भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 73

73.1

इति श्रीस्कन्दपुराणे रेवाखण्डे विष्णुस्तुतिर्नाम द्विसप्ततितमो ऽध्यायः ॥
र्क्स् अध्याय 73
मार्कण्डेय उवाच:
ततो गच्छेच् च राजेन्द्र मेघनादम् इति स्मृतम् ।
जलमध्ये महादेवो यत्र तिष्ठत्य् अदर्शितः

73.2

युधिष्ठिर उवाच:
जलमध्ये महादेवस् तिष्ठते केन हेतुना ।
उत्तरं दक्षिणं कूलं वर्जयित्वा द्विजोत्तम

73.3

मार्कण्डेय उवाच:
एतद् आख्यानम् अतुलं पुण्यं श्रुतिसुखावहम् ।
पुराणे यच्छ्रुतं तात तत् ते वक्ष्याम्य् अशेषतः

73.4

पुरा त्रेतायुगे तात पौलस्त्यो देवकण्टकः ।
त्रिलोकविजयी रौद्रः सुरासुरभयंकरः

73.5

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
अवध्यो वरदानेन यत्र पर्यटते महीम्

73.6

तत्र देवगिरौ रम्ये दानवो बलदर्पितः ।
मयो नामेति विख्यातो महानासीन् नृपेश्वर

73.7

रावणस् तं ततो गत्वा विनयावनतः स्थितः ।
पूजितो दानसंमानैर् मयं वचनम् अब्रवीत्

73.8

कस्येयं पद्मपत्राक्षी पूर्णचन्द्रनिभानना ।
किं नामधेया तपते तप उग्रं कथं विभो

73.9

मय उवाच:
दानवानां पतिः श्रेष्ठो मयो ऽहं नामनामतः ।
भार्या तेजवती नाम ममेयं तनया शुभा

73.10

मन्दोदरीति विख्याता तपते पतिकारणात् ।
श्रुत्वा तु वचनं तस्य रावणो मददर्पितः

73.11

प्रश्रितः प्रणतो भूत्वा मयं वचनम् अब्रवीत् ।
पौलस्त्यो नाम राजाहं देवदानवदर्पहा

73.12

प्रार्थयामि महाभाग सुतां त्वं दातुम् अर्हसि ।
ज्ञात्वा पैतामहं वंशं मयेनापि महात्मना

73.13

सुता दत्ता रावणाय कृत्वा विधिविधानतः ।
गृहीत्वा तां तदा रक्षः पूज्यमानो निशाचरैः

73.14

दिव्यैर् यानैर् विमानैश् च क्रीडते तु तया सह ।
पुत्रं पुत्रवतां श्रेष्ठो जनयामास भारत

73.15

तेनैव जातमात्रेण रवो मुक्तो महात्मना ।
संवर्तकस्य मेघस्य येन लोको जडीकृतः

73.16

श्रुत्वा तन्निनदं घोरं त्रस्तो लोकपितामहः ।
नाम चक्रे तदा तस्य मेघनादो भविष्यति

73.17

एतन् नामकृतं सो ऽपि परमं व्रतम् आस्थितः ।
भावयामास देवेशम् उमया सह शङ्करम्

73.18

व्रतैर् नियमदानैश् च होमैर् जाप्यैर्विधानतः ।
कृच्छ्रचान्द्रायणैर् दिव्यैः क्लिश्यते च कलेवरम्

73.19

एवम् अन्यद् दिने तात कैलासं धरणीधरम् ।
गत्वा लिङ्गम् अयं प्राप्य प्रस्थितो दक्षिणामुखः

73.20

नर्मदातटम् आश्रित्य स्नातुकामो महाबलः ।
निक्षिप्यापूजयद् देवं कृत्वा जाप्यं जनेश्वरः

73.21

गन्तुकामः परं मार्गं लङ्कायां नृपसत्तम ।
एकं समुद्धृतं लिङ्गं गृहितं सव्यपाणिना

73.22

प्रथमं च द्वितीयं च भक्त्या पौलस्त्यनन्दनः ।
तदा देवमहालिङ्गं पतितं नर्मदाम्भसि

73.23

पाहि पाहीति तेनोक्तो लिङ्गेन परमेष्ठिना ।
द्वितीयं पतितं तावद् उत्तरे नर्मदातटे

73.24

मेघनादेति विख्यातं लिङ्गं तत्र सुशोभनम् ।
मध्यमेश्वरनामेति जलमध्ये व्यवस्थितम्

73.25

यावद् उद्धर्तुकामो ऽसौ सप्तपातालम् आगमत् ।
देवयोर् निश्चयं ज्ञात्वा निवृत्तो ऽसौ निशाचरः

73.26

जगामाकाशम् आविश्य पूज्यमानो निशाचरैः ।
तदा प्रभृति तत्तीर्थं मेघनादेति विश्रुतम्

73.27

मेघारवेति विख्यातम् उत्तरे खेटकः शुभः ।
पूर्वे तु गर्जनं नाम सर्वपापक्षयंकरम्

73.28

तस्मिंस् तीर्थे तु राजेन्द्र यस् तु स्नानं समाचरेत् ।
अहोरात्रोषितो भूत्वा स लभेच्छाश्वतं शुभम्

73.29

पिण्डदानं तु यः कुर्यात् तस्मिंस् तीर्थे नराधिप ।
तेन द्वादश वर्षाणि पितरस् तर्पिता दिवि

73.30

यस् तु भोजयते विप्रांस् तस्मिंस् तीर्थे नराधिप ।
यत्फलं योगिनां तत्र लभते नात्र संशयः

73.31

अग्निवेशं जले वापि अथवापि ह्य् अनाशकम् ।
अनिवर्तिका गतिस् तस्य स्याद् इदं शङ्करो ऽब्रवीत्

73.32

एवं ते नरशार्दूल गर्जितेश्वरम् उत्तमम् ।
कथितं स्मरणाद् एव सर्वपापक्षयं करम्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc