भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 77

77.1

इति श्रीस्कन्दपुराणे रेवाखण्डे दारुवनप्रसङ्गे नर्मदेश्वरकीर्तनं नाम षट्सप्ततितमो ऽध्यायः ॥
र्क्स् अध्याय 77
ततो गच्छेच् च राजेन्द्र कपिलातीर्थम् उत्तमम् ।
स्नानमात्रः प्रसङ्गेन नर्मदेश्वरकीर्तनम्

77.2

तस्मिंस् तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति ।
यावन्ति रोमकूपानि तत्प्रसूतिकुलेषु च

77.3

तावन्त्य् अब्दसहस्राणि विष्णुलोके महीयते ।
जले वाग्निप्रवेशे वा अथवानशके नरः

77.4

तत्र तीर्थे मृतो यस् तु न गर्भे जायते क्वचित् ।
एव हि विधिर् उद्दिष्टः सकलो नृपसत्तम

77.5

तीर्थस्य च फलं पुण्यं किम् अन्यत् परिपृच्छसि ।
धन्यं यशस्यम् आयुष्यं सर्वदुःखघ्नम् उत्तमम्

77.6

एतच् छ्रुत्वा नरो राजन् सर्वपापैः प्रमुच्यते ।
ततो गच्छेत् तु राजेन्द्र करञ्जेश्वरम् उत्तमम्

77.7

तत्र सिद्धो महाभाग दैत्यो वै लोकविश्रुतः ।
युधिष्ठिर उवाच:
को ऽसौ सिद्धो महाभाग तत्र तीर्थे महातपाः

77.8

कस्य पुत्रो ऽथ किंकार्यं कालः कः कथय द्विज ।
मार्कण्डेय उवाच:
पुरा चादियुगे राजन् मानसो ब्रह्मणः सुतः

77.9

वेदवेदाङ्गतत्त्वज्ञो मरीचिर् नाम नामतः ।
तस्या ऽपि कश्यपो राजन् कालेन महतानघ

77.10

पुत्रो ऽथ मानसो जातः साक्षाद् ब्रह्मेव चापरः ।
क्षमा दमा दया दानं सत्यं शौचम् अथार्जवम्

77.11

मरीचेस् तु गुणास् त्व् एते सन्ति भान्ति च भारत ।
एवं गुणगणाः कीर्तिः कश्यपे द्विजसत्तमे

77.12

ज्ञात्वा प्रजापतिर् दक्षो भार्यार्थे स्वसुतां ददौ ।
अदितिर् वै दनुश् चैव तथा ह्येकादशा पराः

77.13

यासां पुत्राश् च पौत्राश् च जाता भ्रातरसंख्यकाः ।
अदितिर् जनयामास पुत्रानिन्द्रपुरोगमान्

77.14

नागान् प्रेतपिशाचांश् च पतत्रीन् यक्षराक्षसान् ।
सिंहव्याघ्रवराहांश् च अन्या इत्य् एवम् आदयः

77.15

जातास् तस्य महाबाहो कश्यपस्य प्रजापतेः ।
यैस् तु लोकत्रयं व्याप्तं स्थावरं जङ्गमं महत्

77.16

तथान्यश् च महाभागो दनोः पुत्रो व्यजायत ।
सर्वलक्षणसम्पन्नः करञ्जो नाम नामतः

77.17

बलेर् इव महाभाग चचार सुमहत् तपः ।
वरेण छन्दयामास त्रिपुरान्तकरः प्रभुः

77.18

भोः करञ्ज महासत्त्व परितुष्टो ऽस्मि ते ऽनघ ।
वरं वृणीष्व भद्रं ते यत् ते मनसि वर्तते

77.19

करञ्ज उवाच:
यदि तुष्टो ऽसि मे देव त्रिपुरान्तकर प्रभो ।
ततः पुत्रैश् च पौत्रैश् च सहितं मे धनं कुरु

77.20

तथेत्य् उक्त्वा महादेव उमया सहितस् तदा ।
वृषारूढो गणैः सार्धं तत्रैवान्तरधीयत

77.21

गते चादर्शनं देवे सो ऽपि दैत्यो मुदान्वितः ।
स्वनाम्ना च महादेवं स्थापयित्वा गृहं ययौ

77.22

तदा प्रभृति तत्तीर्थं करञ्जेश्वरम् उत्तमम् ।
स्नानमात्रो नरो राजन् मुच्यते ब्रह्महत्यया

77.23

तस्मिंस् तीर्थे महाराज तर्पयेत् पितृदेवताः ।
सो ऽग्निष्टोमस्य यत्पुण्यं फलं प्राप्नोत्य् असंशयम्

77.24

अनाशकं तु यः कुर्यात् तस्मिंस् तीर्थे नरोत्तम

77.25

अथाग्नौ च जले प्राणान् भूतले वापि यस् त्यजेत् ।
स्वर्गे स तु वसेन् नूनं वर्षाणाम् अयुतद्वयम्

77.26

धनवान् सुकुले चान्ते जायते विपुले कुले ।
वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः

77.27

राजा वा राजतुल्यो वा जायते नात्र संशयः ।
पुत्रपौत्रसमायुक्तः सर्वव्याधिविवर्जितः

77.28

एतत् ते सर्वमाख्यातं यत् त्वं मां परिपृच्छसि ।
तीर्थस्य तु फलं युक्त्या सर्वदानेषु भारत

77.29

एतत् पुण्यं पापहरं धन्यं दुःखप्रणाशनम् ।
पठतां शृण्वतां चैव तीर्थमाहात्म्यम् उत्तमम्

77.30

यस् तु श्रावयते श्राद्धे स तत्पितृपरायणः ।
अक्षयं तस्य सर्वं स्याच् छङ्करस् त्व् इदम् अब्रवीत्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc