भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 76

76.1

इति श्रीस्कन्दपुराणे रेवाखण्डे देवतीर्थमहिमानुवर्णनो नाम पञ्चसप्ततितमो ऽध्यायः ॥
र्क्स् अध्याय 76
मार्कण्डेय उवाच:
ततोगच्छेच् च राजेन्द्र गुहावासीति चोत्तमम् ।
यत्र सिद्धो महादेवो गुहावासीति शङ्करः

76.2

युधिष्ठिर उवाच:
केन कार्येण विप्रेन्द्र गुहावासीति शङ्करः ।
एतद् विस्तरतः सर्व कथयस्व ममानघ

76.3

श्रोतुम् इच्छाम्य् अहं देव सर्वं कौतूहलं हि मे ।
मार्कण्डेय उवाच:
महाप्रश्नः कृतो मां यो महाप्राज्ञ नरेश्वर

76.4

पुराणे विस्तरो ऽप्य् अस्य न शक्यो हि मयाधुना ।
वृद्धभावात् कथयितुम् अहं च बहुकालिकः

76.5

पूर्व दारुवने विप्रा वसन्ति स्म सुरैः समाः ।
ब्रह्मचारी गृहस्थश् च वानप्रस्थो यतिस् तथा

76.6

स्वधर्मनिरतानां च कथितं परमं पदम् ।
तावद्वसन्तसमये कस्मिंश्चित् कारणान्तरे

76.7

विमानस्थो महादेवो गम्यमानोमया सह ।
ददर्श च जनावासं वेदध्वनिनिनादितम्

76.8

अगतागतसंवासं सर्वपापक्षयं करम् ।
तद्दृष्ट्वा मुदितां देवीं हर्षगद्गदया गिरा

76.9

उवाच वचनं देवो दृष्ट्वा तापसयोषितः ।
नान्यं देवं न वै धर्मं ध्यायन्ति हिमनन्दिनि

76.10

एतच् छ्रुत्वा परं वाक्यं देवदेवेन भाषितम् ।
कौतूहलसमाविष्टा शङ्करं पुनर् अब्रवीत्

76.11

यत् त्वयोक्तं महादेव पतिधर्मपरास्त्रियः ।
तासाम् अनङ्गो भूत्वा त्वं चरित्रं क्षोभय प्रभो

76.12

महादेव उवाच:
त्वयोक्तं वचनं देवि न चैतद् रोचते प्रिये ।
ब्राह्मणा हि महाभागा न तेषां विप्रियं चरेत्

76.13

मन्युप्रहरणा विप्राश् चक्रप्रहरणो हरिः ।
चक्रात् तीक्ष्णतरो मन्युस् तस्माद् विप्रं न कोपयेत्

76.14

न ते देवा न ते लोकास् ते नागा नासुरास् तथा ।
दृश्यन्ते च त्रिभिर् लोकैर् एतैर् उष्टैर् न वञ्चिताः

76.15

तेषां क्षोभकरः प्रायः स्वर्गभोगफलच्युतः ।
येषां तुष्टा महाभागा ब्राह्मणाः क्षितिदेवताः

76.16

तेषां धर्मस् तथार्थश् च कामो मोक्षो न संशयः ।
एवं ज्ञात्वा महाभागे आग्रहस्त्यज्यताम् अयम्

76.17

एतल् लोकविरुद्धं हि यदीच्छसि वशे सुखम् ।
देव्य् उवाच:
नाहं ते दयिता देव नाहं ते वशवर्तिनी

76.18

अन्यायधर्षणां चात्र सर्वासां कुरु सुव्रत ।
लोकालोके महादेव अशक्यं नास्ति ते विभो

76.19

क्रियतां मम देवैतत्परं कौतूहलं प्रभो ।
एवम् उक्तो महादेवो देव्याः प्रियहिते रतः

76.20

कृत्वा कापालिकं रूपं ययौ दारुवनं प्रति ।
महाहिनां जटाजूटं नियम्य शशिभूषणः

76.21

कङ्कत्राणं परं कृत्वा तथा सौवर्णकुण्डले ।
व्याघ्रचर्मपरीधानो हारकेयूरभूषितः

76.22

नूपुरारावनिर्घोषैः कम्पयंश् च वसुन्धराम् ।
महाडमरुघोषेण वीरघण्टानिनादिना

76.23

प्रभातसमये प्राप्ते तत्र दारुवनं गत ।
तावद् विप्रजनः सर्वः पुष्पमूलफलाशनः

76.24

निर्गतो बहुभिः सार्धं पठ्यमान इतस् ततः ।
तद्दृष्ट्वा महदाश्चर्यरूपं देवस्य भारत

76.25

युवतीजनः प्रमत्तश् च कामेन कलुषीकृतः ।
सुरूपं परमं दृष्ट्वा सर्वास् ताश् च वराननाः

76.26

क्लेशभावं तदागच्छन् याश् च दारुवने स्त्रियः ।
विकारा बहवस् तासां देवं दृष्ट्वा मनोजवम्

76.27

संजाता विप्रपत्नीनां तां शृणुष्व नृपोत्तम ।
परिधानं न जानन्ति परिभ्रष्टं करोद्यताः

76.28

दातुकामा तथा भैक्ष्यं चेष्टितुं नैव शक्यते ।
काचिद् दृष्ट्वा महादेवं रूपयौवनगर्विता

76.29

उत्सङ्गे संस्थितं वालं पतितं व्यस्मरत् ततः ।
कामबाणहता चान्या बाहुभ्यां पीडति स्तनौ

76.30

निःश्वसन्ती तथा चान्या न किंचित् परिजल्पते ।
एवम् अक्षोभयत् सर्वा महेशः पतिदेवताः

76.31

चालितास्ता विदित्वा तु निर्जग्मुर् द्वारिसत्वराः ।
संचिताः परमं कृत्वा सर्वा देवो महेश्वरः

76.32

क्षोभयित्वा गणं स्त्रीणां गतश् चादर्शनं च तम् ।
ततो विप्रगणः सर्वः समायातो ददर्श ह

76.33

क्षोभितं स्त्रीजनं सर्वं हरेण क्रोधमाविशत् ।
क्रोधाविष्टो द्विजः कश्चिद् दण्डम् उद्यम्य धावति

76.34

कुठारहस्तो ह्य् अपरस् तथान्यो दर्भमुष्टिमान् ।
इतश्चेतश्च ते सर्वे भ्रमित्वा तच् च काननम्

76.35

एकीभूता महात्मानो व्याजहुश् च रुषा गिरम् ।
यदि दत्तं हुतं किंचिद् गुरवस्तोषिता यदि

76.36

तेन सत्येन देवस्य लिङ्गं पततु भूतले ।
एवं सत्यप्रभावेण वचनेन द्विजन्मनाम्

76.37

देवस्य पश्यतो लिङ्गं पतितं धरणीतले ।
हाहाकारो महानासील् लोकालोके तु भारत

76.38

देवस्य पतितं लिङ्गं जगत्य् एव महाक्षयम् ।
पतमानस्य लिङ्गस्य शब्दो ऽभूत् तत्र दारुणः

76.39

पतन्ति पर्वताग्राणि शोषम् आयान्ति सागराः ।
देवस्य पतिते लिङ्गे विमानैर् देवदानवाः

76.40

समेत्य सहिताः सर्वे ब्रह्मणा परमेष्ठिना ।
कृताञ्जलिपुटा देवं स्तुवन्ति विविधैः स्तवैः

76.41

ततस् तुष्टो जगन्नाथो देवानां वरदो ऽभवत् ।
देवो ऽपि पतिते लिङ्गे शापेन धरणीतले

76.42

गत्वा दारुवनं विप्रांस् तोषयामास भारत ।
विश्वामित्रो वशिष्ठाद्या जाबालिर् अथ काश्यपः

