स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 81
इति श्रीस्कन्दपुराणे रेवाखण्डे गुह्यावतीतीर्थमहिमानुवर्णनो नामाशीतितमो ऽध्यायः ॥
र्क्स् अध्याय 81
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र उत्तरे नर्मदातटे ।
मेघनादसमीपे तु विश्वरूपा सरिद्वरा
निर्गता विश्वरूपस्य शरीराद् उपकुर्वतः ।
पुरा दारुवने देवो लिङ्गहीनः कृतो द्विजैः
नर्मदातटम् आश्रित्य तपः कुर्वंस् तदा नृप ।
विश्वरूपो ऽभवद् देवो निर्गता सरितां वरा
गता सा नर्मदातोयं सङ्गमो गुणवान् अभूत् ।
तस्मिंस् तीर्थे नरः स्नात्वा स भवे न पुनर् भवेत्
तत्र यत् क्रियते कर्म सर्वं तदक्षयं भवेत् ।
सारिका सिद्धिम् आयाता पतिता तीर्थसङ्गमे
पूर्वम् अप्सरसां श्रेष्ठा शक्रशापाद् अकामतः ।
चित्राङ्गदेन रमिता काचित् कष्टमवाप ह
सारिका भव कल्याणि वर्षाणां सा ऽग्रविंशतिम् ।
मृत्वा त्वं नर्मदातोये विश्वरूपा सुसङ्गमे
विचित्रा बहुचार्वङ्गी सञ्जाता सारिका नृप ।
जातिस्मरा सुराभावा नर्मदातटम् आश्रिता
ततः काले च संप्राप्ते प्रज्वाल्य पावकं शुभम् ।
प्रविष्टा सा शुभाचारा विश्वरूपा सुसङ्गमे
दिव्यदेहधरी राजन् प्राप्ता शक्रस्य मन्दिरम् ।
एतद् अन्तरम् आसाद्य सारिकातीर्थमुच्यते
तत्र यत् क्रियते कर्म श्राद्धं यज्ञः शिवार्चनम् ।
सर्वं कोटिगुणं विद्यान् मेघनादस्य दर्शनात्
अवशः स्ववशो वापि यस् तु प्राणान् परित्यजेत् ।
न तस्य पुनरावृत्तिर्घोरे संसारसागरे
ख्यातानि पञ्चलिङ्गानि यानि दृष्ट्वा शिवं व्रजेत् ।
मानवो मनुजश्रेष्ठ शृणु तानि युधिष्ठिर
मेघनादं च गोष्ठेशं वागीशं काकडेश्वरम् ।
लक्षेश्वरं पञ्चलिङ्गान्य् एकाहे यस् तु पूजयेत्
अनेनैव शरीरेण स नरो हि शिवं व्रजेत् ।
कोटियज्ञफलं प्राप्य पश्चान् मोक्षमवाप्नुयात्
आख्यानं कथयिष्यामि पुरावृत्तं तवानघ ।
धर्मसेनः पुरा राजा अयोध्याधिपतिर्बली
धर्मेण राज्यं कृतवान् यज्ञांश् च बहुदक्षिणान् ।
शृण्वन् स धर्मशास्त्राणि नर्मदाचरितं तथा
श्रुत्वा विनिर्गतो राजा रेवाया उत्तरे तटे ।
मेघनादं समभ्यर्च्य स्नात्वा वै नर्मदाजले
उद्गच्छति दिनकरे अश्वारूढो नरेश्वरः ।
उत्तरां दिशमाश्रित्य गतो गोष्ठेश्वरं शिवम्
यथाविधानं सम्पूज्य वागीश्वरं गतस् ततः ।
तत्र स्नात्वा विधानेन पूजयित्वा शिवं नृपः
चन्दनागुरुकर्पूरैर् धूपैर् दीपैर् विधानकैः ।
अश्वारूढो नृपश्रेष्ठः काकडेश्वरम् आगतः
तं प्रपूज्य ततो राजा गत्वा वै नार्मदे जले ।
लक्षेश्वरं पूजयित्वा स्थितं वै विधिपूर्वकम्
मेघनादं ततो गत्वा सूर्यश्चास्तम् उपागमत् ।
ध्यात्वा स्वयं कालरूपं यावत् तिष्ठति वै नृपः
तावद् घोरो ऽपि तुरगो ह्य् अन्तरिक्षचरस् तदा ।
दिव्यदेहधरः सश्चाप्य् अप्सरोभिः समावृतः
विमाने देवराजस्य ययाविन्द्रपुरीं स्थितः ।
शुनी पृष्ठे तु या राज्ञस्तीर्थयात्रां प्रकुर्वती
दिव्यदेहधरा सापि विमानेन गता दिवि ।
धर्मसेनो ऽपि तां दृष्ट्वा विस्मयाविष्टचेतनः
अश्वरूपं जगादाथ किम् एतद् इति भारत ।
उवाचाकाशगो वाचं कथं त्वं खिद्यसे नृप
शरीरजेन कष्टेन तपः साध्या विभूतयः ।
पादचारी हि गच्छ त्वं परपादैर् गतो ह्यसि
भूयो यात्रां प्रकुरुषे तदा सिद्धिम् अवाप्स्यसि ।
ततो राजा च तस्याथ श्रुत्वा तद्वचनं तदा
पुनर् द्वितीयदिवसे प्रस्थितो लिङ्गपूजनम् ।
पञ्चलिङ्गान् समभ्यर्च्य समायातस् तु नर्मदाम्
मेघनादं यदापश्यद् द्वारे देवं च दृष्टवान् ।
पञ्चवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनम्
वृषारूढं जगद्गर्भं शशाङ्ककृतशेखरम् ।
दृष्ट्वा तं देवदेवेशं तुष्टाव परमेश्वरम्
जय देव महादेव महापातकनाशन ।
संसारसागरे मग्नं मां समुद्धर साम्प्रतम्
हर उवाच:
वरं वृणु महाभाग यत् ते मनसि वर्तते ।
तद् ददामि न सन्देहश् श्विभक्तो हि पुत्रक
यदि तुष्टो ऽसि मे देव तन्मां सहचरं कुरु ।
एकाहे पञ्चलिङ्गानि पूजयिष्यति यो नरः
स तवानुचरो देव भवत्व् एष वरो मम ।
धर्मसेनवचः श्रुत्वा भवत्व् एवं हरो ऽब्रवीत्
तं गृहीत्वा तु राजानं कैलासं स जगाम ह ।
स्वदेहस्थं चकारासौ धर्मसेनं नृपं नृप
एतत् ते कथितं राजन्न् इतिहासं पुरातनम् ।
श्रवणात् कीर्तनाद् अस्य अश्वमेधफलं लभेत्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0