स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 83
इति श्रीस्कन्दपुराणे रेवाखण्डे मृकण्डाश्रमकीर्तनो नाम द्व्यशीतितमो ऽध्यायः ॥
र्क्स् अध्याय 83
मार्कण्डेय उवाच:
ततो ऽन्यत् परमं तीर्थं चन्द्रमत्यास् तु सङ्गमे ।
चन्द्रेश्वरं सिद्धलिङ्गं तथा सिद्धेश्वरं पुनः
घण्टेश्वरं महिषेशम् अश्वतीर्थम् अतः परम् ।
वृषसेनं हयग्रीवं शुकतीर्थम् अतः परम्
रमेश्वरं ततो गच्छेत् तीर्थं पापप्रणाशनम् ।
मेकलायास् तटे राजन् महापातकनाशनम्
यदा दारुवने पूर्वं महादेवेन मोहिताः ।
ब्राह्मणानां स्त्रियस् तत्र रममाणाः समागताः
चिन्तयन्त्यश् च ता मोक्षं मेकलातीरम् आश्रिताः ।
ताभिश् च रममाणाभिर् आवृतं शिवपूजनम्
नीलोत्पलदलैर् बिल्वैर् मल्लिकाजातिकुन्दकैः ।
शून्यं प्रपूजितं यावत्तावल् लिङ्गं समुत्थितम्
पातालादागतं लिङ्गं ज्वलत् कालानलप्रभम् ।
रमेश्वरेति विख्यातं रममाणात् समुत्थितम्
स्त्रीणां उवाच देवेशः शापमोक्षो भवत्व् इति ।
गच्छन्तु सर्वाः स्वगृहं साम्प्रतं गतकल्मषाः
इत्युक्त्वा देवदेवेशस् तत्रैवान्तरधीयत ।
तस्मिंस् तीर्थे नरः स्नात्वा स भवे न पुनर्भवेत्
अनाशकेन चाग्नौ हि ये मृता न पुनर्भवाः ।
तिलोदकं पितॄणां तु पिण्डदानं यथाविधि
श्राद्धेनैव च दानेन पितॄणां परमा गतिः ।
इन्द्रेण ब्रह्मणा पूर्वं विष्णुना धनदेन च
रक्षसा रावणेनाथ तथा चेन्द्रजिता नृप ।
जपो जप्तस् तपस् तप्तं यज्ञानि विविधानि च
कृतानि नृपशार्दूल गता हि परमां गतिम् ।
अन्यच् च कथयिष्यामि हारिणं तीर्थम् उत्तमम्
हरिणेशं सिद्धलिङ्गं तथा वै धनुरीश्वरम् ।
बाणेश्वरं परविद्धि तथा वै लुब्धकेश्वरम्
लिङ्गरूपाणि पूजयित्वा शिवं व्रजेत् ।
आख्यानं कथयिष्यामि पुरावृत्तं युधिष्ठिर
अर्जुनो लुब्धको नाम मन्दजातिसमुद्भवः ।
पर्यटन् मृगयां राजन् नर्मदातीरमागतः
दृष्ट्वा यूथं मृगाणां तु धावमानः पुनः पुनः ।
पलायमानाः सर्वे ते एकः पश्चात् स्थितो मृगः
हतो मध्यदिने सो ऽद्य कुरङ्गो नर्मदातटे ।
पतितो ऽसौ गतप्राणो दिव्यदेहधरः पुनः
विमाने हंसयुक्ते वै ब्रह्मलोकं जगाम ह ।
गते तु हरिणे सो ऽथ लुब्धकश् चिन्तयान्वितः
महापापान्य् अनेकानि कृतानि तु मया पुनः ।
का गतिं याम्यहं चाथ श्रेयसे मरणं मम
चिन्तयित्वा ततो राजन् पतितो नर्मदाजले ।
तत्क्षणाद् दिव्यदेहो ऽसौ गन्धर्वपुरम् आययौ
गते तस्मिन् देवलोके धनुर्बाणौ जले स्थितौ ।
चत्वार्य् एतानि लिङ्गानि ख्यातानि भुवनत्रये
हरिणेश्वरं च बाणेशं लुब्धेशं धनुरीश्वरम् ।
रमेश्वरं पञ्चमं तु पञ्चलिङ्गानि कीर्तयेत्
न तस्य पुनरावृत्तिर् घोरे संसारसागरे ।
तस्मिंस् तीर्थे नरो राजन् स्नात्वा शिवपुरं व्रजेत्
ब्रह्महत्यादि पापानि विलयं यान्ति पार्थिव ।
अनाशके चार्धजले मृतः शिवमवाप्नुयात्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0