स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 68
इति श्रीस्कन्दपुराणे रेवाखण्डे वागीश्वराख्यान नाम सप्तषष्टितमो ऽध्यायः ॥
र्क्स् अध्याय 68
मार्कण्डेय उवाच:
प्रतिग्रहग्रहग्रस्ता लोभमोहविमोहिताः ।
मज्जन्ति नरके घोरे यत्र गत्वा न निर्गताः
सफला वेदयज्ञाश् च तीर्थयात्रा च भारत ।
तथा क्लिश्यन्ति चात्मानं प्रतिग्रहपरा नराः
दाता च याचकश् चैव कराभ्याम् एव सूचितौ ।
अथो गच्छेद् ग्रहीता तु दाता गच्छति चोर्द्ध्वतः
सहस्रावर्तकं नाम तीर्थं पापप्रणाशनम् ।
तत्र स्नातस्य विधिवद् वृषोत्सर्गफलं भवेत्
आसप्तमं कुलं चैव पुनीते ना ऽत्र संशयः ।
रेवाया उत्तरे कूले सहस्रायुधसंख्यया
ततश् चान्ते महाभाग काराया वनम् उत्तमम् ।
अग्निष्टोमफलं यत्र स्नात्वा स्वर्गं च गच्छति
रेवाया उत्तरे भागे तीर्थ परमशोभनम् ।
सौगन्धिकं वनं नाम ब्रह्मचारिशुचिव्रताः
सिषिचुः पितरस् तत् तु ब्रह्माद्याः सुतपोधनाः ।
सिद्धचारणगन्धर्वाः सकिन्नरमहोरगाः
प्रविश्य तद् वनं मर्त्यः सर्वपापात् प्रमुच्यते ।
ततः सरस्वती चास्ति नदीनाम् उत्तमा नदी
लक्ष्या देवसुता राजन् महापुण्या प्रकीर्तिता ।
तत्र स्नानं प्रकुर्वीत मानवो नृपते जले
तर्पयित्वा पितॄन् देवान् अश्वमेधफलं लभेत् ।
ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम्
तत्र स्नात्वा व्यतीपाते संक्रान्तौ ग्रहणे नरः ।
सहस्रकपिलादाने वाजिमेधे च यत्फलम्
सुगन्धां छातकुम्भाश् च पञ्चयज्ञांश् च भारत ।
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते
त्रिशूलाख्यं तु तत्रैव तीर्थम् आसाद्य भारत ।
तत्राभिषेकं यः कुर्याद् अर्चयेत् पितृदैवतम्
गणेशत्वं स लभते त्यक्त्वा देहं न संशयः ।
ततो गच्छेन् महाराज ब्रह्मस्थानम् अनुत्तमम्
रेवाया उत्तरे कूले कामभोगफलप्रदम् ।
ब्रह्मोदम् इति विख्यातं प्रकाश्यं भुवि भारत
तत्र सप्तर्षयः प्राप्ताः स्नानार्थं भरतर्षभ ।
कपिञ्जलो मुनिश्रेष्ठो हव्यवाहश् च भारत
भगवान् देवयानश् च विश्वावसुमहामुनिः ।
अस्य तीर्थस्य माहात्म्याद् ब्रह्मलोकम् अवाप्नुयुः
पितरः श्राद्धदानेन प्रयाता ब्रह्मणः पुरम् ।
उदुम्बरस्य कृत्वा तु विधिवद् दर्शनं ततः
अन्तर्द्धानम् अवाप्नोति तपसा दग्धकिल्बिषः ।
ततो गच्छेन् महाराज शङ्करं लोकशङ्करम्
कृष्णपक्षे चतुर्दश्याम् अभिगम्य वृषध्वजम् ।
लभते सर्वकामांश् च स्वर्गलोकं हि गच्छति
नर्मदायाम्यभागे तु गोप्याद् गोप्यतर महत् ।
सिद्धलिङ्गं मणिमयं न तत्पश्यन्ति मानवाः
नागेन्द्रसुरसिद्धैश् च नागकन्याभिर् अर्च्यते ।
सपादकोटिस्तीर्थानां शङ्करे कुरुनन्दन
वसूनामाश्रमं पुण्यं मुनीनां ब्रह्मचारिणाम् ।
शिवभक्तिपराणांच कन्दमूलफलाशिनाम्
पितॄणाम् अक्षया तृप्तिस् तिलतोयप्रदानतः ।
मुदा परमया युक्तो दाता याति शिवालयम्
ध्रुवो धरश् च सोमश् च सावित्रश् चानलो ऽनिलः ।
प्रत्यूषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिता
शङ्करस्य प्रसादेन दिवि देवत्वम् आगताः ।
कल्पगासौम्यभागे तु सोमतीर्थम् अनुत्तमम्
तत्र स्नात्वा नरो राजन् स्वर्गलोके महीयते ।
सप्तसारस्वतं तीर्थं ततो गच्छेन् नृपोत्तम
ब्रह्मणा च कृतं स्तोत्रं पुण्यकीर्ते निशामय ।
ब्रह्मोवाचा:
वाक्पतिर् वचसां नित्यं वासुदेवो ऽस्तु मे गतिः
हंसः सुरेशो वक्ता वा वसूनामन्तरा वसन् ।
होता दिविषदीशानो वासुदेवो ऽस्तु मे गतिः
स्वाहाकारः स्वधाकारो वषट्कारो हविष्यभुक् ।
ऋङ्मूर्तिर्यजुषां मूर्तिर्वासुदेवो ऽस्तु मे गतिः
क्षेत्रज्ञः परमः सूक्ष्मो जगतां तारको हरिः ।
ईश्वरो हृदयावासो वासुदेवो ऽस्तु मे गतिः
श्रवण्यः श्रवणोपायः पुण्यश्लोकः शुचिश्रवाः ।
वरदो वासुदेवो ऽग्निर् वासुदेवो ऽस्तु मे गतिः
पुरुषः पुण्डरीकाक्षः पुराणो भुवनेश्वरः ।
आदित्यान्तर्गतो वह्णिर् वासुदेवो ऽस्तु मे गतिः
कंसकालियहन्ता च सुबलो बलमर्दनः ।
शिशुपालनिहन्ता ऽग्निर् वासुदेवो ऽस्तु मे गतिः
कालनेमिनिहन्ता ऽग्निर्यः काले नियतान्तकः ।
शतासुरशरीरघ्नो वासुदेवो ऽस्तु मे गतिः
कङ्कासुरनिहन्ता च मधुकैटभनाशनः ।
शङ्खचक्रगदापाणिर् वासुदेवो ऽस्तु मे गतिः
शुक्लः सलिलशायी च विष्णुः पापक्षयाह्वयः ।
इन्द्रो वचनसत्पालो वासुदेवो ऽस्तु मे गतिः
हृषीकेशश् चेन्द्रपालोपेन्द्रो गरुडासनः ।
सहस्रनामा धर्मज्ञो वासुदेवो ऽस्तु मे गतिः
शङ्खी च नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
धीरो वपुष्मान् मेधावी वासुदेवो ऽस्तु मे गतिः
बृहत्संकर्षणः शम्भुः स्वयम्भूर् भूतभावनः ।
निपुणो लक्षणः शुद्धो वासुदेवो ऽस्तु मे गतिः
त्रैकालिकस्त्रिकालज्ञस्त्रयी कर्ता त्रिलोचनः ।
त्रिसामा देवकीसूनुर् वासुदेवो ऽस्तु मे गतिः
अव्यक्तात्मा महात्मा च अन्तरात्मा जनार्दनः ।
प्राणश्चेन्द्रियभूतात्मा वासुदेवो ऽस्तु मे गतिः
परमात्मा परं ब्रह्म परमेशः परा गतिः ।
परमेष्ठी परं ज्योतिर् वासुदेवो ऽस्तु मे गतिः
विश्वात्मा विश्वकर्ता च विश्वस्य पतिरात्मवान् ।
द्यावापृथिव्योः कर्ता च वासुदेवो ऽस्तु मे गतिः
सहस्रशीर्षा भगवान् सहस्राक्षः सहस्रपात् ।
सहस्रकोटिधारी वा वासुदेवो ऽस्तु मे गतिः
इति वागीश्वरो वाग्मी पूजितः परमेश्वरः ।
भक्तस्य भगवान् विष्णुः प्रीयतां मे जनार्दनः
जन्मप्रभृति यत् किंचिन् मया सुकृतमर्जितम् ।
तत्समग्रं फलं चास्तु शाश्वतं पुरुषोत्तम
इदम् अभ्यस्यतो नित्यं पूजितः स्यात् सकेशवः ।
विनाशयति पापानि प्रकाशयति तत् फलम्
एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः ।
कुपथं तं विजानीयाद् यत्र नाराध्यते हरिः
वासुदेवपरा वेदा सुदेवपराक्रिया ।
वासुदेवात्मका विप्रा वासुदेवपराश्रयः
सर्वे देवा वासुदेवं यजन्ते सर्वे देवा वासुदेवात् प्रसूताः ।
सर्वेषां वा वासुदेवो ऽपि देवो नान्यत् किंचिद् अवासुदेवातिरिक्तम्
नान्यः पुण्यतरो देवो नास्ति विष्णुपरं तपः ।
नास्ति विष्णुपरं ज्ञानं सर्वं विष्णुमयं जगत्
ये पठन्ति नरा भक्त्या विष्णुनामाङ्कितस्तवम् ।
ते यान्ति वैष्णवं लोकं परं ब्रह्म सनातनम्
मार्कण्डेय उवाच:
श्रुत्वा स्तोत्रम् इदं देवो ब्रह्मणः समहात्मनः ।
श्रिया प्रबोधितः कृष्णः शयानो योगनिद्रया
दृष्ट्वा ऽब्रवीत् सुरान् सर्वान् नानारूपान् भयानकान् ।
किमस्ति वः समुत्पन्नं मां दिदृक्षुर् इहागताः
उवाच वचनं ब्रह्मा केशवं प्रति भारत ।
त्वां विनात्र जगन्नाथ कस् त्राता देवकण्टकैः
दानवैर् वेष्टिता धात्री स्वर्गश्चैव विनाशितः ।
धर्मकामादिका यज्ञा वेदा विप्लावितास् तथा
दनुभारभराक्रान्ता रसातततलं गता ।
जटासुरश् च जाबालिर्दैत्यो मयसुतस् तथा
दशकोट्यस् तु दैत्यानां समग्रबलशालिनाम् ।
शिवप्रसादयुक्तानां स्वर्गविप्लवकारिणाम्
तस्मात् प्रवर्तितं चक्रमुद्धर स्ववसुन्धराम् ।
श्रुत्वा वाक्यम् इदं देवो भयार्तं प्राणपीडितम्
उवाच वचनं देवो भयं त्यजत दैत्यजम् ।
अचिरेणैव कालेन हनिष्यामि महासुरान्
वाराहरूपमास्थाय प्रेषितं कल्पगाजले ।
दंष्ट्राग्रेण धृता धात्री दानवानां क्षयः कृतः
पुनः प्रवर्तिता सृष्टिर् यथापूर्वं तथैव च ।
ब्रह्माद्या मुदिता देवाः प्रतिजग्मुस् त्रिविष्टपम्
एतत् ते कथितं राजन् वाराहं कल्पगातटे ।
श्रवणात् कीर्तनाद् अस्य हयमेधफलं लभेत्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0