76.43

समेत्य सहिताः सर्वे तम् ऊचुस् त्रिपुरान्तकम् ।
महाजनो ऽपि बलवान् नावज्ञेयः सुरेश्वरः

76.44

क्षान्तियुक्तो ऽपि भूत्वा च भविष्यसि गतक्लमः ।
विध्वंसिता विप्रदारा यद् एतल् लिङ्गम् उत्तमम्

76.45

पतितं ते महादेव एतत् पुण्यं भविष्यति ।
तत्पुण्यं नाग्निहोत्रेण अग्निष्टोमैर् न लभ्यते

76.46

यच्छर्म रुद्र प्राप्स्यन्ति मानवा लिङ्गपूजया ।
देवानां चैव यक्षाणां गन्धर्वोरगरक्षसाम्

76.47

वचनेन तु विप्राणाम् एतत् पुण्यं भविष्यति ।
ब्रह्मविष्ण्विन्द्ररुद्राणां दर्शनेन च यत्फलम्

76.48

तत्फलं तस्य लिङ्गस्य दर्शने सकलं लभेत् ।
एवम् उक्तो जगन्नाथः प्रणिपत्य द्विजोत्तमान्

76.49

मुदा परमया युक्तस् तांश् चैव प्रत्यभाषत ।
ब्राह्मणा जङ्गमं तीर्थं निर्जलं सर्वकामिकम्

76.50

येषां वाक्योदयेनैव शुद्ध्यन्ति मलना जनाः ।
किंचित् तीर्थं न हि क्षेत्रमूषरं गह्वराणि च

76.51

ब्राह्मणाच् छ्रेष्ठम् उद्दिष्टं यत्र गत्वा विशुद्ध्यति ।
पृथिव्यां यानि तीर्थानि गङ्गाद्याः सरितस् तथा

76.52

एकस्या विप्रवाक्यस्य कला नार्हन्ति षोडशीम् ।
अभिनन्द्य द्विजान् सर्वान् अनुज्ञातो महानृषिः

76.53

ततो ऽगाच् च महादेवो नर्मदातटम् उत्तमम् ।
परम व्रतम् आस्थाय गुहावासं महार्बुदम्

76.54

मौनं चचार भगवाञ्जपध्यानरतः सदा ।
समाप्ते नियमे तात स्थापयित्वा महेश्वरम्

76.55

वन्द्यमानः सुरैः सार्धं कैलासम् अगमत् प्रभुः ।
नर्मदायास् तटे येन स्थापितः परमेश्वरः

76.56

तेनैव कारणेनासौ नर्मदेश्वरमुत्तमम् ।
यद् यद् आचरति श्रेष्ठस् तत्तद् एवेतरो जनः

76.57

स यत्प्रमाणं कुरुते लोकस् तद् अनुवर्तते ।
तत्र तीर्थे नरः स्नात्वा विधिना सुजितेन्द्रियः

76.58

अर्चयित्वा महादेवम् अश्वमेधफलं लभेत् ।
पितृभ्यो ददते यस् तु तिलपुष्पकुशोदकम्

76.59

त्रिसप्तपुरुषास् तस्य स्वर्गे पाण्डव मोदन्ते ।
यस् तु भोजयते विप्रान् यथाशक्त्या नरोत्तमः

76.60

तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम् ।
सुवर्णं रजतं वापि ब्राह्मणेभ्यो युधिष्ठिर

76.61

ददते तोयम् आस्पृश्य सो ऽग्निष्टोमफलं लभेत् ।
अष्टम्यां च चतुर्दश्यां पूजयेच् च विशेषतः

76.62

नर्मदेश्वरम् आसाद्य अवाप्तं जन्मनः फलम् ।
अग्निवेशे जले वापि अनाशकमृतश् च यः

76.63

अनिवर्तिका गतिस् तस्य यथा मे शङ्करो ऽब्रवीत् ।
एतत् कीर्तयते यस् तु नर्मदेश्वरम् उत्तमम्

76.64

भक्त्या शृणोति यो राजन्न् अश्वमेधफलं लभेत्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc