स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 82
इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चलिङ्गमहिमानुवर्णनो नामैकाशीतितमो ऽध्यायः ॥
र्क्स् अध्याय 82
मार्कण्डेय उवाच:
अथान्यत् कथयिष्यामि तीर्थं पापप्रणाशनम् ।
मयूरकुक्कुटं नाम ब्रह्महत्या व्यपोहनम्
मृकण्डस्याश्रमं पुण्यं नर्मदादक्षिणे तटे ।
मृकण्डो नाम भूपाल ऋषिः परमधार्मिकः
तपस् तेपे महाभाग दिव्यैर् वर्षसहस्रकैः ।
तस्याश्रमपदे रम्ये मुनयः शंसितव्रताः
वसन्ति स्म जलाहाराः शुष्कपत्रकृताशनाः ।
केचित् तन्न निराहारा मोक्षोपायविचिन्तकाः
एतस्मिन्न् अन्तरे राजन् गन्धर्वौ शक्रगायनौ ।
हेतिप्रहेतिनामानौ गतौ शक्रसभां नृप
वधूरप्सरसां श्रेष्ठा दृष्टा ताभ्यां युधिष्ठिर ।
दृष्टमात्रौ तु गन्धर्वौ कामबाणप्रपीडितौ
हेतिः कुक्कुटशब्देन प्रहेतिर् बर्हिणस् तथा ।
घोष्यमाणौ सुमधुरं सादयामास तु च ताम्
वृत्रहा तद् अभिप्रायं ज्ञात्वा शापं ददौ तवा
पूर्णे दिव्यशते वर्षे पश्चाद् अत्रागमिष्यथः ।
तिर्यग्योनौ तु संप्राप्तौ गन्धर्वौ हि युधिष्ठिर
जातिस्मरौ दुराचारौ पक्षिणौ प्रियदर्शीनौ ।
सर्वतीर्थान्य् उत्तरन् तौ नारदं च ददर्शतुः
गन्धर्वाव् ऊचतुः:
भविष्यावः शुभाचार ब्रह्मपुत्र तपोधन ।
कर्मणा केन चावां हि मुक्तावेतौ वदस्व तत्
नारद उवाच:
नर्मदा दक्षिणे तीरे मृकण्डस्याश्रमं शुभम् ।
तिर्यग्योनिविमोक्षं च तीर्थं हि परमं मतम्
जलाप्लुतौ नर्मदायाः सर्वं तत्र भविष्यति ।
ततो हेतिः प्रहेतिश् च सुस्नातौ दिव्यरूपिणौ
एकेन स्नानमात्रेण पक्षिणौ दिव्यतां गतौ ।
स्नात्वा तु विधिना ऽनेन ध्यात्वा देवं सदाशिवम्
उच्चार्य्याघोरमन्त्रं तौ सदा ध्यानस्थितौ नृप ।
एतस्मिन्न् अन्तरे राजन् पातालादुत्थितं शुभम्
शतसूर्यप्रकाशं हि लिङ्गं तत्र युधिष्ठिर ।
कुक्कुटेश्वरम् एकं तु मयूरेश्वरम् एव च
गन्धर्वौ तु विमानस्थौ गतौ शक्रस्य मन्दिरम् ।
तस्मिंस् तीर्थे नरः स्नात्वा भवे नैव पुनर् भवेत्
स्नात्वा तिलोदकं दत्त्वा पितॄणां परमा गतिः ।
अवशः स्ववशो ऽवापि यस्तु प्राणान् परित्यजेत्
न तस्य पुनरावृत्तिर् घोरे संसारसागरे ।
तत्र कीटाः पतङ्गाश् च पक्षिणो ऽथ सरीसृपाः
मण्डूकाः पापवृक्षाश् च मृता यान्ति शिवं पदम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0