भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 86

86.1

इति श्रीस्कन्दपुराणे रेवाखण्डे ऽन्धकवरप्रदानो नाम पञ्चाशीतितमो ऽध्यायः ॥
र्क्स् अध्याय 86
मार्कण्डेय उवाच:
अन्धकस्य वरं दत्त्वा तेनैव सह शङ्करः ।
उमया सहितश्चापि कैलासं पर्वतं गतः

86.2

ततस् समागता देवा ब्रह्माद्यास् सह वासवाः ।
हृष्टपुष्टाश् च ते सर्वे महेश तं प्रणेमिरे

86.3

देव उवाच:
स्वागतं वो महाभागा ये केचित् त्व् इह चागताः ।
निहतो दानवस् तत्र भवदर्थे न संशयः

86.4

रक्तेन तस्य मे शूलं निर्मलं च न दृश्यते ।
कर्तव्यं किं मया चाद्य कथ्यतां हि पितामह

86.5

सुतस् तु भवतो ब्रह्मन् यश्चा ऽसौ निहतो मया ।
कर्तुमिच्छाम्यहं सम्यक् तीर्थयात्रां न संशयः

86.6

उत्थाय गम्यतां सर्वे ये केचित् त्व् इह चागताः ।
ततस् सर्वैः सुरैः सार्धं प्रभासं प्रति निर्ययौ

86.7

प्रभासाद् यानि तीर्थानि गङ्गासागरसङ्गमे ।
अवगाह्य तु सर्वाणि निर्मलत्वं न विद्यते

86.8

नीलीभूतं यथावस्त्रं सितत्वं नैव गच्छति ।
तथा कृष्णत्रिशूलस्य निर्मलत्वं न जायते

86.9

नर्मदा तु ततो गत्वा देवो देवैः समन्वितः ।
उत्तरं दक्षिणं कूलम् अवगाह्य प्रयत्नतः

86.10

गत्वा तु दक्षिणे कूले पर्वते भृगुसंज्ञिते ।
तत्र स्थित्वा महादेवो देवैः सह धरापते

86.11

मनोहरं तु तत्स्थानं सर्वेषां हि दिवौकसाम् ।
ज्ञात्वा तीर्थविशेषं तु स्थितो देवो महेश्वरः

86.12

गिरिं बिभेद शूलेन तेन भिन्नं रसातलम् ।
निर्मलं चाभवच् छूलं न लेपो दृश्यते क्वचित्

86.13

पातालान् निःसृता गङ्गा नाम्ना भोगवतीति सा ।
तत्र तीर्थं समुत्पन्नं शूलभेदेति विश्रुतम्

86.14

सूर्ये राहुगते तत्र महापुण्या सरस्वती ।
द्वितीयं सङ्गमं तत्र यथा वेणी सितासितम्

86.15

तत्र ब्रह्मा स्वयं देवो ब्रह्मेशं लिङ्गम् उत्तमम् ।
यस्य याम्यदिशाभागे स्वयं देवो जनार्दनः

86.16

विद्यते च स्वयं तत्र विष्णुः पीठेषु संस्थितः ।
शूलेन च कृता रेखा तत्र तोयवहा नृप

86.17

तत् तोयं च गतं तत्र यत्र रेवा नदीजलम् ।
तत्र लिङ्गं महापुण्यं चक्रतीर्थेति विश्रुतम्

86.18

शूलभेदे च देवेशः स्नानं कृत्वा यथा विधि ।
आत्मानं मन्यते शुद्धं न किंचित् कलुषं तनौ

86.19

तस्य चैवोत्तरे भागे देव देवं जगद्गुरुम् ।
शूलपाणिं ततः प्राप्य पूजयामास यत्नतः

86.20

सर्वतीर्थम् अयं तीर्थं सर्वतीर्थाधिकं परम् ।
सर्वपुण्याधिकं पुण्यं सर्वद्रुःखघ्नम् उत्तमम्

86.21

तत्र तीर्थं प्रतिष्ठाप्य देवदेवो जगद्गुरुः ।
रक्षकांस् तु ततो मुक्त्वा तत्र स्थाप्य विनायकम्

86.22

क्षेत्रपालशतं चाष्टौ तीर्थं रक्षन्ति यत्नतः ।
विघ्नानि तस्य कुर्वन्ति यस् तत्र स्थातुम् इच्छति

86.23

केचित् कुटुम्बचिन्तां तु केचिच् चिन्तां कृषीषु च ।
सेवां च कुर्वते केचिद् द्रव्यार्जनपरायणाः

86.24

परोक्षवादं कुर्वन्ति अन्ये हिसारता जनाः ।
परदारान् प्रसर्पन्ति अन्ये च वित्तचिन्तकाः

86.25

अन्ये ऽपि च वदन्त्य् एवं कथं तीर्थेषु गम्यते ।
क्षुधया पीड्यते भार्या ह्य् अपत्यानि तथैव च

86.26

मोहजाले निपतिताः पापाचाराश् च ये नराः ।
तेभ्यो रक्षन्ति तत् तीर्थं देवस्य च गणाः शुभम्

86.27

पुण्या जनाः स्थिरा ये च स्नानं तेषां च जायते ।
पयोष्ण्यां देवनद्यां च भोगवत्यां विशेषतः

86.28

एतच् च सङ्गमं पुण्यं यथा वेण्यां सितासिते ।
दृष्ट्वा तीर्थं तु ते सर्वे गीर्वाणा हृष्टमानसाः

86.29

देवस्य सन्निधो भूत्वा वर्णयन्ति परस्परम् ।
इदं तीर्थं च देवेश गयातीर्थसमं विदुः

86.30

गुह्याद् गुह्यतरं तीर्थं न भूतं न भविष्यति ।
शूलपाणिं समभ्यर्च्य ब्रह्माद्याश् च सुरैः सह

86.31

ये गणाश् चैव गन्धर्वा यमो वरुणवासवौ ।
नृत्यगीतैस् तथा स्तोत्रैः सर्वे चैव सुरासुराः

86.32

देवेन भोदितो यत्र शूलाग्रेण नृपोत्तम ।
त्रयो गर्तास् तु संजातास् तोयपूर्णा नराधिप

86.33

आर्यावर्ता नरश्रेष्ठ महाकुलिशलाञ्छिताः ।
सर्वपापक्षयकराः सर्वदुःखापहारकाः

86.34

तस्मिंस् तीर्थे नरः स्नात्वा उपवासपरायणः ।
दीक्षामन्त्रविहीनो ऽपि मुच्यते भवबन्धनात्

86.35

यः पुनर् विधिवत् स्नात्वा मन्त्रैः पञ्चभिर् एव च ।
वेदोक्तैः पञ्चभिर् मन्त्रैः सहिरण्यैर् घटैस् तथा

86.36

अक्षरैर् दशभिश् चैव पञ्चाक्षरैस् त्रिभिस् तथा ।
पृथग्भूतैर् द्विजातीनां तीर्थं शस्तं नराधिप

86.37

ब्रह्मक्षत्रविशां वापि शूद्रस्याथ स्त्रियास् तथा ।
ध्यात्वा देवत्रयं राजन् स्नानं चैव यथाविधि

86.38

दशाक्षरेण मन्त्रेण तोयं पिबति यो नरः ।
केदारे च यथा पीतं तथा कुण्डे न संशयः

86.39

पञ्चरेफसमायुक्तं क्षकाराक्षरभूषितम् ।
ओंकारद्वयसंयुक्तम् एतद् अत्रानुकीर्तनम्

86.40

यस् तत्र कुरुते स्नानं विधियुक्तो जितेन्द्रिय ।
तिलमिश्रेण तोयेन तर्पयेत् पितृदेवताः

86.41

कुलं तारयते विंशद्दशपूर्वान् दशापरान् ।
गङ्गायां पञ्चतीर्थे च श्राद्धं वै कुरुते तु यः

86.42

स तत्र फलम् आप्नोति शूलभेदे न संशयः ।
यस् तत्र विधिना युक्तो दानं दद्याच् च भक्तितः

86.43

तदक्षयं फलं तत्र कृतस्य सुकृतो ऽथवा ।
गयाक्षेत्रे यथापुण्यं सर्वकार्येषु चैव हि

86.44

शूलभेदे तथा पुण्यं स्नानदानादितर्पणैः ।
भक्त्या च यो ददात् यत्र कांचनं गां महीं जलम्

86.45

अन्नं कृषीभवं शय्यां वासांसि भूषणानि च ।
अन्नादिभिर् धनैश् चैव गृहं पूर्णं च सर्वतः

86.46

युग्ययुग्लाङ्गलं मुख्यं नवं चैव धुरन्धरौ ।
दानान्य् एतानि यो दद्याद् ब्राह्मणे वेदपारगे

86.47

श्रोत्रियं च कुलीनं च शुचिं च विजितेन्द्रियम् ।
ज्ञात्वा दानं च यो दद्यात् तस्यान्तो नैव विद्यते

86.48

त्रयोदशदिनेष्व् एकं त्रयोदशगुणं भवेत्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc