भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 87

87.1

इति श्रीस्कन्दपुराणे रेवाखण्डे शूलभेदोत्पत्तिर्नाम षडशीतितमो ऽध्यायः ॥
र्क्स् अध्याय 87
मार्कण्डेय उवाच:
उत्तानपादो राजेन्द्र पृच्छति स्म महेश्वरम् ।
सिद्धाश् च कीदृशा देव अपूज्याश् चैव कीदृशाः

87.2

श्राद्धे चैवाह्निके यज्ञे दाने चैव विशेषतः ।
एतद् आख्याहि मे देव कस्य दानं न दीयते

87.3

ईश्वर उवाच:
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
ब्राह्मणश् चानधीयानस्त्रयस्ते नामधारकाः

87.4

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस् तथा ।
अवकीर्णः कुण्डगोलौ श्राद्धे दाने न शुद्ध्यति

87.5

माहिष्यो वृषलः स्तेनो वार्धक्यो ऽथ विशेषतः ।
एते विप्राः सदा त्याज्याः पश्चान् मानं प्रशंसति

87.6

प्रतिग्रहं तु गृह्णाति कालज्ञानं विना द्विजः ।
तस्य दानं न दातव्यं वृथा भवति निष्फलम्

87.7

दरिद्रान् देहि राजंस् त्वं मा समृद्धान् कदाचन ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधम्

87.8

उत्तानपाद उवाच:
विधिश् च कीदृशी देव कथं श्राद्धस्य च क्रिया ।
दानं च दीयते येन तन् ममाख्यातुम् अर्हसि

87.9

देव उवाच:
श्राद्धं कृत्वा गृहे भक्त्या सुस्नातो विजितेन्द्रियः ।
वाग्यतस् तर्पयेत् तावद् यावत् संख्यामलङ्घयन्

87.10

शूलभेदं ततो गत्वा स्नानं कृत्वा यथाविधि ।
पञ्चस्थानेषु यः श्राद्धं हव्यकव्यादिभिश् चरेत्

87.11

पिण्डदानं च य कुर्यात् पायसैर् मधुसर्पिषा ।
तस्य तत्फलम् आप्नोति तस्मिंस् तीर्थे न संशयः

87.12

उपानहौ च यो दद्याद् ब्राह्मणेभ्यो विशेषतः ।
गच्छेद् विमानमारूढस् त्व् अमरैः परिवारितः

87.13

उत्तमं च गृहं दद्यात् सप्तधान्यैश् च पूरितम् ।
स स्वर्गलोके वसति काञ्चने भवनोत्तमे

87.14

तिलधेनुं च यो दद्यात् सवत्सां विधिपूर्वकम् ।
नाकपृष्ठे वसेत् तावद् यावद् आहूतसंप्लवम्

87.15

गृहे वा यदि वारण्ये तीर्थे वा कुपथेषु च ।
तोयम् अन्नं च यो दद्याद् यमलोकं न पश्यति

87.16

अक्षयं चान्नदानं च तोयभूमिस् तथैव च ।
अन्नदानात् परं दानं न भूतो न भविष्यति

87.17

उत्तानपाद उवाच:
कन्यादानं कथं देव कर्तव्यं कथयस्व तत् ।
प्रतिग्रहं तथा तोष्यं कन्योद्वाहम् उपस्करम्

87.18

दातव्यं कस्य वै दानं दत्तं भवति चाक्षयम् ।
उत्तमं मध्यमं वापि कनीयांसं कथंचन

87.19

राजसं तामसं वापि निःश्रेयसम् अथापि वा ।
ईश्वर उवाच:
सर्वेषाम् एव दानानां कन्यादानं विशिष्यते

87.20

यो दद्यात् परया भक्त्या अभिगम्य च यत्नतः ।
कुलीनस्य स्वरूपस्य गुणज्ञस्य विशेषतः

87.21

सुलग्ने च मुहूर्ते च दद्यात् कन्याम् अलंकृताम् ।
अश्वान् नागांश् च वासांसि यो दद्याच् चैव भक्तितः

87.22

तस्य वासो भवेत् तत्र पदं यत्र निरामयम् ।
येन सा दुहिता दत्ता प्राणेभ्यो ऽपि गरीयसी

87.23

तेन सर्वम् इदं दत्तं त्रैलोक्यं सचराचरम् ।
धनं कन्यार्थतः कल्प्यो न रोचयति दुर्मतिः

87.24

स भवेत् कर्मचाण्डालः कोशकारो भवेन् मृतः ।
कन्यार्थं याचते यस् तु स धनी निर्धनो ऽपि वा

87.25

अभोज्यो भवते मर्त्यः सर्ववस्तुषु वर्जितः ।
गृहे तस्य च यो ऽश्नीयाज् जिह्वालम्पटको नृप

87.26

चान्द्रायणेन शुद्धः स्यात् तप्तकृच्छ्रम् अथापि वा ।
राजोवाच:
वित्तं न विद्यते यस्य कन्योद्वाहे ऽवतिष्ठति

87.27

कथं चोद्वाहनं कुर्याद् एतद् आचक्ष्व मे प्रभो ।
देव उवाच:
स्ववित्तेनानुकर्तव्यं कन्योद्वाहनम् एव च

87.28

कन्या नाम समुच्चार्य न दोषो याचकस्य च ।
अभिगम्योत्तमं दानम् आहूतं चैव मध्यमम्

87.29

अधमं प्रोच्यमानं तु सेवादानं च निष्फलम् ।
असमर्थे न दातव्यं कन्यादानं तथैव च

87.30

समर्थस् तारयेद् विद्वान् काष्ठं क्षिप्तं यथा जले ।
यथा नौका तथा विद्वांस् तारयेत् परमं तटम्

87.31

आहिताग्निस् तु यो भूत्वा गृह्नञ् शूद्रप्रतिग्रहम् ।
इह जन्मनि शूद्रत्वं मृतः श्वा चोपजायते

87.32

वृथा क्लेशाश् च जायन्ते ब्राह्मणस्याग्निहोत्रिणः ।
असत् प्रतिग्रहं गृह्णन् नापदं च विना द्विजः

87.33

तत्सर्वं नाशयेत् तस्य भिन्ना नौका यथाम्भसि ।
अतिक्लेशवशार्जितं विनाशयति तत्क्षणात्

87.34

एवं दुःखार्जितं पुण्यं शूद्रे गच्छति नान्यथा ।
लक्षदाक्षिण्यलाभाय प्रदानं चापराधकम्

87.35

कीर्तिपात्रेषु यद् दत्तं वृथा भवति पार्थिव

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc