भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 71

71.1

र्क्स् अध्याय 71
मार्कण्डेय उवाच:
दीप्तकेश्वरदेवेशं सिद्धलिङ्गं प्रकीर्तितम् ।
नातः परतरं किंचित् त्रिषु लोकेषु विश्रुतम्

71.2

दर्शनाद् दीप्तदेवस्य स्पर्शनाद् अर्चनात् तथा ।
अनेकभाविकं घोरं क्षणमात्रेण नश्यति

71.3

अर्चयेद् दिनम् एकं तु यो मुहूर्तं तु मानवः ।
न तस्य पुनरावृत्तिर् घोरे संसारसागरे

71.4

मोक्षदा नाम चामुण्डा विद्धि गौरीं सरस्वतीम् ।
स्तुतः सहस्रनाम्ना वै विष्णुना ब्रह्मणा स्वयम्

71.5

स्तुतानि तानि लिङ्गानि रेवाया उत्तरे तटे ।
ओंकारश्चाधिदेवश् च बिल्वाम्रकमहेश्वरः

71.6

शुक्लेश्वरो भृगुश् चेति द्वीपेश्वरत्रिलोचनौ ।
वैवस्वते ऽन्तरे प्राप्ते आदिकल्पेकृतेयुगे

71.7

श्रीपतिः परमाद्यश् च द्वितीयश् च पितामहः ।
तृतीयो देवराजश् च चतुर्थः सूर्य एव च

71.8

पञ्चमः कथितः सोमः षष्ठो राहुः प्रकीर्तितः ।
सप्तमश् च शनिश् चैव त्वष्टमः केतुकः स्मृतः

71.9

वैश्वानरश् च नवमो दशमश् च दिगीश्वरः ।
एकादशो वैक्रमश् च द्वादशो वारुणस् तथा

71.10

त्रयोदशश् च वायुर् वै धनदश् च चतुर्दशः ।
नाना पदप्रकारेण स्तुतो देव उमापतिः

71.11

विष्णुना देवनाथेन ब्रह्मणा च सुरासुरैः ।
स्थिरः स्थाणुः प्रभाभानुः प्रवरो वरदो वरः

71.12

हरिश्च हरिणाख्यश् च सर्वभूतहरः प्रभुः ।
प्रवृत्तिश् च निवृत्तिश् च नियमः शाश्वतो ध्रुवः

71.13

श्मशानवासी भगवान् खेचरो गोचरस् तथा ।
अभिवन्द्यो महाकर्मा तपस्वी भूतभावनः

71.14

उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ।
महारूपो महाकायः सर्वलोकप्रजापतिः

71.15

परात्मा सर्वभूतानां विरूपो वामनो मनुः ।
लोकपालो पिहितात्मा प्रसन्नो भवनाशनः

71.16

प्रवृत्तश् च महाङ्गश् च निचयो नियताश्रयः ।
सर्वकामः स्वयम्भूश् च आदिनादिकरो निधिः

71.17

सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ।
चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः

71.18

तपोद्रष्टा बलः स्थातुर् मृगबाणार्पणो ऽनघः ।
महातपा दीर्घतपा आदिर्दीनानुकम्पनः

71.19

सवत्सरकरो मन्त्रः प्रमाणं परमं तपः ।
योगी योगमहावीर्यो महारेता हरो हरः

71.20

महाचेताश् च सर्वज्ञः सबीजो ऽपहरो हरः ।
कमण्डलुधरो धन्वी प्राणहस्तः प्रतापवान्

71.21

अंशो ऽनीशस् तथा शूली खट्वाङ्गी पट्टिशी तथा ।
शुचिश् च शुचिरूपश्च तेजस्तेजस्करो निधिः

71.22

उष्णीषी च सुवक्त्राश्च उदक्यो वितनस् तथा ।
हरिश् च हरिनेत्रश् च सुतीर्थः कृष्ण एव च

71.23

शृगालरूपी सर्वार्थः शुण्डीशुद्धः कमण्डलुः ।
अजश् च गन्धमाली च मृगरूपी कपालभृत्

71.24

ऊर्ध्वरेता ऊर्ध्वसाक्षी ऊर्ध्वबाहुर्नभः स्थलः ।
त्रिजटी च निवासश् च रुद्रः सेनापतिर्विभुः

71.25

अहश् चरो रात्रिचरः सुवासश्च दिशाम्पतिः ।
राजहा दैत्यहा चैव धातारूपगुणात्मकः

71.26

सिंहशार्दूलरूपश् च आर्द्रचर्मधरो हरः ।
कालयोगी महानादः सर्ववासश्चतुष्पथः

71.27

दुर्वारप्रेतचारी च भूतचारी महेश्वरः ।
बहुभूतो बहुधनः सर्वार्थो रुचिरा गतिः

71.28

नृत्यप्रियो नृत्यकर्ता नर्तकश् च बलाहकः ।
घोरो महातपा वासो नित्यो गिरिधरो नभः

71.29

सहस्रभूतो विज्ञेयो व्यवसायश् च निश्चयः ।
अमर्षो मर्षणो दक्षो दक्षक्रतुविनाशनः

71.30

दक्षयज्ञापहारी च सुमहो मध्यमस् तथा ।
तेजो ऽपहारी बलिहा मुदितश् चार्चितो भवः

71.31

गम्भीरघोषो गम्भीरो गभीरो हव्यवाहनः ।
न्यग्रोधरूपो न्यग्रोधऋक्षवर्णः प्रभुर् विभुः

71.32

तीक्ष्णबाणश् च हर्यक्षो महेशः कर्मकालवित् ।
दीक्षः प्रसादितो यज्ञः समुद्रो वडवानलः

71.33

हुताशश् च हृताशास्यः प्रसन्नात्मा हृताशनः ।
महातेजाः सुतेजाश् च विजयो जय एव च

71.34

ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च ।
शिखी दण्डी जटी ज्वाली मूर्तोदो दुर्बलो बहिः

71.35

वैणवी पापवेतालः कालाग्निः कालदण्डकः ।
नक्षत्रविग्रहो वृद्धिरजो गन्धवहो ऽग्रजः

71.36

प्रजापतिर् हरिर् बाहुर्विभागः सर्वतोमुखः ।
विमोचनः सुरगणो हिरण्यकवचो भवः

71.37

अरजो धूलिधारी च महाचारी श्रुतश्रवाः ।
अनादिः सर्वभूतादिः सर्वस्याद्यः पिता गुरुः

71.38

व्यालरूपो महावासी हीनमाली तरङ्गवित् ।
त्रिपदस् त्र्यम्बको ऽव्यक्तः सर्वबन्धविमोचकः

71.39

सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कन्दनो विभागश् च तुल्यो यज्ञविभागवित्

71.40

सर्ववासी सर्वचारी दुर्वासा भैरवो यमः ।
हिमो हिमकरो यज्ञः सर्वधाता बुधोत्तमः

71.41

लोहिताक्षो महाक्षश् च विजयाख्यो विशारदः ।
संग्रहो विग्रहः कर्म सर्प राजविभूषणः

71.42

मुख्यो विमुक्तदेहश् च देहचारी च कर्दमः ।
सर्वाचारः प्रसादश् च खेचरो बलरूपधृक्

71.43

आकाशवृत्तिरूपश् च निपात उरगः खलः ।
रौद्ररूपः सुरादित्यो वसुरश्मिः सुवर्चसः

71.44

वसुवेगो महावेगो मनोवेगो निशाचरः ।
सर्वावासः श्रियावास आपदीशकलो हरः

71.45

मुनिर् आत्मगतिर् लोकः सहस्रवदनो विभुः ।
यक्षी च यक्षराजश् च श्येनो दीप्तिर् विशाम्पतिः

71.46

उन्मदो मदनाकारो ऽप्य् अर्थानर्थकरो महान् ।
सिद्धयोगो ऽपहारी च सिद्धः सर्वार्थसाधकः

