स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 85
इति श्रीस्कन्दपुराणे रेवाखण्डे ऽन्धकोपाख्याने चतुरशीतितमो ऽध्यायः ॥
र्क्स् अध्याय 85
मार्कण्डेय उवाच:
शङ्खं चक्रं गदां पाशं संगृह्य परमेश्वरः ।
उत्थितः शयनात् तूर्णं देवानां च जयप्रदः
केशव उवाच:
पाताले यदि वा स्वर्गे मर्त्ये वा यदि वा सुराः ।
अन्धकं तं वधिष्यामि येन सन्तापितास् सुराः
गच्छन्तु स्वगृहं देवास् सन्तोषे भावितात्मनः ।
विष्णोस् तु वचनं श्रुत्वा ब्रह्माद्यास् तु सवासवाः
स्वं स्वं यानं समारुह्य हृदि तुष्टा दिवं ययुः ।
ततो देवो माधवस् तु यत्र तिष्ठति चान्धकः
तत्र गत्वा हृषीकेश आग्नेयास्त्रं मुमोच ह ।
दृष्ट्वा ज्वलन्तं चाग्नेयं केशवेन विसर्जितम्
विसर्जयामास तदा वारुणं चास्त्रम् उत्तमम् ।
वारुणास्त्रेण बाणेन आग्नेय शोषितं तदा
अन्धकश् चिन्तयामास केन बाणो विसर्जितः ।
कस्येयं पौरुषी शक्तिः को यास्यति यमालयम्
ततो ऽन्धकः कोपयुक्तो बाणमार्गस्य संचरन् ।
दृष्ट्वा युद्धपथे प्राप्तं देवं तं चान्धको ऽब्रवीत्
न शर्म प्राप्नुषे चात्र मम दृष्ट्या निरीक्षितः ।
तथा न शक्नुषे त्वं तु शार्दूलाद् गवयो हरे
आगतं च यथाभक्षं मार्जारस्य च मूषकम् ।
तथा न शक्नुषे त्वं तु संस्थितो ऽपि ममाग्रतः
ततस् तु देव देवेशं शङ्खचक्रगदाधरम् ।
चतुर्भुजावदात् तं च द्वन्द्वयुद्धप्रदायिनम्
दृष्ट्वा गदाधरं देवं साष्टाङ्गं प्रणतो भुवि ।
अन्धक उवाच:
जय कृष्ण परस्त्वं हि विष्णो जिष्णो नमो नमः
हृषीकेशाय केशाय जगद्धात्रे ऽच्युताय च ।
नमः पङ्कजनाभाय नमः पङ्कजमालिने
जनार्दनाय देवाय पीताम्बरधराय च ।
गोविन्दाय नमो नित्यं नमश्चोदधिशायिने
नमः करालवक्त्राय नृसिंहाय निनादिने ।
शार्ङ्गिणे स्मितवक्त्राय शङ्खचक्रगदाभृते
नमो वामनरूपाय क्रान्तलोकत्रयाय च ।
नमो वराहरूपाय यज्ञरूपाय ते नमः
वासुदेव नमस्तुभ्यं नमः कैटभनाशिने ।
वसुदेवसुतश्चेश नमस्ते सुरनायक
विष्णो देवाधिदेवेश जगद्धातः प्रजापते ।
प्रणामं ये ऽपि कुर्वन्ति तेभ्यश् चापि नमो नमः
समस्तभूतदेवाय वासुदेवाय धीमते ।
तस्मै यज्ञवराहाय विष्णवे ऽमिततेजसे
गुणानां हि विधानाय नमस्ते ऽस्तु पुनः पुनः ।
देव उवाच:
तुष्टो ह्य् अहं दानवेन्द्र वरं वृणु यथेप्सितम्
ददामि ते वरं चाद्य याचमानस्य साम्प्रतम् ।
अन्धक उवाच:
यदि तुष्टो ऽसि मे देव वरं दातुम् इहेच्छसि
तदा ददस्व मे देव युद्धं परमशोभनम् ।
श्रीभगवान् उवाच:
कथं ददामि ते युद्धं तोषितो ऽहं त्वया पुनः
न त्वां प्रति भवेत् कोपः कथं युध्ये ऽहम् अन्धक ।
यदि ते वर्तते बुद्धिर् युद्धं प्रति न संशयः
तर्हि त्वं गच्छ शीघ्रं वै देवं प्रति महेश्वरम् ।
अन्धक उवाच:
प्रसादात् तस्य देवस्य विजयी भुवनत्रये
कथं युद्धं चरे तेन शङ्करेण वदस्व नः ।
एतच् छ्रुत्वा दानवस्य भगवान् अब्रवीद् इदम्
अहं ते कथयिष्यामि येन युद्धं त्वया सह ।
कैलासशिखरं गत्वा धुनु तं च पुनः पुनः
धुनिते पर्वते तस्मिन् कम्पितं भुवनत्रयम् ।
पतन्ति शिखराग्राणि शीर्यमाणान्यनेकशः
चत्वारः सागरा राजन्नेकीभूताः समन्ततः ।
उमया सहितो रुद्रो विषयासक्तचेतनः
कम्पमानश् च पतितः पार्वत्या सह शङ्करः ।
गाढमालिङ्ग्य देवेशम् उमा वचनम् अब्रवीत्
किमर्थं कम्पते शैलः कथं वै कम्पते धरा ।
पातालानि तु सप्तैव कम्पते स्वर्गसप्तकम्
किं वा युगक्षयो देव तन् ममाख्यातुम् अर्हसि ।
महेश्वर उवाच:
कस्यैषा दुर्मतिर् जाता ऽपि पार्श्वचरस्य नु
ललाटे चेद् अयं भग्नः प्रयास्यति यमालयम् ।
कैलासे संस्थितो ध्याने सुप्तो ऽहं प्रतिबोधितः
वधिष्ये तं न सन्देहः षण्मुखो वा भवेद् यदि ।
ततः स चिन्तयामास जानातीत्यन्धको ऽप्य् अयम्
उपायं चिन्तयामास येनासौ वध्यते क्षणात् ।
ततस् समागता देवा इन्द्रब्रह्मपुरोगमाः
रथं देवमयं कृत्वा सर्वलक्षणसंयुतम् ।
केचिद् देवाः स्थिताश् चक्रे केचित् तुण्डाग्रसंस्थिताः
केचिदक्षे स्थिता राजन् युगरश्मिषु संस्थिताः ।
रथस्तम्भे ध्वजाग्रे तु केचिद् अन्यत्र संस्थिताः
एवं देवमयं कृत्वा समारूढो जगत्प्रभुः ।
निर्ययौ दानवो यत्र क्रोधेना ऽपि महेश्वरः
दानवानर्दयामास आकाशं चाशुमान् इव ।
न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः
ततो दानवराजेन आग्नेयास्त्रं सुयोजितम् ।
दह्यमानं शरैस् तत्र सर्वं गीर्वाणमण्डलम्
दह्यमानाः शरैश् चैवं देवं शरणमाययुः ।
ततो देवाधिदेवेन वारुणास्त्रं विसर्जितम्
वारुणास्त्रेण तेनैव आग्नेयास्त्रं प्रशामितम् ।
दानवेन ततो मुक्तं वायव्यास्त्रं नृपोत्तम
पन्नगास्त्रं च देवो ऽपि कोपाविष्टः प्रमुक्तवान् ।
मारुतो भक्षितः सर्पैः क्रोधाविष्टैर् न संशयः
दानवेन तदा मुक्तं गरुडास्त्रं बलीयसा ।
