भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 69

69.1

इति श्रीस्कन्दपुराणे रेवाखण्डे वाराहमहिमानुवर्णनो नामाष्टषष्टितमो ऽध्यायः ॥
र्क्स् अध्याय 69
मार्कण्डेय उवाच:
ततो देवपथं तीर्थं सर्वदेवमयं शुभम् ।
तत्र स्नातश् च विधिवत् सर्वयज्ञफलं लभेत्

69.2

मासे मासे कुशाग्रेण सोमयागं करोति यः ।
स रेवाजलपूतस्य कलां नार्हति षोडशीम्

69.3

लिङ्गं देवपथं नाम सुरासुरनमस्कृतम् ।
श्रद्धया तद् दर्शनेन पितॄणां परमा गतिः

69.4

चैत्रे मासे चतुर्दश्या पक्षयोर् उभयोर् अपि ।
स्नानार्थं सर्वतीर्थानि जग्मुः कर्तुं च सत्क्रियाम्

69.5

यद्देवलोके देवानाम् ईप्सितं च नृपध्वज ।
सहस्राणि मुनीन्द्राणां तस्मिंश् शिवमुपासते

69.6

चान्द्रायणपराः केचिद् ब्रह्मकूर्चपरास् तथा ।
कन्दमूलफलाहारा जलाहारा जलप्रियाः

69.7

अग्निहोत्रपरा नित्यं तथा हुतहुताशनाः ।
उपासते देवपथं संसिद्धिं परमां गताः

69.8

अथान्यत् संप्रवक्ष्यामि तीर्थं पापप्रणाशनम् ।
सहस्रयज्ञं परमं सर्वकामफलप्रदम्

69.9

एकादश्यां मार्गशीर्षे पूजयित्वा जनार्दनम् ।
सहस्रयज्ञस्येष्टस्य फलं प्राप्नोति मानवः

69.10

न पश्येद् यमलोकं च तिर्यग्योनिं न गच्छति ।
तीर्थस्यास्य प्रभावेण नरो विगतकल्मषः

69.11

एतत् ते कथितं राजन् पुण्याख्यानम् अनुत्तमम् ।
श्रवणात् कीर्तनाद् अस्य विष्णुलोके महीयते

69.12

शुक्लतीर्थं ततो गच्छेत् सर्वतीर्थमयं शुभम् ।
यत्र स्नातो ऽपि लभते दशधेनुफलं नरः

69.13

शुक्लीकृतास् तेन देवा ब्रह्मविष्णुमहेश्वराः ।
सपादकोटिस्तीर्थानां शुक्लतीर्थे व्यवस्थिता

69.14

अष्टहस्तप्रमाणं च शुक्लतीर्थं युधिष्ठिर ।
तत्र कालाग्निरुद्रश् च श्रीकण्ठश् च तथा परः

69.15

तैस् तैस् तपोभिरुग्रैश् च तत्र सिद्धिं परा गताः ।
शुक्लतीर्थप्रभावेण मोदन्ते दिवि देवताः

69.16

शक्रो ऽपि च पुराध्यक्षं देवदेवम् उमापतिम् ।
रेवातोयेन संस्नाप्य बिल्वपत्रैः समार्चयत्

69.17

पौर्णमास्याम् अमावस्यां सोमः सूर्यः प्रभावतीम् ।
तत्र स्नातो ग्रहैः सार्द्धं नक्षत्रध्रुवमण्डलैः

69.18

तेन देवाश् च दीव्यन्ते शुक्लतीर्थप्रभावतः ।
कश्यपस्याश्रमं पुण्यं सुरसिद्धनिषेवितम्

69.19

मुनीनाम् अयुतं तत्र स्वयं तिष्ठति भारत ।
कन्दमूलफलाहारा जलाहारास् तथा परे

69.20

शाकाहारा निराहारा ब्रह्मकूर्चास् तथा परे ।
चान्द्रायणपराः केचिदन्ये मासोपवासिनः

69.21

ऋषिकोट्यस् त्रयस्त्रिंशच् छुक्लेश्वरमुपासते ।
राहुग्रस्ते तथा चन्द्रे पौर्णमास्यां तिथौ तथा

69.22

आयान्ति सर्वतीर्थानि स्नातुम् एतच् छिवोदितम् ।
स्थानेश्वरे यत्फलं स्याद् राहुसूर्यसमागमे

69.23

तत्फलं प्राप्नुयात् सर्वं शुक्लतीर्थे न संशयः ।
हेमधेनुधरादीनि रूप्यदा गजदास् तथा

69.24

एतद् दत्त्वा महाराज पुण्यसंख्या न विद्यते ।
धनदेन कुबेरेण देवगन्धर्वदानवैः

69.25

राहुसूर्यसमायोगे शुक्लतीर्थे महेश्वरः ।
चन्दनागुरुकर्पूरपुष्पमालाभिर् अर्चितः

69.26

वितानध्वजमुख्यैश् च दीपमालाप्रबोधनैः ।
अस्य तीर्थप्रभावेण यक्षराजो धनेश्वरः

69.27

भोगा नानाविधास् तेन सम्प्राप्ता दिवि देवताः ।
सर्वतीर्थम् अयं तीर्थं सर्वदेवम् अयं च यत्

69.28

अपि वर्षसहस्रेण शुक्लतीर्थस्य वर्णनम् ।
न शक्यते सुरैः कर्तुं पुराणे स्कन्दकीर्तिते

69.29

पापयोनिगतो यश् च तिर्यग्योनिगतश् च यः ।
ब्रह्महा च सुरापश् च शिवनिर्माल्यभक्षकः

69.30

मुच्यते तेन पापेन तीर्थस्यास्य प्रभावतः ।
तत्र स्नानं नरः कृत्वा पूजयित्वा वृषध्वजम्

69.31

सुरासुरगणैः सर्वैः पूज्यते नरसत्तम ।
एतत् ते कथितं राजन् महापातकनाशनम्

69.32

पितामहेन यत्रेष्टो यज्ञे यज्ञेश्वरः पुरा ।
स्तोत्रं कृत्वा यथा न्यायं देवदेवस्य शूलिनः

69.33

पूजयित्वा तु शुक्लेशं ब्रह्मा स्तोत्रम् उदाहरत् ।
नमः शिवाय शान्ताय ज्ञानविज्ञानरूपिणे

69.34

सूक्ष्माय सूक्ष्मरूपाय सर्वसूक्ष्माय हेतवे ।
सूक्ष्माणाम् अपि सूक्ष्माय नमः सूक्ष्मतमाय च

69.35

दिव्याय दिव्यरूपाय दिव्यदेहाय सेतवे ।
दिव्यानाम् अपि दिव्याय नमो दिव्यतमाय च

69.36

व्योमप्रभाय भावाय अघोराय नमो नमः ।
व्योमप्रमाणधामाय वामेशाय नमो नमः

69.37

पराय परमेशाय पारमार्थिकहेतवे ।
पराय परमुक्ताय नमः परतराय च

69.38

एकजिह्वद्विजह्वाय बहुजिह्वाय ते नमः ।
तथैवासंख्यजिह्वाय त्रिणेत्राय नमो नमः

69.39

पूज्याय पूज्यपूज्याय सर्वपूज्यैकहेतवे ।
नित्यायानित्यरूपाय नित्यनित्यैकहेतवे

69.40

नित्यानाम् अपि नित्याय नमो नित्यतमाय च ।
शक्ताय शक्तिरूपाय सर्वशक्त्येकहेतवे

69.41

शक्तानाम् अपि शक्ताय नमः शक्ततमाय च ।
शुद्धाय सर्वशुद्धाय सर्वशुद्ध्येकहेतवे

69.42

कालाय कालरूपाय सर्वकालैकहेतवे ।
कालानाम् अपि कालाय नमः कालतमाय ते

69.43

सर्वमन्त्रशरीराय सर्वमन्त्रैकहेतवे ।
मन्त्राणाम् अपि मन्त्राय नमो मन्त्रतमाय च

69.44

अप्रमेयमहेशाय ईशानाय नमो नमः ।
योगाय योगरूपाय योगपुरुष ते नमः

69.45

एककण्ठद्विकण्ठाय बहुकण्ठाय ते नमः ।
असंख्यकण्ठयुक्ताय नीलकण्ठाय ते नमः

69.46

अनन्ताय महेशाय हर्त्रे कर्त्रे नमो ऽस्तु ते ।
नमस्ते ऽस्तु महादेव नमस्ते ऽस्तु सदाशिव

69.47

नमस्ते ऽस्तु महाशुद्ध नमस् तुभ्यं नमो नमः ।
नमो भस्माङ्गरागाय नमः खट्वाङ्गधारिणे

69.48

सर्वात्मने नमस् तुभ्यं विश्वेशाय नमो नमः ।
सर्वज्ञाय नमस् तुभ्यं सनाथाय नमो नमः

69.49

अव्यक्ताय नमस् तुभ्यं शाश्वताय नमो नमः ।
कैलासवासिने तुभ्यं नमः पातालवासिने

69.50

त्वया व्याप्तम् इदं सर्वं लोकालोकं चराचरम् ।
अपि वर्षसहस्रेण कः स्तोतुं शक्तिमान् भवेत्

69.51

इति स्तवेन दिव्येन यः स्तौति परमेश्वरम् ।
विधूय सर्वपापानि रुद्रलोके महीयते

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc