भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 72

72.1

इति श्रीस्कन्दपुराणे रेवाखण्डे द्वीपेश्वरवर्णनो नामैकसप्ततितमो ऽध्यायः ॥
र्क्स् अध्याय 72
मार्कण्डेय उवाच:
नर्मदासङ्गमं पुण्यं सुरसिद्धनिषेवितम् ।
तत्र स्नात्वा दिवं यान्ति पूजयित्वा महेश्वरम्

72.2

आगच्छन्ती पुरा लोके नर्मदा भरतर्षभ ।
स्तुता पूर्वं नमस्कृत्य देवैर् ब्रह्मर्षिभिस् तथा

72.3

त्वया पवित्रितं पुण्यं मर्त्यलोकं चराचरम् ।
अपां रूपगता रेवा हरस्य परमा कला

72.4

उमा कात्यायनी गङ्गा यमुना च सरस्वती ।
चामुण्डा चर्चिका देवी रेवा त्वं सप्तकल्पगा

72.5

शिवजा प्रवहा पुण्या मेकलाद्रिसुता स्तुता ।
यज्ञयूपा च मूर्धा च स्वर्गमोक्षप्रदा तथा

72.6

तारिणी सर्वभूतानां पापघ्नी च तरङ्गिणी ।
लक्ष्मीः स्वाहा स्वधा चैव पुरुहूता यशस्विनी

72.7

त्वया व्याप्तं जगत्कृत्स्नम् अपां रूपेण सुव्रते ।
सङ्गमं सिद्धलिङ्गं च सुरासुरनमस्कृतम्

72.8

अत्र दत्तं हुतं सर्वम् एतद् भवति चाक्षयम् ।
अत्यद्भुतं महाराज नर्मदास्नानम् अर्चनम्

72.9

अनेकानि सहस्राणि विमानानि युधिष्ठिर ।
नानारत्नप्रभाजालैः सूर्यकोटिसमानि च

72.10

गतानि धर्मराजस्य पुरीं वीणादिनिः स्वनैः ।
नादयन्ति दिवं भूमिं वेदनिर्घोषणादिभिः

72.11

एकस्मिन् समये दृष्ट्वाश्चर्यं वैवस्वतो नृपः ।
अत्रिश् चैव वशिष्ठश् च पुलस्त्यः पुलहः क्रतुः

72.12

इत्याद्याः सप्त मुनयो धर्माधर्मविचारकाः ।
शिवेन स्थापिताः पूर्वं हरिणा ब्रह्मणा तथा

72.13

युधिष्ठिर उवाच:
अक्षीणकर्मबन्धुस् तु पुरुषो मुनिसत्तम ।
परं पदम् अवाप्नोति तन् मे कथय कल्पग

72.14

मार्कण्डेय उवाच:
विष्णुना कथितं पूर्वं ब्रह्मणे च महात्मने ।
प्रपद्ये पुण्डरीकाक्षं देवं नारायणं हरिम्

72.15

लोकनाथं सहस्राक्षम् अक्षरं परमं पदम् ।
भगवन्तं प्रपद्ये ऽहं भूतभव्यभवत्प्रभुम्

72.16

स्रष्टारं सर्वभूतानाम् अनन्तबलपौरुषम् ।
पद्मनाभं हृषीकेशं प्रपद्ये सत्यम् अव्ययम्

72.17

हिरण्यगर्भं भूगर्भम् अमृतं विश्वतोमुखम् ।
अनश्वरमनाथं च प्रपद्ये भास्करद्युतिम्

72.18

सहस्रशिरसं देवं वैकुण्ठं तार्क्ष्यवाहनम् ।
प्रपद्ये सूक्ष्मम् अचलं वरेण्यम् अभयप्रदम्

72.19

नारायणं हरिं चैव योगात्मानं सनातनम् ।
शरण्यं सर्वलोकानां प्रपद्ये ध्रुवमीश्वरम्

72.20

यः प्रभुः सर्वभूतानां येन सर्वम् इदं ततम् ।
यः संहारकरो देवः स मे विष्णुः प्रसीदतु

72.21

यस्माज् जातः पुरा ब्रह्मा पद्मयोनिः प्रजापतिः ।
प्रसीदतु स मे विष्णुः पितामहपरः प्रभुः

72.22

पुरा लये तु संप्राप्ते नष्टे लोके चराचरे ।
एकस् तिष्ठति योगात्मा स मे विष्णुः प्रसीदतु

72.23

जयेद् यः पृथिवीं सत्यं कालो धर्मः क्रियाफलम् ।
गणाकारः स तां वाचो वासुदेवः प्रसीदतु

72.24

योगावास नमस्तुभ्यं सर्वावास वरप्रद ।
यज्ञभोगिन् पञ्चभोगिन् नारायण नमो ऽस्तु ते

72.25

चतुर्मूर्ते जगद्धाम लक्ष्मीवास वरप्रद ।
विश्वावास नमस्ते ऽस्तु साक्षीभूत जगत्पते

72.26

अजेयः षड्विभागैकविश्वमूर्तिर् वृषाकपिः ।
मृगाधिपश् च कालश् च नमस् ते ज्ञानसागर

72.27

अव्यक्तादण्डम् उत्पन्नम् अव्यक्ताद् अपरः प्रभुः ।
यस्मात् परतरं नास्ति तम् अस्मि शरणं गतः

72.28

चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम् ।
एकांशेन जगत्सर्वं यो विष्टभ्य विभुः स्थितः

72.29

अग्राह्यो निर्गुणः शास्ता तम् अस्मि शरणं गतः ।
दिवाकरस्य सोमस्य मध्ये ज्योतिर् इव स्थितम्

72.30

क्षेत्रज्ञ इति यं प्राहुः स महात्मा प्रसीदतु ।
सांख्ययोगेन ये चान्ये सिद्धाश् चैव महर्षयः

72.31

यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ।
नमस्ते सर्वतोभद्र सर्वतो ऽक्षिशिरोमुख

72.32

निर्विकार नमस्ते ऽस्तु आदिकल्प हृदि स्थित ।
अतीन्द्रिय नमस्तुभ्यं परमात्मन् नमो ऽस्तु ते

72.33

ये च त्वाम् अभिजानन्ति संसारे न वसन्ति ते ।
रागद्वेषविनिर्मुक्ता लोभमोहविवार्जिताः

72.34

अशरीरः सुगुप्तः सन् सर्वदेहेषु तन् मयः ।
अव्यक्तबुद्ध्य् अहंकारमहाभूतेन्द्रियाणि च

72.35

त्वयि तानि न तेषु त्वं ते च तानि न तु स्वयम् ।
अव्यक्तो नातिकूटस्थो गुणानां प्रभुरीश्वरः

72.36

आवर्तो हेतुर् अहितः प्रभुः स्वात्मव्यवस्थितः ।
नमस्ते पुण्डरीकाक्ष वासुदेव नमो ऽस्तु ते

72.37

ईश्वरो ऽसि जगन्नाथ किम् अतः परमुच्यते ।
भक्तानां मुक्तिदस् त्वं च गुरुश् च त्रिदशेश्वरः

72.38

समे भूतपतिस् त्वं हि प्रभुर् जन्मनि जन्मनि ।
अहंकारेण बद्धो वा तथा सत्त्वादिभिर् गणैः

72.39

पृथिवीं यातु मे घ्राणं यातु मे रसनाजलम् ।
चक्षुर्हुताशनं यातु स्पर्शो मे यातु मारुतम्

72.40

शब्दश् चाकाशम् आयातु मनो वै कारणं तथा ।
अहंकारश् च मे बुद्धिं त्वयि बुद्धिर् ममास्त्व् इति

72.41

वियोगः सर्वकरणैर् गुणैर् भूतैस् तथा ऽस्तु मे ।
सत्त्वं रजस्तमश् चैव प्रकृतिं स्वां विशन्तु मे

72.42

प्रभोः प्रभुमनवद्यं प्रपद्ये ऽहं नरः प्रभुम् ।
सहस्रशिरसं देवं महर्षिं भूतभावनम्

72.43

ब्रह्मयोनिश् च विश्वस्य स मे विष्णुः प्रसीदतु ।
ब्रह्मपत्न्यां प्रलीयन्ते नष्टे स्थावरजङ्गमे

72.44

आहूतसंप्लवे चैव लीयते प्रकृतौ महत् ।
हूयते च पुनस् ताभ्यां स मे विष्णुः प्रसीदतु

72.45

अग्निसोमार्कदेवानां ब्रह्मरुद्रेन्द्रयोगिनाम् ।
यस्ते जयति तेजांसि स मे विष्णुः प्रसीदतु

72.46

अजस्त्वं जगतः पन्था अमूर्तिर्वीश्वमूर्तिजित् ।
नवं प्रधानं च महान् पुरुषश् चेतनो ऽलसः

72.47

अगोप्यो यः परतरस् तम् एव शरणं गतः ।
सोमसूर्योपमस् तेजो यो ऽवतारयति स्वयम्

72.48

विजायन्ते दिशो यस्मात् स महात्मा प्रसीदतु ।
गुणवान् निर्गुणश् चैव चेतनो ऽचेतनो स्वगः

72.49

सूक्ष्मः सर्वगतो देहः स महात्मा प्रसीदतु ।
सूर्यमध्ये स्थितः सोमस् तस्य मध्ये तु संस्मृतः

72.50

भूतत्वाद् यो ऽचलो दीप्तः स महात्मा प्रसीदतु ।
एकत्वात् तव नानात्वं ये विदुर्यान्ति ते परम्

72.51

समः सर्वेषु भूतेषु प्रद्वेष्यात्मजनप्रियः ।
समं भजत्य् अनाकाङ्क्षी भजते नान्यचेतसः

72.52

यो ऽयं सर्वात्मना ज्ञेयः स मे विष्णुः प्रसीदतु ।
चराचरम् इदं सर्वं भूतग्रामं चतुर्विधम्

72.53

त्वयि तं तन्तुवत् प्रोतं सूत्रे मणिगणा इव ।
न ते धर्मो ह्य् अधर्मो ऽस्ति न गर्भो जन्म वा पुनः

72.54

जराजन्मविमोक्षार्थं तम् एव शरणं गतः ।
इन्द्रियाणि गुणश् चैव श्वासोच्छ्वासश् च योनिषु

72.55

केवलं दारुवद् देहं नश्यं यत् परमापदम् ।
स्वयम् एकाकिभावो मे जन्मतो ऽत्र पुनर्भवः

72.56

त्वद् बुद्धिस् त्वद् गतप्राणा त्वद् भक्तस् त्वत् परायणः ।
त्वाम् एवाहं स्मरिष्यामि मरणे पर्युपस्थिते

72.57

पूर्वदेहे कृता ये तु व्याधयः प्रविशन्तु माम् ।
वातादयश् च दुःखानि ऋणं तन् मुञ्चतात् प्रभो

72.58

श्रेयसां च परं श्रेयस् त्व् अन्येषां च यशस्विनाम् ।
सर्वपापविशुद्ध्यर्थं पुण्यं यत्परमं पदम्

72.59

प्रातर् उत्थाय सततं मध्याह्ने च दिनक्षये ।
अजस्रं च तथा जप्यं सर्वपापोपशान्तिदम्

72.60

हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम् ।
प्रणतो ऽस्मि जगन्नाथं स मे पापं व्यपोहतु

72.61

गोवर्धनधरं देवं गोब्राह्मणहिते रतम् ।
प्रणतो ऽस्मि गदापाणिं स मे पापं व्यपोहतु

72.62

शङ्खिनं चक्रिणं विष्णुं शार्ङ्गिणं मधुसूदनम् ।
प्रणतो ऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु

72.63

दामोदरं मुदा युक्तं पुण्डरीकाक्षम् अव्ययम् ।
प्रणतो ऽस्मि स्थितं स्थित्यै स मे पापं व्यपोहतु

72.64

नारायणं नरं सौम्यं माधवं च जनार्दनम् ।
श्रीवत्सं श्रीवपुः श्रीमच् छ्रीधरं श्रीनिकेतनम्

72.65

प्रणतो ऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ।
यम् ईशं सर्वभूतानां ध्यायन्ति च तमक्षरम्

72.66

वासुदेवमनिर्देश्यं तम् अस्मि शरणं गतः ।
सर्वबन्धविनिर्मुक्तो यं प्रविश्य पुनर्भवम्

72.67

पुरुषो नैव प्राप्नोति तम् अस्मि शरणं गतः ।
कृत्वा ब्रह्मवपुः सर्वं सदेवासुरमानुषम्

72.68

यः करोति पुनः सृष्टिं तम् अस्मि शरणं गतः ।
ब्रह्मरूपधरं देवं योनिरूपं जनार्दनम्

72.69

सृष्टित्वे संस्थितं नित्यं प्रणतो ऽस्मि जनार्दनम् ।
यस्मान् नान्यत् परं किंचिद् यस्मिन् सर्वम् इदं जगत्

72.70

यः सर्वमध्यगो ऽनन्तः सर्वगं तं नमाम्य् अहम् ।
यो ऽस्ति भूतेषु सर्वेषु स्थावरे जङ्गमेषु च

72.71

विष्णुर् एव स वै पापं ममाशेषं प्रणश्यतु ।
न वृत्तं निर्वृतं कर्म विष्णोर् यत्कर्म वा कृतम्

72.72

अनेकजन्मकर्मोत्थं पापं नश्यति मे तथा ।
निशायां च तथा प्रातर् मध्याह्णे चापराह्णयोः

72.73

अज्ञानाच् च कृतं पापं कर्मणा मनसा गिरा ।
यत्कृतं चाशुभं किंचित् तत्सर्वं नश्यतु क्षणात्

72.74

तत्सर्वं विलयं यातु तोयेषु लवणं यथा ।
परपीडां च निन्दां च कुर्वतो जन्म नार्जितम्

72.75

परद्रव्यपरक्षेत्रवाञ्छा क्रोधोद्भवं च यत् ।
तत्सर्वं विलयं यातु तोयेषु लवणं यथा

72.76

विष्णवे वासुदेवाय हरये केशवाय च ।
जनार्दनाय कृष्णाय नमो भूयो नमो नमः

72.77

नाभागो नाम राजर्षिर् नर्मदातीरसङ्गमे ।
चकार स्तोत्रम् अतुलं वैष्णवं तु प्रजापतिः

72.78

ब्रह्मणो ऽङ्गिरसा प्राप्तं तस्माद् इन्द्रेण भारत ।
वशिष्ठः श्रावयामास नाभागं राजसत्तमम्

72.79

स्नात्वा च नर्मदातोये दत्त्वा दानान्य् अनेकशः ।
कामिकं यानमारुह्य नाभागः स्वपुरीं ययौ

72.80

स्तौति नामसहस्रेण यः स्तवेन जनार्दनम् ।
न तस्य पुनरावृत्तिर्घोरे संसारसागरे

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc