भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 75

75.1

इति श्रीस्कन्दपुराणे रेवाखण्डे दारुतीर्थतमहिमानुवर्णनो नाम चतुःसप्ततितमो ऽध्यायः ॥
र्क्स् अध्याय 75
मार्कण्डेय उवाच:
ततो गच्छेच् च राजेन्द्र देवतीर्थम् अनुत्तमम् ।
यत्र देवास् त्रयस्त्रिंशत् तप्त्वा सिद्धिं परां गताः

75.2

पुरा देवासुरे युद्धे दानवैर् बलदर्पितैः ।
इन्द्रो देवगणैः सार्द्धं स्वराज्याच् च्यावितो भृशम्

75.3

हस्त्यश्वरथयानौघैर् मर्दयित्वा च वाहिनीम् ।
विशक्ता भेजिरे मार्गं प्रहारैर् जर्जरीकृताः

75.4

जम्भशुम्भनिशुम्भाद्यैस् तु हुण्डग्रहकैः सह ।
बलिभिर् बाधिताः सर्वे ब्रह्माणम् उपतस्थिरे

75.5

प्रणम्य शिरसा देवं ब्रह्माणं परमेष्ठिनम् ।
व्यज्ञापयन्त देवेशम् इन्द्राग्निकपुरोगमाः

75.6

पश्य पश्य महाभाग दानवैर् आकुलीकृताः ।
बाधिताः पुत्रदाराभ्यां त्वाम् एव शरणं गताः

75.7

परित्रायस्व देवेश सर्वलोकपितामह ।
नान्या गतिः सुरेशान मुक्त्वा त्वां परमेष्ठिनम्

75.8

ब्रह्मोवाच:
दानवानां विघातार्थं नर्मदातटम् आश्रिताः ।
तपः कुरुत भो देवास् तपो हि परमं बलम्

75.9

नान्योपायो न वै मन्त्रो न विद्या न च विक्रमः ।
विना रेवाजलं पुण्यं सर्वपापक्षयं करम्

75.10

दारिद्र्यव्याधिमरणबन्धनव्यसनानि च ।
एतानि चैव पापस्य फलानीति मतिर् मम

75.11

एवं ज्ञात्वा विधानेन तपः कुरुत दुष्करम् ।
पूज्यते शाम्भवं सर्वैः प्राप्नुयाताभयं ततः

75.12

तच्छ्रुत्वा वचनं देवा ब्रह्मणः परमेष्ठिनः ।
नर्मदामागताः सर्वे तदेन्द्राग्निपुरोगमाः

75.13

विचेरुस् तत्र विपुलं तपः परमदुःसहम् ।
सकल्पैः परमां राजंस् तत् ते सिद्धिम् अवाप्नुवन्

75.14

तदा प्रभृति तत् तीर्थं देवतीर्थम् इति श्रुतम् ।
गीयते सर्वलोकेषु सर्वपापक्षयंकरम्

75.15

तत्र श्रद्धात्मना यो ऽपि विधिनापि समन्वितः ।
स्नानं समाचरेद् भक्त्या स लभेन् मौक्तिकं फलम्

75.16

यस् तम् अर्चयते देवं सर्वदेवैस् तु पूजितम् ।
लभते चाश्वमेधस्य फलं यागस्य चोत्तमम्

75.17

यस् तु भोजयते विप्रांस् तस्मिंस् तीर्थे नराधिप ।
तत्र देवशिला रम्या महापुण्याद्रिर्वधिनी

75.18

संन्यासेन मृतानां तु नराणामक्षया गतिः ।
अग्निप्रवेशं यः कुर्याद् देवतीर्थे युधिष्ठिर

75.19

रुद्रलोके वसेत् तावद् यावद् आहूतसम्प्लवम् ।
एवं स्नानं जपो होमः स्वाध्यायो देवतार्चनम्

75.20

सुकृतं दुष्कृतं वापि तत्र तीर्थे ऽक्षयं भवेत् ।
एतावद् विधिर् उद्दिष्टा उत्पत्तिश् चैव भारत

75.21

देवतीर्थस्य चरितं सर्वतीर्थेष्व् अनुत्तमम्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc