भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 88

88.1

इति श्रीस्कन्दपुराणे रेवाखण्डे दानमहिमानुवर्णनं नाम सप्ताशीतितमो ऽध्यायः ॥
र्क्स् अध्याय 88
उत्तानपाद उवाच:
कस्मिन् काले च क्रियते श्राद्धं दानं च शङ्कर ।
तीर्थयात्रा कथं कार्या आतिथ्यं कथयस्व नः

88.2

शङ्कर उवाच:
पितुरर्थं यथा पुण्यं सार्वकालिकम् उत्तमम् ।
इदं तीर्थं तथा पुण्यं स्नानदानादितर्पणैः

88.3

विशेषेण च कुर्वन्ति श्राद्धं चतुर्युगादिषु ।
मन्वन्तरादयो वत्स श्रूयतां च चतुर्दश

88.4

आश्विने नवमी शुक्ला द्वादशी कार्तिकस्य च ।
तृतीया चैत्रमासे तु तथा भाद्रपदस्य च

88.5

आषाढदशमी तथा माघस्यैव चसप्तमी ।
श्रावणस्याष्टमी कृष्णा तथाषाढी तु पूर्णिमा

88.6

फाल्गुनस्य अमावास्या पौषस्यैकादशी शुभा ।
कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता

88.7

मन्वन्तरादयश् चैव ह्यनन्तफलदाः स्मृताः ।
अयने तूत्तरे चैव दक्षिणे च तथैव हि

88.8

कार्त्तिक्यां च तथा माध्यां वैशाख्यां च तृतीयया ।
चैत्र्यां चैव तथा षष्ठ्यां प्रौष्ठपद्यां तथैव च

88.9

श्राद्धकालाश् च ते सर्वे दत्तं भवति चाक्षयम् ।
मधुमासे सिते पक्ष एकादश्याम् उपोषितः

88.10

क्षपाजागरणं कुर्याद् विष्णोः पदसमीपतः ।
दद्याद् दानं तथा शक्त्या हिरण्यं गो ऽम्बराणि च

88.11

धूपं दीपं च नैवेद्यं स्रक्पुष्पचन्दनानि च ।
अर्चां करोति यो विष्णोः कथां पौराणकीर्तनम्

88.12

ऋग्यजुःसामाथर्वाणां सूक्तं तज् जपति द्विजः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति

88.13

प्रभाते कुरुते श्राद्धं द्विजान् भोज्य प्रयत्नतः ।
ददेद् दानं यथा शक्त्या हिरण्यं गो ऽम्बराणि च

88.14

पितरस्तस्य तृप्यन्ति यावद् आहूतसंप्लवम् ।
श्राद्धदश् च वसेत् तत्र यत्र देवो जनार्दनः

88.15

त्रयोदश्यां ततो गच्छेद् गुहावासीति तिष्ठति ।
दृष्ट्वा मार्कण्डमीशानं सर्वपापैः प्रमुच्यते

88.16

उत्तानपाद उवाच:
गुहामध्ये यथा देव लिङ्गं परमशोभनम् ।
प्रतिष्ठा येन देवस्य तन् ममाख्यातुम् अर्हसि

88.17

ईश्वर उवाच:
त्रिषु लोकेषु विख्यातं मार्कण्डेश्वरसंज्ञिकम् ।
बृहद्रथान्तरं यच् च सामवेदं द्विजोत्तमः

88.18

अथर्वाथर्वशीर्षाणि तथा हृच्च वृषाकपिम् ।
शिवसंकल्पितं जप्त्वा मुच्यते सर्वपातकैः

88.19

स याति परमं स्थानं यत्र देवो महेश्वरः ।
पादशौचं तथा तस्य कुर्वते ये च भक्तितः

88.20

गोदानेनैव यत्पुण्यं लभन्ते ना ऽत्र संशयः ।
ब्राह्मणान् भोजयेत् तत्र पायसैर् मधुसर्पिषा

88.21

एकेन भोजितेनापि सहस्रं तेन भोजितम् ।
सुवर्णं रजतं वस्त्रं दद्याद् भक्त्या द्विजातिषु

88.22

तेन तृप्यन्ति ते देवा मनुष्याः पितरस् तथा ।
चन्द्रसूर्यग्रहे भक्त्या स्नानं कुर्वन्ति ये नराः

88.23

देवार्चनं च यः कुर्याज् जपं होमं विशेषतः ।
दह्याद् दानं यथाशक्त्या ब्राह्मणे वेदपारगे

88.24

अश्वरत्नं गजरत्नं तूलापुरुषम् एव च ।
यो दद्याच् छकटं तत्र सप्तधान्यप्रपूरितम्

88.25

युक्तं च लाङ्गलं दद्याद् युवानौ तु धुरन्धरौ ।
गोभूतिलहिरण्यं च पात्रे दातव्यम् ईप्सितम्

88.26

अपात्रे विदुषा किंचित् न देयं श्रेय इच्छता ।
सर्वभूतानि चात्मैव यतो धारयते मही

88.27

ततो विप्राय सा देया सर्वसस्यानुशालिनी ।
अन्यच् च शृणु राजेन्द्र गोदानस्य च यत्फलम्

88.28

यावद् वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते ।
तावद् गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति

88.29

येन केनाप्य् उपायेन ब्राह्मणाय समर्पयेत् ।
पृथ्वी दत्ता भवेत् तेन सशैलवनकानना

88.30

तारयन्ती च सा दत्ता कुलानाम् एकविंशतिम् ।
रौप्यखुरीं कांस्यदोहां सवत्सां च पयस्विनीम्

88.31

प्रयच्छन्ति जनाः पुण्या राहुग्रस्ते निशाकरे ।
सर्वस्यैव तु दानस्य संख्या चास्ति नराधिप

88.32

चन्द्रसूर्योपरागे च दानसंख्या न विद्यते ।
यत्र गावः प्रदृश्यन्ते सर्वतीर्थानि तत्र वै

88.33

तत्र यज्ञं विजानीयात् नात्र कार्या विचारणा ।
पुनः स्मृत्वा तु तत् तीर्थं गमनं कुरुते नरः

88.34

अथवा श्रूयते यस् तु रुद्रस्यानुचरो भवेत्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc