भवेत् ।
श्राद्धं तत्र प्रकुर्वीत पितॄणां प्रीतिवर्द्धनम्
राजोवाच:
गङ्गा च यमुना चात्र समायाते कथं मुने ।
एतद् विस्तरतः सर्वं प्रब्रूहि मुनिपुङ्गव
मार्कण्डेय उवाच:
शृणु राजन् महाभाग कथ्यमानं निबोध मे ।
मतङ्गो नाम राजर्षिर् आसीद् धर्मपरायणः
शिवभक्तो महायोगी त्रिपुर्यां वेदवित्तमः ।
षण्मासभोजी धर्मात्मा हत्वा करिवरं स्वयम्
षष्ठे मासे तु संप्राप्ते यथावद् विधिपूर्वकम् ।
पितृयज्ञं तु निर्वर्त्य शेषं भुङ्क्ते नराधिप
एवं तपसि तप्ते तु कालेन महता ततः ।
सप्तर्षयः समायातास् तेन मार्गेण भारत
स तान् दृष्ट्वा नमस्कृत्य अर्घपाद्यैर् अपूजयत् ।
कुशासनोपविष्टांस् तु प्रोवाच मुनिसत्तमः
धन्यो ऽस्मि पितृमेधे यत्संप्राप्ता मे भवादृशाः ।
तत् तस्य वचनं श्रुत्वा मतङ्गस्य महामुने
ऋषयश् चिन्तयामासुरन्यो ऽन्यं वै तदा नृप ।
मांसेन पितृमेधो ऽस्य कथं त्याज्यो भवेद् इति
चिन्ताविष्टान् मुनीन् दृष्ट्वा वशिष्ठः प्राह तं मुनिम् ।
गङ्गायमुनयोर् योगे स्नानं कृत्वा महामुने
भोक्षामहे वयं सर्वे नात्र कार्या विचारणा ।
तस्य तद्वचनं श्रुत्वा मतङ्गः प्राह तान् हसन्
गङ्गायमुनयोर् योगे स्नानं चात्र भविष्यति ।
इत्य् उक्त्वा ध्यानमास्थाय स गङ्गां यमुनां तथा
समाह्वयत् मुनिश्रेष्ठः समायाते तु तत्क्षणात् ।
स्नानं कुरुध्वं मुनयो गङ्गायमुनसङ्गमे
ते दृष्ट्वा तादृशं कर्म्म मुनेस् तस्य महात्मनः ।
विस्मयाविष्टहृदयाः प्रशशंसुश् च तं मुनिम्
ततस् तु मुनयः सर्वे स्नानं कृत्वा यथाविधि ।
पितृयज्ञं तु निर्वर्त्य मतङ्गस्य ययुर्दिवम्
गङ्गा च यमुना चैव प्रविष्टे सप्त कल्पगां ।
इत्थं स सङ्गमो जातः सर्वपापहरः परः
अमासोमसमायोगे स्नानं यः कुरुते नरः ।
सर्वधर्मसुसम्पन्नः शिवभक्तिपरायणः
उद्धृत्य पूर्वजान् सप्तचैवापरांस् तथा ।
दिव्यदेहसमापन्नो दिव्याभरणभूषितः
दिव्ययान समारूढः स्तूयमानो ऽप्सरोगणैः ।
तत्क्षणाद् विरजो भूत्वा स्वर्गलोके महीयते
अस्य तीर्थस्य माहात्म्यान् मुच्यते सर्वपातकैः ।
नैरन्तर्येण षण्मासाज् जितक्रोधो जितेन्द्रियः
स्नानं यः कुरुते तत्र पूजयेच् च महेश्वरम् ।
पथिकः कारणाद् वापि म्लेच्छदेशे ऽपि वा क्वचित्
यत्र तत्र मृतः सो ऽपि प्राप्नुयाच् छिवसन्निधिम् ।
स्नानं दान तपो होमः संयोगे चैव पर्वणि
यद् अत्र क्रियते तस्य पुण्यसंख्या न विद्यते ।
एतत् ते मे कृतं राजंस् त्रिपुरीक्षेत्रवर्णनम्
श्रवणं यस्य राजेन्द्र दैवतैर् अपि दुर्लभम् ।
एतच् छ्रुत्वा महाराज नर्मदाकीर्तनं शुभम्
नमस्कृत्य वरारोहां कामिकं यानमास्थितः ।
विवेश नगरीं पुण्याम् अयोध्यां देवनिर्मिताम्
मुदा परमया युक्तो यथा पूर्वं तथैव सः ।
एतत् ते कीर्तितं राजन् यथावद् अनुपूर्वशः
शिवेन कथितं पूर्वं स्कन्दस्य तु महात्मनः ।
श्रवणात् कीर्तनात् चैव शिवलोके महीयते
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0