भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 74

74.1

इति श्रीस्कन्दपुराणे रेवाखण्डे मेघनादेश्वरमहिमानुवर्णनो नाम त्रिसप्ततितमो ऽध्यायः ॥
र्क्स् अध्याय 74
मार्कण्डेय उवाच:
ततो गच्छेच् च राजेन्द्र दारुतीर्थम् अनुत्तमम् ।
दारुको यत्र संसिद्धिम् इन्द्रस्य दयितः सखा

74.2

युधिष्ठिर उवाच:
दारुकेण कथं तात तपश्चीर्णं पुरा ऽनघ ।
विधानं श्रोतुम् इच्छामि सर्वपापक्षयं करम्

74.3

मार्कण्डेय उवाच:
अहं ते कथयिष्यामि विचित्रं यत् पुरातनम् ।
वृत्तं समभवत् तत्र ऋषीणां भावितात्मनाम्

74.4

सूतो वज्रधरस्यासीत् मातलिर्नामनामतः ।
स पुत्रं शप्तवान् पूर्वं कथंचित् कारणान्तरे

74.5

शापहेतोर् वेपमान इन्द्रस्य चरणौ शुभौ ।
प्रपीड्य तत्र देवेन्द्रं विज्ञापयति भारत

74.6

मम ताताभिशप्तस्य अनाथस्य सुरेश्वर ।
कर्मणा केन शापस्य घोरस्यान्तो भविष्यति

74.7

शक्र उवाच:
नर्मदातटम् आश्रित्य तोषय त्वं महेश्वरम् ।
तिष्ठ यावद् युगस्यान्तं पुनर्जननम् आप्स्यसि

74.8

पुनर्भूत्वा यदुकुले दारुको नाम नामतः ।
आरोहयित्वा देवेशं शङ्खचक्रगदाधरम्

74.9

मानुषं तत्र सम्पन्नं ततः सिद्धिम् अवाप्स्यसि ।
एवम् उक्तस् तु देवेन सहस्राक्षेण भारत

74.10

प्रणम्य शिरसा भूमिम् आगतो ऽसौ हतप्रभः ।
नर्मदा तटम् आश्रित्य कर्शितस्वकलेवरः

74.11

व्रतोपवार्सैर् विविधैर् जपहोमपरायणः ।
महादेवं महात्मानं वरदं शूलपाणिनम्

74.12

अभजत् परया भक्त्या यावद् आहूतसम्प्लवम् ।
अंशावतरणे विष्णोस् ततो भूत्वा महामतिः

74.13

तोषयित्वा जगन्नाथं ततो यातः स सद्गतिम् ।
एष ते सम्भवस् तात दारुतीर्थस्य सुव्रत

74.14

कथितस् तु मया पूर्वं यथा मे शङ्करो ऽब्रवीत् ।
ततो युधिष्ठिरो राजा विस्मयाविष्टचेतनः

74.15

भ्रान्तो ऽवलोकयामास स्तब्धरोमा मुहुर् मुहुः ।
तस्मिंस् तीर्थे नरः स्नात्वा विधिपूर्वं नरेश्वर

74.16

उपास्य सभ्यां तत्रैव संतर्प्य पितृदेवताः ।
देहत्यागं च तत्रैव यः करोति समाहितः

74.17

सो ऽश्वमेधफलं प्राप्य रमते शिवसन्निधौ ।
तस्मिंस् तीर्थे तु यो भक्त्या भोजयेद् ब्राह्मणं शुचिः

74.18

स तु विप्रसहस्रस्य लभते फलम् उत्तमम् ।
स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम्

74.19

यत्कृतं तु शुभं तत्र तत्सर्वं लभते ऽक्षयम्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc