स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 84
इति श्रीस्कन्दपुराणे रेवाखण्डे रमेश्वरहरिणेश्वरलुब्धकेश्वरधनुरीश्वरबाणेश्वरकथनो नाम त्र्यशीतितमो ऽध्यायः ॥
र्क्स् अध्याय 84
मार्कण्डेय उवाच:
तत्र स्नात्वा तु भक्त्या य उपवासपरायणः ।
क्षपाजागरणं कुर्याद् दद्याद् दानं च यत्नतः
देवस्य स्नपनं कुर्याद् अमृतैः पञ्चभिस् तथा ।
समालभेद् यथाशक्त्या पूजां कृत्वा विधानतः
पात्रं परीक्ष्य दातव्यम् आत्मनः श्रेय इच्छता ।
पितरस् तस्य तृप्यन्ति द्वादशाब्दं न संशयः
गच्छति तत्र दाता च यत्र देवो निरञ्जनः ।
गृहमध्ये प्रविष्टस् तु स्मरन् नामास्य शक्तितः
नीलाद्रौ तु च यत्पुण्यं तत् समस्तं लभेत सः ।
शूलभेदे च यः कुर्याच् छ्राद्धं पर्वणि पर्वणि
विशेषाच् चैव मासान्ते तस्य पुण्यफलं शृणु ।
केदारे चैव यत्पुण्यं कुब्जायां च तथा नृप
कनखले चैव यत् पुण्यं गङ्गासागरसङ्गमे ।
सितासिते तु यत् पुण्यम् अन्यतीर्थे विशेषतः
अर्बुदे चैव यत्पुण्यं पुण्यम् चामरपर्वते ।
गङ्गाद्यैः सर्वतीर्थैश् च फलं प्राप्नोति मानवः
अस्मिंस् तीर्थे तथा पुण्यं लभते नात्र संशयः ।
विधिमन्त्रसमायुक्तं तर्पयेत् पितृदेवताः
कुलानि तारयत्येव दश पूर्वापराणि सः ।
दक्षिणां चैव मर्त्यश् च शुचिर् भूत्वा समाहितः
न्यासं कृत्वा तु पूर्वोक्तं प्रदद्याद् अष्टपुष्पकम् ।
शास्त्रोक्तैर् अष्टभिर् मन्त्रैर् मानसैः शृणु तांस् तथा
वारिजं सौम्यम् आग्नेयं वायव्यं पार्थिवं पुनः ।
वानस्पत्यं भवेत् पुष्पं प्राजापत्यं तु सप्तमम्
अष्टमं शिवपुष्पं च शृण्व् एतेषां विनिर्णयम् ।
वारिजं सलिलं ज्ञेयं सौम्यं मधुयुतं पयः
आग्नेयं धूपदीपं च वायव्यं चन्दनादिकम् ।
पार्थिवं कन्दमूलाद्यं वानस्पत्यफलात्मकम्
प्राजापत्यम् अन्नाद्यं च शिवपुष्पम् उपासनम् ।
अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः
तृतीयं च दयापुष्पमेभिस् तुष्यन्ति देवताः ।
तपसा चार्चयेद् भक्त्या अत्र तीर्थे नराधिप
छत्रं च चामरं दद्याच् छय्यां चोपानहौ तथा ।
तेन पूजनमात्रेण पूजिताः पुरुषास् त्रयः
स्वर्गलोके वसेत् तावद् यावद् आहुत संप्लवम् ।
शूलपाणेस् तु यो भक्त्या स्नपनं चैव कारयेत्
पञ्चामृतेन यश्चैव यक्षकर्दमकुंकुमैः ।
समालभेच् च देवेशं श्रीखण्डैरगरादिभिः
नानाविधैश् च पुष्पैश् चार्चां कुर्वन्ति ये द्विजाः ।
रुद्रं पुरुषसूक्तं च लोके यः स्वस्वसूत्रकम्
इषे त्वादिकमन्त्रादि ज्योतिर् ब्राह्मणम् एव च ।
गायत्री च मधुश्चैव मण्डलब्राह्मणम् एव च
एतज् जपं तु ये भक्त्या यजुर्वेदसमुद्भवम् ।
देवव्रतं नाम दैव्यं पुरुषास् तत्पुरं ययुः
आसीत् पुरा महाराज अन्धको नाम दुर्जय ।
आराधयामास शिवं चिरकालम् उपस्थितः
प्रसन्नो भगवान् देवो वरं याचस्व सुव्रत ।
वरं लब्ध्वा तदा दैत्यो ऽधावत् सहर्षतो ऽन्धकः
पुरे जनाश् च दृश्यन्ते भाजनैर् रत्नपूरितैः ।
साक्षतैर् भाजनैस् तस्य शतसाहस्रयोषितः
मन्त्रान् पठन्ति विप्राश् च माङ्गल्यनिस्वनेन च ।
भूपं चामात्यभृत्यैश् च राज्याश्वरथदन्तिभिः
वर्धापयन्ति ते सर्वे ये केचित् पुरवासिनः ।
हृष्टः पुष्टो वसंस् तत्र स सुरैर् नाभिभूयते
वरलब्धं तु तं ज्ञात्वा गीर्वाणाः शङ्कितास् तदा ।
एकीभूताश् च ते सर्वे शक्रस्य शरणं ययुः
समागतान् सुरान् दृष्ट्वा शक्रो वचनम् अब्रवीत् ।
कथं समागतास् सर्वे यूयं च त्रिदिवौकसः
कथं च भयम् उत्पन्नं कथयध्वं महासुराः
देवा ऊचुः:
मृत्युलोके ऽभवत् पापस् त्व् अन्धको नाम दुर्मदः
तस्माच् च भयमापन्ना भवच् छरणम् आगताः ।
एतस्मिन्न् अन्तरे रौद्रो दानवो बलदार्पितः
एकाकी स्यन्दनारूढ आयुधैर् विविधैर् युतः ।
अन्धको राजशार्दूल ययौ शक्रपुरीं ततः
स्वर्णप्राकारसंयुक्तां शोभितां विविधैर् गृहैः ।
दुर्गमां शत्रुवर्गस्य सदा पार्थिवसत्तम
प्रविवेशासुरस् तत्र लीलया स्वगृहं यथा ।
समुत्थाय ततः शक्रः स्वकीयंचासनं ददौ
उपविष्टो ऽन्धकस् तत्र शक्रस्यैवासने शुभे ।
शक्र उवाच:
किं वो ह्य् आगमनं चात्र किं कार्यं कथयस्व मे
यदस्मदीयं वित्तं च तत्ते दास्यामि दानव ।
अन्धक उवाच:
न चाहं कामये वित्तं न गजान् न तुरंगमान्
स्वकीयं दर्शयस्वाद्य स्वर्गशृङ्गारभूमिकम् ।
ऐरावतं महानागं सैन्धवोच्चैः श्रवोहयम्
उर्वश्यादीनि सर्वाणि वादित्रत्रितयानि च ।
अन्याः स्वीया विभूतीश् च दर्शयस्व शचीपते
तस्यैतद् वचनं श्रुत्वा शक्रो ऽपि भयविह्वलः ।
सर्वाणि च पदार्थानि दर्शयामास चान्धकम्
तदागत्य सुरैः सार्धं यक्षगन्धर्वकिन्नरैः ।
नृत्यन्त्य् अप्सरसस् तत्र वादित्रैर् विविधैर् नृप
तत् तस्य विभ्रमच् चित्तं दृष्ट्वाप्य् अप्सरसस् तदा ।
तेन देवगणास् सर्वे त्रस्ताः पार्थिवसत्तम
संग्रामैर् विविधैस् तत्र चक्रवज्रारिभीषणैः ।
सन्तापिताः सुरास् सर्वे क्षयं नीता ह्य् अनेकशः
आदित्य मरुताद् याश् च भग्नास् संग्राममण्डले ।
यथा सिंहकराक्रान्ताः श्वापदा व्यचरन् वने
तद् वद् एकेन ते देवाः कृतास् सर्वे पराङ्मुखाः ।
बलाद् देशेषु ग्रामेषु प्रजाः पीडयते ऽनिशम्
आकम्प्य गृह्यते क्षीरं शाकं वासस् तथैव च ।
न सम्माने वचस् तेषां प्रजासन्तापने रतः
गृहीत्वा शक्रभार्यां च दानवो ऽपि गृहं गतः ।
ततः सुराश् च शक्रश् च ब्रह्माणं शरणं ययुः
गजैश् च पर्वताकारैर् अश्वैश् चैव गजोपमैः ।
स्यन्दनैर् गगनाकारैः सिंहशार्दूलयोजितैः
कच्छपैर् मकरैश् चापि मृगमेषैस् तथोरगैः ।
ब्रह्मलोकमनुप्राप्ता देवाश् चेन्द्रपुरोगमाः
दृष्ट्वा पद्मोद्भवं देवं प्रणम्येशं प्रतुष्टुवुः ।
जयदेव जगन्नाथ जयसंभूति कारक
पद्मयोने सुरश्रेष्ठ त्वाम् एव शरणं गताः ।
सोद्वेगं भाषितं श्रुत्वा देवानां भावितात्मनाम्
मेघगम्भीरया वाचा ब्रह्मा प्रोवाच वासवम् ।
किं वो ह्यागमनं देवास् सर्वेषां वै विवर्णता
केनावमानितास् सर्वे तत्सर्वं मे निवेद्यताम् ।
देवा ऊचुः:
अन्यको नाम नाम्नेति दानवो बलदर्पितः
तेन देवगणास् सर्वे धनरत्नैर् विवर्जिताः ।
हत्वा देवगणान् नाथ पर्शुचक्रासितोमरैः
गृहीत्वा शक्रभार्यां वै दानवो विगतो बलात् ।
ततः श्रुत्वा वचस् तेषां ब्रह्मा लोकपितामहः
चिन्तयामास भगवान् वधं तस्य तु रक्षसः ।
अवध्यो दानवः पापः सर्वैर् अपि सुरासुरैः
ततः प्रतुष्टुवुः सर्वे देवाः शक्रपुरोगमाः ।
जय त्वं देव देवेश लक्ष्म्या चार्धशरीरवान्
आशु रक्षय देवेश तस्मात् ते शरणं गताः ।
जनार्दन उवाच:
स्वागतं वो महाभागा ब्रुवतां चैव स्वागतम्
किं कार्यं प्रोच्यतां सर्वं कारणं यन्मयेप्सितम् ।
पराभवः कृतो येन स गच्छतु यमालयम्
एवमुक्तास् सुरास् सर्वे कथयन्ति स्म तत्त्वतः ।
प्रदर्शयन्ति चाङ्गानि वेपमानास् त्व् अधोमुखाः
हृतराज्याः कृता नाथ अन्धकेन पराजिताः
पितेव पुत्रान् परिरक्ष देव जहीह शत्रुं सह पुत्रगोत्रैः ।
तथेति चोक्त्वा कमलासनं प्रभुः सुरासुरैर् वन्दितपादपीठः
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0