स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 80
इति श्रीस्कन्दपुराणे रेवाखण्डे पिप्पलेश्वरमहिमानुवर्णनो नामैकोनाशीतितमो ऽध्यायः ॥
र्क्स् अध्याय 80
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र विमलेश्वरम् उत्तमम् ।
तत्र देवशिला रम्या महादेवेन भाषिता
गर्जनं खेटकं नाम तत्र देवशिला शुभा ।
तत्र स्नात्वा तु यो भक्त्या तर्पयेत् पितृदेवताः
तस्य ते द्वादशाब्दानि सुतृप्ता दिवि मोदिताः ।
तस्मिंस् तीर्थे तु यो भक्त्या ब्राह्मणान् पूजयेन् नृप
स्वल्पेनापि हि दानेन तस्य चान्तो न विद्यते ।
युधिष्ठिर उवाच:
कानि दानानि विप्रेन्द्र शस्तानि धरणीतले
यानि दत्त्वा नरो भक्त्या मुच्यते सर्वकिल्बिषैः ।
मार्कण्डेय उवाच:
सुवर्णं रजतं ताम्रं मणिं मौक्तिकम् एव च
भूमिदानं तथा गावो मोचयन्त्य् अंशुमान् नरम् ।
तत्र तीर्थे तु यः कश्चित् कुरुते प्राणसंक्षयम्
रुद्रलोके वसेत् तावद् यावद् आहूतसंप्लवम् ।
ततः पुष्करिणीं गच्छेत् कुरुक्षेत्रसमां नृप
पूर्वं पुष्करिणी नाम कुरुक्षेत्रं कलौ स्मृतम् ।
तत्र स्नात्वा यजेद् देवं तेजोराशिं दिवाकरम्
ऋचम् एकां जपेत् सौम्यः सामवेदफलं लभेत् ।
यजुर्वेदस्य जपनं ऋग्वेदस्य तथैव च
त्र्यक्षरं वा जपेन् मन्त्रं ध्यायमानो दिवाकरम् ।
आदित्यहृदयं जप्त्वा मुच्यते सर्वकिल्बिषैः
तत्र तीर्थे तु यः स्नात्वा विधिना पूजयेद् द्विजान् ।
तस्य कोटिगुणं दानं जायते नात्र संशयः
कार्तिक्यां च तथा माध्यां वैशाख्यां तु विशेषतः ।
अमावास्यां व्यतीपाते संक्रमे वैधृतौ रवौ
कुरुक्षेत्रे नरः स्नात्वा रुद्रस्यानुचरो भवेत् ।
अनाशके जले ह्य् अग्नौ पञ्चाग्नौ वा तथापि वा
तस्मिंस् तीर्थे मृतो यस् तु स याति परमां गतिम् ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा नृपसत्तम
विहितं कर्मकुर्वाणः स गच्छति सतां गतिम् ।
युधिष्ठिर उवाच:
किं जपन् मुच्यते व्याधेर् ज्ञात्वा वर्णं द्विजोत्तम
किं कुर्वन् मुच्यते प्राणी याति लोकम् अनामयम् ।
मार्कण्डेय उवाच:
शृणु राजन्न् अवहित इतिहासं पुरातनम्
गुह्यतीर्थे समासाद्य ब्राह्मणो मुक्तवान् यथा ।
पुरा द्विजवरश् चासीद् गोविन्दो नाम नामतः
तस्य भार्या सुसम्पन्ना ब्राह्मणी च पतिव्रता ।
तस्यां संजनयामास पुत्रम् एकं च सुन्दरम्
स बाल एव भवने क्रीडते शिशुलीलया ।
कदाचिद् ब्राह्मणश्रेष्ठः काष्ठमानयितुं गतः
वनान् नीत्वा काष्ठभारं गृहे पश्चाच् च क्षिप्तवान् ।
क्रीडन्न् आस्ते शिशुस् तत्र काष्ठभारेण पीडितः
ममार बालकस् तत्र द्विजो न ज्ञातवांस् तदा ।
ब्राह्मण्य् अपि तदा तस्मै न शशंस भयात् तथा
पुर्नद्विजः स गोविन्दो विपिनं संजगाम ह
ब्राह्मण्य् उवाच:
रावणो ब्रह्मणः पौत्रस् त्रैलोक्यं यस्य शङ्कते ।
स हतो रामचन्द्रेण सपुत्रामात्यबान्धवः
एवं पुत्रं विना सौख्यं मर्त्ये नाके न विद्यते ।
यश आख्यायितं यस्य स्वर्गार्थं यस्य भारती
मिष्टान्नं ब्राह्मणस्यार्थे स्वर्गवासो ऽपि विद्यते ।
पुत्रोत्पत्तिविनाशाभ्यां नापरं सुखदुःखयोः
ब्रह्महत्याश्वमेधाभ्यां नापरं पापपुण्ययोः ।
किं ब्रवीमीति हे वत्स नानुसौख्यं सुतं विना
एवं बहुविधं दुःखं प्रलपित्वा पुनः पुनः ।
बालं गृहगते विप्रे संगोप्य ब्राह्मणी तथा
एवं तस्यां विलपन्त्यां गता रात्रिर् युधिष्ठिर ।
भूम्यां प्रसुप्तं गोविन्दं पुत्रशोकेन पीडिता
यावन् निरीक्षते भार्या भर्तारं दुःखपीडितम् ।
कृमिराशिम् अयं तावद् गोविन्दं नृपसत्तम
दुःखाद् दुःखतरे मग्ना दृष्ट्वा तं पातकान्वितम् ।
एवं दुःखनिमग्नायाः शर्वरी विगता तदा
पुनः प्रातस् तु गोविन्दो दर्भाय च वनं गतः ।
एवं न ज्ञातवान् विप्रः काष्ठेन च हतं सुतम्
गताश् च दिवसाः पञ्चब्राह्मण्या गोपितं च यत् ।
पशुपालः पञ्चमे ऽह्नि महिषीरुत्तमाश् च गाः
अरण्ये महिषीर् मुक्त्वा गाश् च भोक्तुं गृहं गतः ।
विज्ञप्तः पशुपालेन गोविन्दो ब्राह्मणोत्तमः
यावद् भक्षाम्य् अहं स्वामिन् महिषीर् गाश् च रक्षय ।
ततः स त्वरितो गाश् च ब्राह्मणो महिषीः प्रति
जगाम महिषीर् गाश् च विप्रस्य तस्य रक्षतः ।
धावमानस्य गावश् च महिष्यः सङ्गमं गताः
तत्र प्रविष्टास् तु जले नद्या रेवासुसङ्गमे ।
तज् जलं पीतमात्रं तु त्वरया तेन वारिताः
अकामात् सलिलं पीत्वा प्रक्षाल्य नयने शुभे ।
आजगाम ततः पश्चाद् भवनं दिनसंक्षये
भुक्त्वा दुःखान्वितो रात्रौ गोविन्दः शयनं ययौ ।
निद्राभिभूतो दुःखेन श्रमेणैव तु खेदितः
पुनस् तं चार्धरात्रे तु तस्य भार्या निरीक्षते ।
कृमिभिर् वेष्टितं गात्रं क्वचित् पश्यत्य् अवेष्टितम्
पुनः सा विस्मयाविष्टा तस्य भार्या गुणान्विता ।
उवाच दुष्कृतं तस्य साध्वसाविष्टचेतना
भार्योवाच:
अतीते पञ्चमे चाह्णि इन्धनं क्षिपता तु ते ।
गृहे पश्चात् स्थितो बालस् त्व् अज्ञातो घातितस् त्वया
मया तत् पातकं घोरं त्वत् कृतं न प्रकाशितम् ।
तेन प्रच्छन्नपापेन दह्यमाना दिवानिशम्
न सुखं तव गात्रस्य न च पश्यामि चात्मनः ।
निद्रा प्रणष्टा मे नाथ रतिश् चैव त्वया सह
श्रूयते मानवे शास्त्रे श्लोको गीतो महर्षिभिः ।
स्मृत्वा स्मृत्वा च तं रात्रौ परितापो न शाम्यति
कीर्तनान् नश्यते ऽधर्मो वर्धते ऽसौ च गूहनात् ।
इह लोके परे चैव पापस्यान्तो न विद्यते
एवं संचिन्त्यमानाहं स्थिता रात्रौ भयातुरा ।
कृमिराशिमयं त्वां तु पश्यामि कथयामि किम्
पुनश् च कान्त त्वद् देहं भ्रूणहत्याकृमिप्लुतम् ।
क्वचित् तुदन्ति ते चैव क्वचिन्नष्टाः समन्ततः
एतत्संस्मृत्य संस्मृत्य विमृशन्ती पुनः पुनः ।
न जाने कारणं किंचित् पृच्छामि कथयस्व मे
तडागं वापि सरितं तीर्थं वा देवतालयम् ।
यं गतो ऽसि प्रभावो ऽयं तस्य नान्यस्य मे मतिः
एवम् उक्तस् त्व् असौ विप्रः कथयामास भारत ।
भार्यया पूर्ववृत्तान्तं रममाणो नृपोत्तम
गोलुलायी निवृत्त्यर्थं नर्मदा सङ्गमं गतः ।
नाभिमात्रे जले मग्नस् तोयं पीतं यथेष्टतः
नान्यत् तीर्थं विजानामि नर्मदा च सरिद्वरा ।
एवं श्रुत्वा च तत्सर्वम् उपवासः कृतः क्षणात्
भर्त्रा सह गता तत्र सङ्गमे वरवर्णिनी ।
स्नात्वा विधिप्रयुक्तेन सङ्गमे सुरपूजिते
तर्पयामास देवेशं शङ्करं च सहोमया ।
पञ्चामृतैः स्नापयित्वा ब्राह्मण्या सहितो द्विज
गन्धमाल्यादिधूपैश् च नैवेद्यैश् च सुशोभनैः ।
अपूजयत् तत्र लिङ्गं देवीं कात्यायनीं शुभाम्
रात्रौ जागरणं कृत्वा भर्त्रा तेन सहैव सा ।
ततः प्रभाते विमले द्विजं सम्पूज्य यत्नतः
गोदानेन हिरण्येन वस्त्रेणान्नेन भारत ।
गोविन्दः पूजयामास स्वशक्त्या ब्राह्मणं शुभम्
उक्तश् चाकाशवाण्या तु तीर्थं गुह्यावती त्व् इदम् ।
गुह्येश्वरं तत्र लिङ्गं पातालादुत्थितं तदा
गुह्यावतीनर्मदयोः सङ्गमो गुणवानभूत् ।
मुक्तपापो गृहं यातः स्वभार्यासहितो द्विजः
एतत् तीर्थं पापहरं बालहत्याप्रणाशनम् ।
तत्र स्नात्वा च जप्त्वा च दत्त्वा ब्राह्मणभोजनम्
उपास्य श्राद्धकरणात् तिलोदकप्रदानतः ।
निवसेच्छिवलोके हि यावद् आहूत संप्लवम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0