स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 7
इति रेवाखण्डे नर्मदामाहात्ये षष्ठो ऽध्यायः ॥
र्क्स् अध्याय 7
मार्कण्डेय उवाच:
अन्यत्तीर्थं महापुण्यं सर्वपापप्रणाशनम् ।
अश्वमेधसमुद्भूता नदी यत्र वराङ्गना
स्नात्वा च सङ्गमे यत्र हयमेधफलं लभेत् ।
व्याधिभिर् मुच्यते यत्र नारी वा यदि वानरः
श्राद्धं तत्र प्रकुर्वन्तः पितॄणां प्रीतिवर्धनम् ।
त्रिपुर्यां पूर्वभागे तु दिशि याम्यां शिवः स्थितः
अनुग्रहार्थं लोकानां शैवक्षेत्रं विदुर्बुधाः ।
पञ्चाशीतिः कुरुक्षेत्रे पश्चाशीतिर् इवात्र तु
राहुसूर्यसमायोगे समानं कीर्तितं सुरैः ।
श्राद्धे त्रीणि च लक्षाणि पुराणे कीर्तितानि वै
तीर्थानां तानि अत्रैव तिष्ठन्ति नृपसत्तम ।
यत्र तिष्ठति देवेशो माधवो मधुसूदनः
उत्पलावर्तनामा च सहस्रमस्तको हरिः ।
हरश्च द्विविधावे तौ तृतीया चैव नर्मदा
तस्याः किं वर्ण्यते राजन् देवैर् अपि सवासवैः ।
तत्र स्नात्वा महाराज सम्भवो न पुनर् भवेत्
पापयोनिं च न विशेद् यमलोकं न पश्यति ।
अर्चनाद् देवदेवस्य गाणपत्यम् अवाप्यते
उत्पन्नो हि हरिर् यत्र शङ्खचक्रगदाधरः ।
उपास्यते सुरैः सर्वैर् ब्रह्मशक्रपुरोगमैः
क्रोशमात्रं हरिक्षेत्रं कथं शोचन्ति मानवाः ।
अत्रान्तरे मृता ये च कृमिकीटपतङ्गमाः
ते ऽपि यान्ति हरेर् लोकं किं पुनर्वैष्णवा नृप ।
अवशः स्ववशो ऽपि स्यात् प्राणत्यागं करोति यः
दशवर्षसहस्राणि राजा वैद्याधरे पुरे ।
तिलोदकप्रदानेन पिण्डदानेन भारत
पितरस् तस्य तृप्यन्ति तृप्ता यान्ति परा गतिम् ।
एकादश्यां निराहारो गन्धपुष्पैः समर्चयेत्
रात्रौ जागरणं कृत्वा दीपमालां प्रबोधयेत् ।
द्वादश्यां पञ्चगव्यं तु हविष्यान्नेन पारणम्
भक्त्या तु भोजयेद् विप्रान् सहस्रं च सदक्षिणाम् ।
ओं नमो भगवते वासुदेवाय ॥
इमं मन्त्रं जपन् यस्तु शुचिर् भूत्वा समाहितः
न तस्य पुनराधानं जन्म चैव युधिष्ठिर ।
अनेकभाविकं घोरं तूलराशिम् इवानलः
तत्क्षणाद् दहते कृत्स्नमेधांसीवहुताशनः ।
कल्पकल्पानुगौ देवौ नारायणमहेश्वरौ
दक्षिणां दिशमास्थाय रेवातीरे व्यवस्थितौ ।
अर्चितौ च तौ देवेशौ सुरासुरगणैस् तथा
सिद्धविद्याधरैर् यक्षैर् गन्धर्वैः किन्नरैर् नरैः ।
स्थाणुः पुण्यजलावर्ते ह्यवतार पुराकृतः
अनुग्रहाय लोकानां देवानां हितकाम्यया ।
ननाद सुमहानादं घोररूपं भयानकम्
पिनाकिना च शूलेन भित्त्वा चैव रसातलम् ।
समानीता च सावित्री स्वर्गसोपानपद्धतिः
मानवाः क्षीणपापाश् च तथा यान्ति परां गतिम् ।
अज्ञानतम सा ध्वस्ता नावरोहान्ति ये जनाः
आत्मानं नावमन्यन्ते पापोपहतचेतसः ।
कल्पगां ये न सेवन्ते तेषां जन्म निरर्थकम्
अष्टाविंशतिर् अत्रैव लिङ्गानां तु स्वयम्भुवाम् ।
पूजने संस्थिता राजन् छिवस्य च महात्मनः
स्थानेश्वरं महादेवं शूलपाणिं तथा परम् ।
सप्तेश्वरं च कल्पेशं हिरण्यं जातवेदसम्
प्राजापत्यं सिद्धनाथं शशाङ्कनयनं तथा ।
अनुकेशं तथा स्कन्दम् आश्विनं तैजसं तथा
ब्रह्मेश्वरं चाग्निगर्भं श्रीकण्ठं च उमापतिम् ।
नीलकण्ठं च खट्वाङ्गं महाकालं घटेश्वरम्
त्रिलोचनं त्र्यम्बकं च देवदेवं महेश्वरम् ।
एतान्य् अन्यानि चैवेह सिद्धलिङ्गानि भारत
अनङ्गं कामदेवं च रतिप्रीतिसमन्वितम् ।
सिद्धमन्वन्तरं चैव यत्रानङ्गत्रयोदशी
रम्भातृतीय तत्रैव तथा कृष्णाष्टमी नृप ।
विद्याधरी च तत्रैव उर्वशी च तिलोत्तमा
अहल्या मेनका चैव तथा ऽन्याश् च वराङ्गनाः ।
दाक्षायणी चानुमती चम्पका संभरायणी
एताश्चा ऽन्याश्च तत्रैव बह्व्यः सिद्धा विशाम्पते ।
केशवस्य पुरी रम्या पुण्या पापहरा नृप
सुरासुराणां सर्वेषां दानवानां च भारत ।
स्वर्गमार्गप्रदा देवी तथा हरिहरात्मिका
एतत् ते कीर्तितं राजन् यथा वृष्टं पुरातनम् ।
स्नानावगाहनात् पानाच्छ्रवणात् कीर्तनाद् अपि
अनेकभाविकं घोरमघं नश्यति तत्क्षणात् ।
ततस् तस्मिन् महाभाग कपिलातीर्थमुत्तमम्
रेवाया उत्तरे कूले सर्वपापहरं परम् ।
तत्र स्नात्वा नरो राजन् नारी वापि जितेन्द्रिया
तर्पयित्वा पितॄन् देवान् मुच्यते च ऋणत्रयात् ।
ब्राह्मणान् भोजयित्वा तु लभते परमाङ्गतिम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0