तेन तच् छतधा नीतं पन्नगास्त्रं न दृश्यते
ततो देवाधिदेवेन नारसिंहं विसर्जितम् ।
अस्त्रैरस्त्राणि संवार्य युध्येते च परस्परम्
समं युद्धम् अभूत् तात सुरासुरभयङ्करम् ।
चक्रेणालीकनाराचैस्तोमरैः खड्गमुद्गरैः
वत्सदन्तैस् तथा भल्लैः कर्णिकारैश् च शोभनैः ।
एवं न शक्यते हन्तुं दानवैर् विविधायुधैः
ततो दंष्ट्राकरालेन खड्गनाराचतोमरैः ।
श्वश्रून् दृष्ट्वा यथा याति लज्जमाना ह्य् अधोमुखी
न संस्पृशन्ति गात्राणि शस्ता गौडवधूर्यथा ।
आयुधानि ततस् त्यक्त्वा बाहुयुद्धम् उपस्थितौ
करैः करांस् तु संगृह्य प्रहरन्तौ हि मुष्टिभिः ।
बन्धैः करप्रहाराद्यैर् युध्येते स्म परस्परम्
दानवो ऽपि च तं देवं कक्षान्तरम् अपीडयत् ।
निश्चेष्टश् च तदा देवो मूर्छितस् तु महेश्वरः
मूर्च्छागतं तु तं ज्ञात्वा चिन्तयामास दानवः ।
हा हा कष्टं कृतं वाद्य पापेन च दुरात्मना
किं नु कार्यं मया चात्र कथं वापि व्रजाम्य् अहम् ।
तं गृहीत्वाथ देवेशं गतः कैलासपर्वतम्
मुक्त्वा शयानम्मुच्चेतम् अन्धको ऽपि ययौ क्षणात् ।
ततस् स चेतनो भूत्वा देवदेवो महेश्वरः
यावत् पश्यति चात्मानं स्वकीये भवने स्थितम् ।
तावत् स चिन्तयामास पराभूतो दुरात्मना
क्रोधवेगसमाविष्टो निर्ययौ दानवं प्रति ।
आयसं लगुडं धृत्वा प्रभुर् भारसहस्रकम्
दानवं दृष्टवान् देवः प्राक्षिपत् तस्य मूर्धनि ।
खड्गेन ताडयामास दानवः प्रहसन् रणे
गृहीत्वा देव देवेशः कौवेरं बाणमुत्तमम् ।
हृदये ताडयामास ज्वलितेन च तत्क्षणात्
ततस् स दानवस् तत्र रुधिरोद्गारमुद्गिरन् ।
अधोमुखस् ततो भूत्वा शूलेन विदलीकृतः
शूलाग्रविक्षतः पापश् चक्रवद् भ्रमते तदा ।
ये तु भूमौ पतन्ति स्म देहतो रक्तबिन्दवः
तेभ्य उदभवन् पापा दानवाः शस्त्रपाणयः ।
व्याकुलश् च ततो देवो दानवैश् च पुनः पुनः
देवेन संस्मृता दुर्गा चामुण्डा भीषणा तदा ।
आगता भीषणा देवी आयुधायुतसंयुता
महादंष्ट्रा महाकाया पिङ्गाक्षी लम्बकर्णिका ।
उवाच देवी देवेशं समादिश महेश्वर
देव उवाच:
पिब त्वं रुधिरं भद्रे यथेष्टं दानवस्य च ।
पतितं च पृथिव्यां तु दुर्गे यत्नाद् गृहाण तत्
दानवस्य वधे चाद्य सहायं कर्तुम् अर्हसि ।
ततो हताश् च ते सर्वे खड्गेनापि सहस्रशः
अन्धको ऽपि च तान् दृष्ट्वा दानवान् निधनं गतान् ।
ततो वाग्भिः सुपुष्टाभिः स्तुवन् देवं महेश्वरम्
तिष्ठ तिष्ठेति देवेशं चण्डीं प्रति महाबलः ।
शूलविक्षतरन्ध्रेण रक्तं वै स्रावयन् बहु
पृथिवीं पूरयामास चतुः सागरमेखलाम् ।
अन्तरिक्षे स्थितेनापि शूलाग्रे संस्थितेन च
स्कन्धे धृतेन देवेन रुधिरौघप्रवर्षिणा ।
पृथिवी पूरिता तेन सशैलवनकानना
रुधिरेण कटिं यावद् वारितो ऽपि महेश्वरः ।
ततो हृदयपर्यन्तं देवस्य च समागमत्
व्याकुलाश् च ततो देवाः प्रणष्टाश् च दिशं गताः ।
स तु स्वस्य शरीरस्य अङ्गान्य् अष्टौ व्यमर्दयत्
अष्टौ भैरवरूपाश् च समुत्पन्ना महेश्वरात् ।
दंष्ट्राकरालिनः सर्वे हाहाकारं प्रकुर्वतः
खर्पराग्रकरास् सर्वे खड्गिनः कर्तिनस् तथा ।
पिबन्तु रुधिरं सर्वम् इत्याह परमेश्वर
पीतं तु तैश् च रुधिरं क्षीणं रक्तं स्थितं स्थलम् ।
शरीरं शोषितं तस्य अस्थिचर्मावशेषितम्
दानवश् चान्धकः प्राह अन्तरिक्षचरस् तथा ।
अन्धक उवाच:
जयदेव जगन्नाथ उमाङ्गार्धशरीरभृत्
वृषभासनमारूढ शशाङ्ककृतशेखर ।
जयखट्वाङ्गहस्ताय गङ्गां शिरसि धारिणे
स्मरप्रमथनायेह ईश्वराय नमो ऽस्तु ते ।
पूष्णोदन्तविनाशाय गणनाथ नमो नमः
जय सुरूपदेहाय अरूपाय नमो नमः ।
ब्रह्मोत्तमाङ्गनाशाय विश्वेश्वर सनातन
श्मशानवासिने नित्यं नित्यं भैरवरूपिणे ।
त्वं सर्वगश् च कर्ता त्वं त्वं हर्ता नान्य एव च
त्वं भूमिस् त्वं दिशश् चैव ज्योतिस् त्वं तेजसस् तथा ।
त्वं वायुः सर्वभूतानां जन्तुरूपो महेश्वरः
त्वं सोमस्त्वं बुधश् चैव त्वं गुरुर्भार्गवस् तथा ।
सौरिस्त्वं देवदेवेश भूमिपुत्रस् तथैव च
ऋक्षाणि यानि दृश्यन्ते गगने शशिभास्करौ ।
एतान्य् एव च सर्वाणि त्वत्प्रसादान् महेश्वर
एवं बहुविधं स्तुत्वा देवदेवं स दानवः ।
संहताभ्यां च हस्ताभ्यां तं प्रणम्य महेश्वरम्
शङ्कर उवाच:
साधु साधु महासत्त्व वरं याचस्व दानव ।
दाताहं याचकस् त्वं तु ददामीति यथेप्सितम्
अन्धक उवाच:
यदि तुष्टो ऽसि देवेश यदि देयो वरो मम ।
तदात्मनः समीपे ऽहं स्थापितव्यो हि नान्यथा
भस्मी जटी त्रिशूली च त्रिनेत्री च चतुर्भुजः ।
व्याघ्रचर्मोत्तरीयश् च नागयज्ञोपवीतकः
एतदिच्छाम्य् अहं सर्वं यदि दास्यसि शङ्कर ।
शूलाग्रस्थो वदद् यावत् तावत् तुष्टो महेश्वरः
ईश्वर उवाच:
ददामि ते वरं चाद्य यस् त्वया परिभाषितः ।
मया त्वम् उदितः पूर्वं भृङ्गिरीटिर् भविष्यसि
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0