स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 78
इति श्रीस्कन्दपुराणे रेवाखण्डे करञ्जेश्वरमहिमानुवर्णनो नाम सप्तसप्ततितमो ऽध्यायः ॥
र्क्स् अध्याय 78
अथ अष्टसप्ततितमो ऽध्यायः
मार्कण्डेय उवाच:
ततो गच्छेच् च राजेन्द्र कुण्डलेश्वरम् उत्तमम् ।
यत्र सिद्धिं गतो देवः कुण्डधारो नृपोत्तम
तपः कृत्वा तु विपुलं सुरासुरभयं करम् ।
कुण्डधारो मन्दरस्थः क्रीडते स नृपोत्तम
युधिष्ठिर उवाच:
कस्यान्वये समुत्पन्नः कस्य पुत्रो महामतिः ।
तपस् तप्त्वा सुविपुलं तोषितो येन शङ्करः
एतद् विस्तरतस् तात कथयस्व ममानघ ।
मार्कण्डेय उवाच:
पुरा त्रेतायुगे राजन् पौलस्त्यो नाम विश्रवाः
उपये मे महाभाग भरद्वाजसुतां नृप ।
पुत्रः पुत्रगुणैर्युक्तस् तस्यां जातो धनं जयः
जातमात्रं सुतं ज्ञात्वा ब्रह्मा लोकपितामहः ।
चकार नाम सुप्रीत ऋषिदेवसमन्वितः
यस्माद् विश्रवसो जातो मम पौत्रत्वम् आगतः ।
तस्माद् वैश्रवणो नाम मया दत्तं तवानघ
यः स्वयं सर्वदेवानां धनगोप्ता भविष्यति ।
चतुर्थो लोकपालानाम् अक्षयो यक्षपो ऽपि वा
यक्षो यक्षाधिपः श्रेष्ठः कुण्डधारो ऽभवत् सुतः ।
सुस्वंरूपवयः प्राप्य मातापित्रोरनुज्ञया
तपश् चकार विपुलं नर्मदातीरम् आश्रितः ।
यत्र व्याघ्रेश्वरं लिङ्गं व्याघ्रखेटकम् उत्तमम्
कुण्डधारेण तत्रैव तपस् तप्तं सुदारुणम् ।
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षास्वासारथारणः
शिशिरे जलमध्यस्थो वायुभक्षः शतं समाः ।
एवं वर्षशते पूर्णे एकाङ्गुष्ठो ऽभवत् ततः
चक्रवद् भ्रमते सूर्यमभितो भरतर्षभ ।
चतुर्थे पञ्चमे तावत् तुतोष वृषवाहनः
वरं वृणीष्व हे वत्स यत् ते मनसि रोचते ।
तद् ददामि न सन्देहस् तपसा तोषितो ह्य् अहम्
कुण्डधार उवाच:
यदि तुष्टो ऽसि मे देव वरदित्सुर् इहागतः ।
ततो मन्नामकं लिङ्गं तीर्थं चैतद् भवत्व् इति
तथेत्युक्त्वा महादेवः सोमो ऽन्तर्धानमागमत् ।
जगामा काशम् आविश्य कैलासं धरणिधरम्
गते चादर्शन देव सो ऽपि यक्षो मुदान्वितः ।
स्थापयामास देवेशं कुण्डलेश्वरमुत्तमम्
अलंकृत्वा गजं धेनुं धूपपुष्पविलेपनैः ।
वितानैश् चामरैश् छत्रैस् तथैव लिङ्गपूजनैः
तर्पयित्वा द्विजान् सम्यग् अन्नपानादि भूषणैः ।
प्रीणयित्वा महादेवं ततः स्वभवनं ययौ
तदा प्रभृति तत् तीर्थं त्रिषु लोकेषु विश्रुतम् ।
युधिष्ठिर परं पुण्यं कुण्डलेश्वरसंज्ञकम्
तत्र तीर्थे तु यः कश्चिद् उपवासपरायणः ।
अर्चयेद् देवम् ईशानं सर्वपापैः प्रमुच्यते
सुवर्णं रजतं वापि मणिं मौक्तिकम् एव च ।
ब्राह्मणेभ्यो ददात्यत्र स मुख्यो मोदते दिवि
तत्र तीर्थे नरः स्नात्वा ऋग्यजुः सामसु द्विजः ।
ऋचम् एकां जपित्वा च चतुर्वेदफलं लभेत्
तस्मिंस् तीर्थे तु गोदानम् अन्नदानम् अथापि वा ।
यः प्रयच्छति विप्रेभ्यस् तत्फलं शृणु पाण्डव
यावन्ति तस्य रोमाणि तत्प्रसूतिकुलेषु च ।
तावद् वर्षसहस्राणि स्वर्गलोके महीयते
स्वर्गवासो भवेत् तस्य पुत्रपौत्रसमन्वितः ।
तस्मिंस् तीर्थे महाभाग व्याघ्रश् चैव पिपासितः
निषादानां भयेनैव अटव्यामटति स्वयम् ।
निषादानां भर्यैर् नष्टः पतितो नर्मदाजले
जलप्लुतो महाभाग लिङ्गरूपधरो ऽभवत् ।
उक्तश्चाकाशवाण्या वै व्याघ्रेश्वरम् अनुत्तमम्
पूज्यं वै त्रिषु लोकेषु ख्यातिं यास्यत्य् असंशयम् ।
तत्र तीर्थे नरः स्नात्वा तल् लिङ्गम् अर्चयेत् तु यः
ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः ।
एतत् ते कथितं राजन् कुण्डलेश्वरम् उत्तमम्
श्रवणात् कीर्तनाद् अस्य गोसहस्रफलं लभेत्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0