71.47

भिक्षुश् च भिक्षुरूपश् च विभुः षण्णां मृदुत्वचः ।
महासेनो विशाखश् च यष्टिभागो गवाम्पतिः

71.48

वज्रहस्तश् च विष्टम्भिर् विष्ठः स्तम्भन एव च ।
ऋक्षो रिपुकरः कालो मधुर्मधुकलोचनः

71.49

वाचस्पत्यो वाजसेनो नैष्ठश्चाश्रमसूचकः ।
ब्रह्मचारी लोकचारी सर्वचारी सुरत्नवित्

71.50

ईशान ईश्वरः कालो निशाचारी त्वम् एकधृक् ।
अमितश्चाप्रमेयश् च नदीनदकरो ऽव्ययः

71.51

नन्दीश्वरः सुनन्दी च नन्दनो नन्दवर्द्धनः ।
नागहारो विहारी च कालो ब्रह्मविदां वरः

71.52

चतुर्मुखो महालिङ्गश्चतुर्लिङ्गस् तथैव च ।
लिङ्गाध्यक्षः सुरध्यक्षो कालाध्यक्षो युगावहः

71.53

उमापतिरुमाकान्तो जाह्नवी धृतिमान् वरः ।
सर्वार्थः सर्वभूतार्थो नित्यः सर्वव्रतः शुचिः

71.54

यो न ब्रह्मादिभिर् देवो जायते न महर्षिभिः ।
स्तोतव्यः स कथं नाथ परमात्मा परात्परः

71.55

जिह्वाचापल्यम् अस्माकं क्षमस्व परमेश्वर ।
शिवं कुरुष्व देवानां स्वर्ग्याणां पुष्टिवर्धनम्

71.56

मार्कण्डेय उवाच:
श्रुत्वा स्तोत्रमिदं देवः श्रीमान् द्वीपेश्वरः शिवः ।
प्रसन्नब्रवीद् देवान् प्रार्थयध्वं वरं सुराः

71.57

देवा ऊचुः:
यदि तुष्टो महेशानो देवानां वरदः प्रभुः ।
तद् विनाशाय दैत्यानां त्राता भव महेश्वर

71.58

पापकर्माधमश् चैव पञ्चलिङ्गानि यो ऽर्चयेत् ।
सो ऽपि तां गतिम् आप्नोति दुर्लभा या महामखैः

71.59

शक्रेणाभिवृतस् तत्र देवदेव उमापतिः ।
पुरा नाम्नां सहस्रेण सुरासुरनमस्कृतः

71.60

शिवप्रसादसम्पन्नो देवराजस् ततो ऽभवत् ।
धनदेन स्तुतस् तत्र देवो लक्षेश्वरः प्रभुः

71.61

मोक्षदा नाम गौरीं च तां देवीं विद्धि भारत ।
मोक्षेश्वरं सिद्धलिङ्गं सुरासुरनमस्कृतम्

71.62

सिद्धैर् विद्याधरैर् यक्षैर् गन्धर्वैः किन्नरैर् नरैः ।
देवत्वं समनुप्राप्तं पञ्चलिङ्गसमर्चनात्

71.63

कुबेरो मारुतश् चैव वरुणो निरृतिस् तथा ।
वैवस्वतो यमश् चैव ततश् च नरकेश्वरः

71.64

तस्य लिङ्गस्य माहात्म्यात् सूर्यपुत्रो महायशाः ।
अन्यैर् अभिष्टुतस् तत्र पूर्वं द्वीपेश्वरः प्रभुः

71.65

भक्त्या नामसहस्रेण स्तुतः पूज्यतमः शिवः ।
सोमेनातो ऽभवत् तत्र शम्भोः शिरसि भूषणम्

71.66

रोहिण्या ऽभ्यर्चिता गौरी सुभगा तेन साभवत् ।
ऋक्षैर् योगतरैस् तद्वत् स्तुतो देवः पिनाकधृक्

71.67

ततस् तैर् भास्करेणैव तभः स्थलमलं कृतम् ।
व्याधयः कालमृत्युश् च चित्रगुप्तश् च लेखकः

71.68

तथा शक्रः सुरगणैर् एतैः परिवृतः प्रभुः ।
पापिष्ठानां महारौद्रो धर्मिष्ठानां प्रसादवान्

71.69

कोट्यो ऽष्टौ चोर्ध्वकेशा रौद्राश् च विकृताननाः ।
पतिव्रतासहस्रैश् च तथा मासोपवासिभिः

71.70

किल्किलारवशब्दैश् च धर्मराजपुरोत्तमम् ।
व्याप्तं तु परितः श्रीमदसंख्यातैर् मनोरमैः

71.71

श्रुत्वा तेषां रवं सार्द्धं धर्मराजः सभासदैः ।
श्वेतवस्त्रपरीधानः श्वेतमाल्यानुलेपनः

71.72

पादचारी गतः क्षिप्रं यत्र ते यानसंस्थिताः ।
कृताञ्जलिपुटो भूत्वा पप्रच्छ शुभकर्मणः

71.73

यथा शक्तेन योगेन धर्मं धर्मोत्तरं महत् ।
कस्माद् देशात् समायाताः कथं पुण्यमुपार्जितम्

71.74

विमानारूढा ऊचुः:
कुरुक्षेत्रे तपस् तप्तं गङ्गायां च विशेषतः ।
सर्वेषाम् एव लोकानां द्वारं तद्धि प्रतिष्ठितम्

71.75

धर्माधर्मं तव बलं कारणं चेति तत्त्वतः ।
वाराणसी प्रयागश् च गङ्गासागरसङ्गमः

71.76

पितृतीर्थं महापुण्यं पुष्करं नैमिषं तथा ।
केदारं भैरवं चैव तथा रुद्रमहालयम्

71.77

सरस्वतीरुद्रकोटिः प्रभासं शशिभूषणम् ।
नानातीर्थसहस्रेषु दानयज्ञतपः कृतम्

71.78

एतत् ते कथितं सर्वं सूर्यपुत्रमहायशः ।
अन्ये दृष्ट्वा यथा न्यायं धर्मराजं ततस् तथा

71.79

ऊचुः सर्वे वचः श्लक्ष्णं धर्मराजं यथोदितम् ।
न त्वं प्रभुः सुकृतिनां ब्रह्मा विष्णुः शिवः प्रभुः

71.80

पापकर्मरता ये तु तेषां शास्ता यमः स्वयम् ।
यम उवाच:
गत्वा कैलासमायामि यावत् तावत् प्रतीक्षताम्

71.81

एवम् उक्त्वा ययौ राजन् कैलासं स नगोत्तमम् ।
यस्मिन् शिवाद्यास् ते सर्वे पार्वती षण्मुखस् तथा

71.82

स्तुवन्ति देवताः सर्वादेवदेवम् उमापतिम् ।
नृत्यन्ति चाग्रतः केचिद् उत्पत्य निपतन्ति च

71.83

तं दृष्ट्वा तादृशं शम्भुं स्तुवन्तं दीप्ततेजसम् ।
स्तुवन्नामसहस्रेण देवदेवं पिनाकिनम्

71.84

साष्टाङ्गं च नमस्कृत्य धर्मराजो ऽब्रवीद् इदम् ।
ये ऽस्मत्पुरीं समायातास् तेषां का गतिर् उच्यते

71.85

प्रहसन्न् अब्रवीद् देवो धर्मराजं युधिष्ठिर ।
अत्र प्रयान्तु ते सर्वे ये रेवातीरवासिनः

71.86

अन्यतीर्थनिवासा ये भोगान् भुञ्जन्तु ते दिवि ।
शिववाक्यं ततः श्रुत्वा ब्रह्माविष्णुर् यथातथम्

71.87

तुष्टा देवस्य वाक्येन सर्वदेवगणेश्वरुः ।
आगतः क्षणमात्रेण धर्मराजः पुरोत्तमम्

71.88

शिवोक्ताः प्रेषिताः सर्वे शिवलोकं युधिष्ठिर ।
यथा यथा समादिष्टास् ततो ऽन्ये ऽपि शूभान्विताः

71.89

पुराकल्पे मया दृष्टं कार्त्तिक्यां देवतागमे ।
ततो गच्छेन् महाराज वैष्णवं तीर्थमुत्तमम्

71.90

कोकिला नाम विख्यातं सर्वपापविमोक्षणम् ।
वैष्णवं क्षेत्रमित्य् आह देवदेवो जनार्दनः

71.91

सपादकोटिस्तीर्थानां तत्रास्ते चैव भारत ।
उपोष्यैकादशीं पुण्यां दीपमालां प्रबोधयेत्

71.92

न तस्य पुनरावृत्तिर् मर्त्यलोके दुरासदे ।
सर्वकामसमृद्धेन विमानाग्रेण भारत

71.93

असंख्यकालिका तृप्तिः पितॄणां नात्र संशयः ।
विप्रे च तोषिते तत्र दानसङ्ख्या न विद्यते

71.94

अत्रान्तरे त्यजेत् प्राणानवशः स्ववशो ऽपि वा ।
दशवर्षसहस्राणि राजा वैद्याधरे पुरे

71.95

ध्रुवो ध्रुवत्वं स्वर्गे तु तारातेजः समुज्ज्वलन् ।
मर्त्ययोनिषु सम्भूता भूतग्रामा तथापरे

71.96

अर्चन्राड् देवदेवस्य दिवि देवत्वम् आप्नुवन् ।
देवपुण्यक्षये मर्त्या भक्त्या पुण्यैश् च देवताः

71.97

स्वर्गमर्त्यप्रभेदो ऽयं धर्माधर्मप्रभेदतः ।
केनापि तत्प्रकारेण पूजनीयो महेश्वरः

71.98

यद् वा तद् वा शिवे देयं भक्तियुक्तेन चेतसा ।
अरुन्धत्या सा भरण्या सावित्र्या च तथा तथा

71.99

अहल्यया मेनकया मरुत्वत्या च रम्भया ।
अप्सरोगणसङ्घैश् च सुरसिद्धगणैस् तथा

71.100

नर्मदातटम् आश्रित्य पूजितो येन शङ्करः ।
तेन वै विपुला भोगाः प्राप्ता मोक्षश् च भारत

71.101

न पूजयेद् धरं यस् तु शिवमायाविमोहितः ।
न तस्य स्वर्गमोक्षौ च कैलासं प्रति का कथा

71.102

न च स्वर्गस्य राज्यस्य भाजनं च नराधिप ।
सर्वतीर्थमयी रेवा सर्वदेवमयो हरः

71.103

सर्वधर्ममयी बुद्धिः क्षमासत्यम् अयं तपः ।
ब्रह्मचर्यं तपोमूलं पञ्चेन्द्रियविनिग्रहः

71.104

क्षमा सत्यं जपो ऽधीतं तपः संयमलक्षणम् ।
एतत् ते कथितं राजं शिवेन कथितं पुरा

71.105

मया च तव राजेन्द्र भ्रातॄणां च विशेषतः ।
न सामान्यतरा देवी कथिता या मया तव

71.106

द्वीपेश्वरः कपिलेश्वरस् तथा वै नरकेश्वरः ।
एतान् देवान् समुत्थाय यथावत् परिकीर्तयेत्

71.107

सर्वतीर्थफलं प्राप्य शिवलोके महीयते ।
अघौघे च परिक्षीणे प्राप्यते सप्तकल्पगा

71.108

शिवः संनिहितो यस्यां शिवक्षेत्रं ततः परम् ।
श्रवणात् कीर्तनाद् अस्य शिवलोके महीयते

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc