स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 79
इति श्रीस्कन्दपुराणे रेवाखण्डे कुण्डलेश्वरमहिमा अनुवर्णनोनाम अष्टसप्ततितमो ऽध्यायः ॥
र्क्स् अध्याय 79
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र पिप्पलेश्वरम् उत्तमम् ।
यत्र सिद्धो महायोगी पिप्पलादो महातपाः
युधिष्ठिर उवाच:
पिप्पलादस्य चरितं श्रोतुमिच्छाम्य् अहं प्रभो ।
माहात्म्यं तस्य तीर्थस्य यत्र सिद्धो महातपाः
कस्य पुत्रो महाभाग किमर्थं तप्तवांस् तपः ।
एतद् विस्तरतः सर्वं कथयस्व ममानघ
मार्कण्डेय उवाच:
मिथिलास्थो महाभाग वेदवेदाङ्गपारगः ।
याज्ञवल्क्यश् च पुरतश् चचार विपुलं तपः
तापसी तस्य भगिनी याज्ञवल्क्यस्य धीमतः ।
चचार सापि तत्रस्था शुश्रूषन्ती महत्तपः
ततस् त्व् एकस्मिन् समये स्नाताहनि रजस्वला ।
अन्तर्वासं कृतवती दृष्ट्वा कर्कटकं रहः
याज्ञवल्क्यो ऽपि तद् रात्रौ परिधानेन तेन वै ।
स्वप्नं दृष्ट्वात्यजच् छुक्रं प्रभाते ऽन्वैषयत् पुनः
तत सा ब्राह्मणी तात किम् अन्वेष्यसि भारत ।
केन कार्यं तव विभो वदस्व मम तत्त्वतः
याज्ञवल्क्य उवाच:
अपवित्रो मया भद्रे स्वप्नो दृष्टो ऽद्य वै निशि ।
शुक्लं मे चात्र वस्त्रं स्वं निक्षिप्तं तन् न दृश्यते
तच्छ्रुत्वा ब्राह्मणी वाक्यं भीतभीताभवन् नृप ।
तद्वस्त्रं तु मया ब्रह्मन् स्नात्वान्तर्धानकं कृतम्
तस्यास् तद् वचनं श्रुत्वा हाहेत्युक्त्वा महातपाः ।
पपात सहसा भूमौ छिन्नमूल इव द्रुमः
किम् एतद् इति जल्पन्तम् आकाशाद् वाग्विनिर्गता ।
तोषयन्ती च तं विप्रं प्रोवाच नृपते तदा
नास्य दोषो मया दृष्टस् तव चैव शुभव्रते ।
तव गर्भोदयो येन तत्र दैवं परायणम्
न विनाशो ऽस्य कर्तव्यो यावत् कालस्य पर्ययः ।
तथेति व्रीडिता सा च दुर्मनेति विमानतः
पालयामास तं गर्भं यावत् पुत्रो व्यजायत ।
जातमात्रं तु तं गर्भं कथयित्वा न कंचन
अश्वस्थवृक्षमासाद्य सोत्ससर्ज महीतले ।
यानि सत्त्वानि लोकेषु स्थावराणि चराणि वै
तानि वै पालयन्त्व् एनं बालकं त्यजति स्म सा ।
एवमुक्त्वा ततः साध्वी ब्राह्मणी नृपसत्तम
यथागतं जगामाथ सावस्थाय मुहूर्तकम् ।
पादौ पाणी विनिक्षिप्य विमृज्य नयने शूभे
आस्यं च विकृतं कृत्वा रुरोदोच्चैरनाथवत् ।
तेन शब्देन वित्रस्ताः स्थावरा जङ्गमाश् च ये
अकम्पयत् महीं तात सशैलवनकन्दराम् ।
ततो ज्ञात्वा महद्भूतं क्षुधाविष्टं द्विजर्षभम्
न जहाति नगश् छायामार्पयच् च ततः पयः ।
आप्यायितस् ततस् तेन अमृतेनैव भारत ।
ततः स चिन्तयाविष्टो निर्ममे ग्रहगोचरम्
तेन क्रूरसम् आचारः क्रूरदृष्ट्या निरीक्षितः ।
पपात सहसा भूमौ शनैश्चारी शनैश्चरः
शनैश्चरं बालको ऽपि पादेनैव परामृशत् ।
पीडितः सो ऽपि बालेन उवाच वचनं तदा
किं मया ऽपकृतं विप्र पिप्पलाद महामुने ।
निष्क्रामन् गगने चैव पातितो धरणीतले
सौरिणाप्य् एवम् उक्तस् तु पिप्पलादो महामुनिः ।
क्रोधरूपो ऽब्रवीद् वाक्यं तच् छृणुष्व नराधिप
पितृमातृविहीनस्य बालभावस्य दुर्मते ।
पीडां करोषि कस्मात् त्वं सौरे त्वम् अवशेषितः
शनैश्चर उवाच:
क्रूरस्वभावसंजाता मम दृष्टि द्विजोत्तम ।
मुञ्च त्वं मां च कर्ताहं यद् ब्रवीषि न संशयः
पिप्पलाद उवाच:
अद्य प्रभृतिबालानां जन्मतः षोडशीः समाः ।
पीडा त्वया न कर्तव्या एष ते समयः परः
एवम् अस्त्व् इति तं चोक्त्वा प्रजगाम यथागतः ।
देवमार्गं शनैश्चारी प्रणम्य ऋषिसत्तमम्
ततश् चादर्शनं तत्र गतवान् स महाग्रहः ।
विचिन्तयानश् चैकाकी क्रोधेन कलुषीकृतः
आग्नेयीं हि दिशं ध्यात्वा जनयामास पावकम् ।
कृत्त्वा मांसं जुहावाग्नौ क्रियासम्भवतत्त्वतः
तावच् च जनिता कृत्या ज्वालामालाविभूषिता ।
हुतभुक्सदृशाकारा किंकरोमीति चाब्रवीत्
शोषयामि समुद्रं किं चूर्णयामि च पर्वतम् ।
भूमिं च वेष्टयामीह पातयित्वा नभस्तलम्
कस्य मूर्ध्नि पतिष्यामि घातयामि च कं द्विज ।
शीघ्रमादिश मे कार्यं न कालातिक्रमो भवेत्
तस्यास् तद् वचनं श्रुत्वा पिप्पलादो महातपाः ।
क्रोधरक्तान्तनयन इदं वचनम् अब्रवीत्
महता क्रोधवेगेन मया त्वं चिन्तिता शुभे ।
पिता मे याज्ञवल्क्यस् तु तं त्वं घातय माचिरम्
एवमुक्ता तु सा शीघ्रं स्फुटन्तीव नभस् तलम् ।
मिथिलास्थो महाप्राज्ञो यत्र तेपे महातपाः
यावत् पश्यति दिङ्मार्गं ज्वलनार्कसमप्रभम् ।
याज्ञवल्क्यो महातेजास् तद्भूतं समुपस्थितम्
तां दृष्ट्वा सहसायान्तीं भीतभीतो महामुनिः ।
भूतेनाक्रमितो विप्रो जनकं नृपतिं ययौ
शरणार्थम् अनुप्राप्तं विद्धि मां नृपसत्तम ।
महाभूताच् च मां रक्ष यदि शक्नोषि मानद
राजोवाच:
ब्रह्मतेजोभवम् भूतम् अनिवार्यं दुरासदम् ।
प्रभुर् नैवाद्य शक्नोमि अन्यं गच्छ महामते
ततश् चान्यं नृपश्रेष्ठं शरणार्थी महातपाः ।
जगाम तेन चैवोक्त इन्द्रस्य शरणं ययौ
देवराज नमस्ते ऽस्तु महाभूताच् च रक्ष माम् ।
तस्य तद् वचनं श्रुत्वाब्रवीद् इन्द्रस् तदा वचः
न च शक्तः परित्रातुं ब्रह्मतेजो हि दुःसहम् ।
ततश् च ब्रह्मभवनं ब्राह्मणो ब्रह्मवित्तमः
जगाम विष्णुभवनं शक्तो ऽपि त्यक्तवान् भयात् ।
ततः स परमोद्विग्नो निराशो जीविते नृप
अनुगम्यमानो भूतेन अगच्छच् च महेश्वरम् ।
तस्य योगबलोपेतो महादेवस्य पाण्डव
नखमांसान्तरे लुप्तो यथा देवो न पश्यति ।
अदृष्टम् अगमद् भूतं ज्वलनार्कसमप्रभम्
मुञ्च मुञ्चेति पुरुष मुञ्चेश्वरम् उवाच ह ।
एवम् उक्तो महादेवस् तेन भूतेन भारत
योगीन्द्रं दर्शयाम् आस नखमांसान्तरे स्थितम् ।
संस्थाप्य कृत्यां भूतेशो ज्वलत्कालानलप्रभाम्
उवाच मा भैस्त्वं विप्र मा च गच्छ महामुने ।
ततस् तं सूक्ष्मदेहस्थं महादेवो ऽब्रवीद् इदम्
किमस्य त्वं महाभूत कर्ता कृत्य वदस्व मे ।
कृत्योवाच:
क्रोधदीप्तेन देवेश पिप्पलादेन चिन्तिता
अस्य देहे पतिष्यामि अहिंस्यां विद्धि मां प्रभो ।
एतच् छ्रुत्वा महादेवो भूतस्य वदनाच् च्युतम्
वरिष्ठं बन्धयामास याज्ञवल्क्यस्य घातकम् ।
योगीश्वरं तं विप्रेन्द्रं दत्त्वाभीतिं युधिष्ठिर
विसर्जयित्वा देवस् तं तत्रैवान्तरधीयत ।
प्रेषयित्वा तु तं भूतं पिप्पलादो ऽपि दुर्मनाः
मातापितृविहीनस् तु नर्मदातटम् आश्रितः ।
एकनिष्ठो निराहारो वर्षाणि षोडशैव तु
तोषयामास देवेशम् उमया सह शङ्करम् ।
हर उवाच:
परितुष्टो ऽस्मि ते विप्र तपसानेन सुव्रत
वरं वृणीष्व ते दद्यां मनसाभीप्सितं शुभम् ।
पिप्पलाद उवाच:
यदि मे भगवांस् तुष्टो यदि देयो वरो मम
अत्र सन्निहितो देव मम नाम्ना च शङ्कर ।
एवम् उक्तस् तथेत्य् उक्त्वा पिप्पलादं महामुनिम्
जगामादर्शनं देवो भूतसङ्घैर् निषेवितः ।
पिप्पलादो गते देवे स्नात्वा तत्र महाम्भसि
स्थापयित्वा महदेवं जगामोत्तरपर्वतम् ।
तत्र तीर्थे नरो भक्त्या स्नात्वा मन्त्रयुतो नृप
तर्पयित्वा पितॄन् देवान् पूजयित्वा महेश्वरम् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्य् अनुत्तमम्
मृतो रुद्रपुरं याति पिप्पलेश्वरसन्निधौ ।
अथवा भोजयेद् विप्रान् पितॄन् उद्दिश्य भक्तितः
द्वादशाब्दसहस्राणि तृप्ता गच्छन्ति सद्गतिम् ।
संन्यासेन तु यः कश्चित् तत्र तीर्थे तनुं त्यजेत्
अनिवर्तिका गतिस् तस्य यथा मे शङ्करो ऽब्रवीत् ।
एतत् सर्वं समाख्यातं यत् त्वं मां परिपृष्टवान्
माहात्म्यं पिप्पलादस्य पिप्पलेश्वरम् उत्तमम् ।
एतत् पुण्यं पापहरं धन्यं दुःखप्रणाशनम्
पठतां शृण्वतां चैव सर्वपापप्रमोचनम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0