भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 70

70.1

इति श्रीस्कन्दपुराणे रेवाखण्डे शम्भुस्तुतिर्नामैकोनसप्ततितमो ऽध्यायः ॥
र्क्स् अध्याय 70
युधिष्ठिर उवाच:
किमर्थं संस्तुतो देवो ब्रह्मणा तेन तत्र वै ।
शुक्लतीर्थम् इदं कस्मादास्ते यत्र महेश्वरः

70.2

एतत् सर्वं समाख्याहि पृच्छतो मे महामुने ।
मार्कण्डेय उवाच:
शृणु राजन् कथां दिव्यां स्वर्गार्हण्याम् अनुत्तमाम्

70.3

यां श्रुत्वा सर्वपापेभ्यस् तीर्थस्नानेन मुच्यते ।
ययातिर् नाम धर्मात्मा सत्यधर्मपरायणः

70.4

चक्रवर्ती नृपश्रेष्ठः सर्वधर्मभृतां वरः ।
इयाज स महायज्ञैः शतक्रतुर् इवापरः

70.5

नदी मधुमती पुण्या रेवया यत्र सङ्गता ।
यत्र यज्ञः समारब्ध ऋत्विग्भिर् ब्राह्मणैः सह

70.6

मध्येश्वरं यत्र लिङ्गं स्वयंदेवो महेश्वरः ।
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः

70.7

चक्रेण विष्णुना तत्र घातितौ मधुकैटभौ ।
अर्चनात् तस्य देवस्य गोसहस्रफलं लभेत्

70.8

तिलतोयप्रदानेन पिण्डदानेन भारत ।
पितरस् तस्य तृप्यन्ति यावद् इन्द्राश्चतुर्दश

70.9

तत्र यज्ञः समारब्धो हरिशङ्करवर्जितः ।
जटासुरस् तत्र दैत्यश् छिद्रं दृष्ट्वा समागतः

70.10

ततोविध्वंसितो यज्ञो दानवैर् बलदर्पितैः ।
यज्ञयूपा यज्ञपात्रं दश दिक्षु निपातिताः

70.11

भुक्तो हुतपुरोडाशः सोमपानं च तैः कृतम् ।
प्रणष्टा देवताः सर्वा दानवानां भयेन च

70.12

अष्टोत्तरशतं देवा मृगरूपेण निर्गताः ।
धनदो यक्षरूपेण प्रणष्टः स्वपुरीं गतः

70.13

महिषारूढो धर्मराजो गजारूढश् शतक्रतुः ।
मेषारूढो हव्यवाहो निर्गता व्रतमास्थिताः

70.14

वरुणश् च समायातः प्रणष्टः स्वपुरीं गतः ।
मकरासनमारूढो वायुश् च मृगम् आश्रितः

70.15

ईशान ईशरूपेण वृषारूढः पलायितः ।
अस्त्राणि लोकपालानां हृतानि दनुसम्भवैः

70.16

एकाकी यानम् आरुह्य कथं यामि स्त्रिया सह ।
चिन्तयित्वा नृपश्रेष्ठश् चास्त्रं जग्राह भारत

70.17

तिष्ठ तिष्ठेति चोक्त्वा वै दैत्यसिंह दुरासदम् ।
न क्षत्रकुलसंजाता जातु दृष्ट्वा पलायिताः

70.18

दश द्वादशवर्षाणि विमुखास् तव पूर्वजाः ।
न चात्राह्वानितो रुद्रो रुद्र भागो न कल्पितः

70.19

यज्ञे ऽस्मिन् यज्ञपुरुषो नाहूतो भगवान् हरिः ।
तेन दोषेण मे यज्ञो दानवैश् च विनाशितः

70.20

एवम् उक्त्वा नृपश्रेष्ठो रुद्रं ध्यात्वा महेश्वरम् ।
रौद्ररूपं समास्थाय ज्याघोषं घोषरूपिणम्

70.21

जग्राह कोपान् निस्त्रिंशं निजघान च दानवान् ।
आहूताश् च पुनर्देवाः सर्वे ब्रह्मपुरोगमाः

70.22

ऊचुस् ते वचनं देवा राजानं प्रति भारत ।
त्वया समो ऽत्र राजर्षे न भूतो न भविष्यति

70.23

देवानां वचनं श्रुत्वा ययातिर् वाक्यम् अब्रवीत् ।
पुनः प्रवर्तितो यज्ञो हरविष्णुप्रसादतः

70.24

युक्तं पलायनं चात्र क्षत्रियस्य न विद्यते ।
स्तुतस् तु तेन कार्येण शूलपाणिः पिनाकधृक्

70.25

पातालाद् उत्थितं तत्र लिङ्गं कालानलप्रभम् ।
शुक्लीकृतं जगत् सर्वं प्रभया तस्य भारत

70.26

वरं वृणीष्व भद्रं ते तम् उवाच वृषध्वजः ।
ययातिर् उवाच:
यदि तुष्टो ऽसि मे देव वरं दातुं ममेच्छसि

70.27

इदं स्थानं न मोक्तव्यम् उमया सह शङ्कर ।
यज्ञदानादिकं सर्वम् अक्षयं चात्र सर्वदा

70.28

तपोहीना नरा ये च दानहीनाः सकिल्बिषाः ।
ते सर्वे त्वत्पुरं यान्तु शुक्लतीर्थप्रभावतः

70.29

तम् उवाच महादेवः सत्यम् एतत् तवोदितम् ।
यं यं कामयते कामं तं तं प्राप्नोति मानवः

70.30

अस्य तीर्थस्य महात्म्याल् लिङ्गस्यास्य समर्चनात् ।
नरकं नैव पश्यन्ति जन्मजन्मनि भारत

70.31

एतत् ते कथितं राजन् यथा स्कन्दशिवोदितम् ।
तत्र ये निहता दैत्याः प्राप्तास् ते ऽपि शिवालयम्

70.32

स्वं स्वं यानं समारूढा ययुर् देवास् त्रिविष्टपम् ।
मुदा परमया युक्तः स्तूयमानो नृपोत्तमः

70.33

ययातिर् नाम राजर्षी राज्यं कृत्वा दिवं गतः ।
श्रवणात् कीर्तनाद् अस्य शिवलोके महीयते

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc