स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 6
इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदायाश् चतुर्थावतारे पञ्चमो ऽध्यायः ॥
र्क्स् अध्याय 6
युधिष्ठिर उवाच:
मुने मेकलकन्याया अवतारः श्रुतो मया ।
इदानीं श्रोतुम् इच्छामि तीर्थानि च यथाक्रमम्
मार्कण्डेय उवाच:
शृणु राजन् महाभाग कथ्यमानं निबोध मे ।
वत्सगुल्मात् समारभ्य यावद् वै भृगुकच्छकः
अत्रान्तरे ऽपि तीर्थानां संख्या केन तु शक्यते ।
तथापि ते प्रवक्ष्यामि यथा वृष्टं विशाम्पते
नर्मदा सौम्यभागे तु अनन्तपुरमव्ययम् ।
अनन्तसिद्धिलिङ्गं च सर्वपापहरं परम्
तीर्थं वैश्रवणं नाम कौबेरं धनदं तथा ।
मणिभद्रं तथा यज्ञं तत् तीर्थस्य प्रभावतः
मोक्षदं कामदं पुण्यं सर्वलोकव्यवस्थितम् ।
ऋषीणामाश्रमं पुण्यं सर्वदेवम् अयं शुभम्
सावर्णिः कौशिकश् चैव मुनिश् चैवाघमर्षणः ।
शाकल्यश्च कुशाकर्णिः शरभङ्गो ऽग्निर्भगः
एते चान्ये च बहवो मुनयः शंसितव्रताः ।
अस्य तीर्थस्य माहात्म्यात् तपस् तप्त्वा दिवङ्गताः
वाल्मीकिर् ऋषिवर्यो वै नैषादीं योनिमाश्रितः ।
प्रभावात् तस्य तीर्थस्य ब्रह्मतेजो वपुर्धरः
इक्ष्वाकुः कुवलयाश्वो दिलीपो नहुषस् तथा ।
वेणुर् ययाती राजा च अजपालस्म हैहयः
एते चान्ये च राजानो ह्य् अनन्तपुरवासिनः ।
अत्रान्तरे महेशानं मेकलातीरमाश्रितम्
तम् अभ्यर्च्य विधानेन सर्वे ते त्रिदिवङ्गताः ।
अखिलैर् अन्यतीर्थैश् च चिरकालफलप्रदैः
अत्रास्ते स्वर्गदः श्रीमान् स्वयं देवो महेश्वरः ।
तीर्थं सप्तऋषिर् नाम सप्तसारस्वतं नृप
अमर्त्यसम्भवं लिङ्गं तथैवारण्यकेश्वरम् ।
अघौघनाशनं तीर्थं तथान्यत् कल्मषापहम्
पञ्चब्रह्मम् अयं तीर्थं सहस्रशिरसं हरम् ।
वाराहं वामनं तीर्थं यमतीर्थं महोत्कटम्
सौरभङ्गं सहस्रं तु अश्वमेधं महामखम् ।
हिरण्यगर्भं सावित्र्यां चातुर्वेदं च पावनम्
एतत् सर्व विजानीहि लोकानां पावनं परम् ।
तथा ऽनन्तपुरं यावत् पर्यङ्कात् पश्चिमे शुभम्
अत्रान्तरे मृता ये च दानधर्मविवर्जिताः ।
ते ऽपि स्वर्गे महीयन्ते यावद् इन्द्राश् चतुर्दश
ततो द्वीपेश्वरं नाम व्यासतीर्थमनुत्तमम् ।
तत्र स्नात्वा तु लभते हयमेधफलं नरः
कामिकं तत्परं तीर्थं न भूतं न भविष्यति ।
प्रदक्षिणां च यः कुर्याद् व्यासतीर्थस्य भारत
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ।
नरो वा यदि वा नारी शिवलोके महीयते
द्वीपेश्वरे ततस् स्नात्वा वृषभं यः प्रयच्छति ।
काञ्चनेन विमानेन रुद्रलोके महीयते
कार्तिकस्य चतुर्दश्यां कृष्णपक्षे जितेन्द्रियः ।
स्नापयेद् यः शिवं तत्र ह्य् उपवासपरायणः
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ।
व्यासतीर्थं तु वै गत्वा सर्वे ब्रह्मादयः सुराः
स्तुवन्ति भावितात्मानं ऋषयश् च तपोधनाः ।
ये चान्ये सिद्धगन्धर्वकिन्नरोरगराक्षसाः
नर्मदातटमाश्रित्य मोदन्ते गतकल्मषाः ।
स्तुवन्ति विविधैः स्तोत्रैर् माङ्गल्यस्तुति संस्कृतैः
यस्यास्ति शक्तिरसशक्तिर् इह प्रवीरः प्रोर्ध्वी करोतु यदि वा ऽवनतिं करोतु ।
यः पूजितः सुरवरः शशिशेखरेण ना ऽराधितः सपदि भूतपति सुरैर् वा
किं वा न वृष्टं हि पितामहेन न वा सुरैर् वा मधुसूदनेन ।
क्षीरोदमन्थोद्भवकालकूटं कण्ठे वृतं केन हरं विहाय
एकेन दग्धं त्रिपुरं शरेण कामो ललाटाक्षिनिरीक्षणेन ।
भिन्नो ऽन्धकः शूलवरेण येन कस् तेन सार्द्धं कुरुते विरोधम्
जलौघकल्लोलतरङ्गभङ्गा गङ्गा धृता येन जटाग्रभागे
पादाम्बुजाङ्गुष्ठनिपीडनेन पपात लङ्काधिपतिर् विसंज्ञः
सुरासुराणामिह यत् समक्षं विध्वंसितो दक्षमखः क्षणेन
प्रणम्य दक्षः क्षयकारकस्य लेभे वरं तारकमारकस्य
सर्वस्य पूज्यं हि वरोत्तमाङ्गं सम्पूज्यते लिङ्गवरं हरस्य
अनेन पर्याप्तम् अतीव मूढः प्राप्तुं पदं यच्छति यत् करोति
ब्रह्मात्र वृद्धो हरिर् अत्र लिङ्गं सुरा ऽसुराश् चैव समर्चयन्ति
तथापि नूनं सुविचारयान्ति को वा ऽधिको वा ऽस्ति समो हरेण
तेनैव चक्राङ्कसरोरुहाङ्कौ लिङ्गाङ्कितं यस्य जगद् भगाङ्कम्
हस्ते प्रबद्धे नवकङ्कणे वै पश्यन्ति मूढाः खलु दर्पणेन
पुण्यं पवित्रं स्तवनं व्यासेनोक्तं महात्मना ।
कृतं देवाधिनाथस्य सर्वकल्मषनाशनम्
प्रतिपूज्य यथा न्यायम् अर्घपाद्यैर् अनुक्रमात् ।
उवाच मधुरं वाक्यं प्रसादः क्रियतां मयि
देयं तस्य फलं देव यः पुमान् छ्रद्धया ऽर्चति ।
इति स्तुत्वा महेशानं ऋषयः शंसितव्रताः
नर्मदादक्षिणे कूले प्रयातास् ते यथातथम् ।
अन्ये च ऋषयो देवा द्वैपायनम् अथाब्रुवन्
आश्रमस् ते महाभाग वायसैर् आकुलीकृतः ।
यथा न वायसाः के ऽपि प्रविशन्ति तपोवनम्
म्रियन्ते ते सदा सर्वे मूर्धा तेषां विशीर्यते ।
व्यासेन शप्तास् ते सर्वे वायसा महतो भयात्
तस्मिंस् तीर्थे महाराज प्रविशन्ति न कर्हिचित् ।
ऋषयो वचनं श्रुत्वा व्यासस्य तु महात्मनः
नर्मदा दक्षिणे कूले सर्वमेव कृतं क्षणात् ।
तिष्ठन्ति मुनयः सर्वे देवस्याराधने रताः
आराध्य विधिना देवम् अस्तुवन् परमेश्वरम् ।
यस्यास्ति शक्तिर् इत्यादि व्यासस्तुतिपरायणाः
स्तोत्रं तद् एतत् त्रिदशेश्वरस्य व्यासेन भक्त्या कृतमीश्वरस्य ।
प्रातः पठेद् यः स्मरति प्रयत्नात् काले स जातो ऽनुचरो हरस्य
व्यासाष्टकम् इदं पुण्यं यः पठेच्छिवसन्निधौ ।
व्यासस् तस्य भवेत् प्रीतो नर्मदा च प्रसीदति
एवं स्तुतो महादेवो व्यासेन तु महात्मना ।
शिवो व्यासस्य सन्तुष्ट इदं वचनमब्रवीत्
किं करोमि स्थितो विप्र वरं ब्रूहि यथेप्सितम् ।
वरं ददामि ते प्रीतो येन त्वं सुखमेधसे
व्यास उवाच:
नर्मदादक्षिणे कूले तिष्ठ त्वं चोत्तरे शिव ।
आश्रमास् ते भविष्यन्ति सर्वे पुण्यतमाः स्मृताः
एवम् उक्त्वा ततो व्यासं तत्रैवान्तर धीयत ।
व्यासो ऽपि चात्र वत्स्यामि दक्षिणं नर्मदे व्रज
ततश् च दण्डकाष्ठेन चालयामास नर्मदाम् ।
नर्मदा चाब्रवीद् वाक्यं पूर्वमार्गेण सा गता
ततो व्यासस् तु संक्रुद्धो युगान्ताग्निर् इवाभवत् ।
व्यासस् तु कुपितो राजन् सन्तीर्णो द्विजसत्तमः
हुंकारिता च सा देवी नागता तत्र नर्मदा ।
नाहं कोपवत विप्र प्रलयं यामि कर्हिचित्
सप्तकल्पक्षये वृत्ते न मृता ऽस्मीति नर्मदा ।
ततो द्विजस् तु संजातो दक्षिणेन ततो गता
न वारिता च सा ऽनेन व्यासभीता महानदी ।
उत्तरे मुनयः सर्वे कूले तिष्ठन्त्य् अनेकशः
ततस्ते हृष्टमनसो मुनयः शंसितव्रताः ।
व्यासेन चार्जितं श्राद्धं तथा ऽन्यैर् मुनिपुङ्गवैः
पितरो द्वादशाब्दानि तार्पितास् ते नराधिप
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0