भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 67

67.1

इति श्रीस्कन्दपुराणे रेवाखण्डे ऽशोकवनिकावर्णनो नाम षट्षष्टितमो ऽध्यायः ॥
र्क्स् अध्याय 67
मार्कण्डेय उवाच:
अथातः कथयिष्यामि तीर्थं पापप्रणाशनम् ।
रेवाया उत्तरे कूले पुरं वागीश्वराभिधम्

67.2

वागुर्नाम नदी तत्र रेवया सह संगता ।
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः

67.3

वागीशा तत्र चामुण्डा दानवक्षयकारिणी ।
मणिभद्रो वीरभद्रस् तथा ऽन्ये शतशो नृपाः

67.4

बभूवुर् मुक्तशापास् ते तीर्थस्यास्य प्रभावतः ।
तिलपिण्डप्रदानेन पितॄणां परमा गतिः

67.5

ब्रह्मदत्तश्चक्रवर्ती सूर्यवंशे महीपतिः ।
अयोध्याधिपतिः श्रीमान् चक्रतुल्यपराक्रमः

67.6

धनधान्यसमायुक्तो भयदारिद्र्यवर्जितः ।
प्रजास् तस्मिन् महीपाले सर्वा ऽपि मुदान्विताः

67.7

इष्टः क्रतुवरस्तेन नर्मदावागुसङ्गमे ।
ब्रह्माद्या देवताः सर्वाः शक्रविष्णुपुरोगमाः

67.8

प्रत्यक्षश् च महेशानो गणेश्वरसमन्वितः ।
लोकपालाश् च मरुतश्चन्द्रादित्यौ ध्रुवस् तथा

67.9

ऋक्षाणि योगसिद्धाश् च सोममुख्याश् च सर्वशः ।
वशिष्ठो मुनिभिः सार्द्धं विदेहाधिपतिस् तथा

67.10

एवमाद्याः समाहूता मित्रावरुण एव च ।
सर्वे हिरण्मयास् तत्र यज्ञयूपाश् च मण्डपाः

67.11

दशयोजनपर्यन्तं यज्ञभूमिर् महीभृतः ।
स्वारोचिषे ऽन्तरे राजन्न् आदिकल्पे कृते युगे

67.12

गवां शतसहस्राणि हेमभारान्वितानि च ।
हयानां श्यामकर्णानाम् अयुतं साग्रम् एव च

67.13

दन्तिनाम् अयुतं चैव घण्टाभरणभूषितम् ।
मणिमाणिक्यम् उक्ताश् च भक्ष्यभोज्यान्य् अनेकधा

67.14

एवं राजा ब्रह्मदत्तः सर्वभूपालसत्तमः ।
यज्ञं प्रवर्तयामास सर्वसम्भारसंभृतः

67.15

वेदनिर्घोषशब्देन गीतवाद्यरवेण च ।
नानायानसमारूढैः स्तूयमानो मरुद्गणैः

67.16

ब्रह्मदत्तस्य यज्ञेन वागीशस्य प्रसादतः ।
नर्मदायाः प्रसादेन प्रेतास् तृप्तिं परां गताः

67.17

युधिष्ठिर उवाच:
कथं तु ब्रह्मदत्तस्य कल्पगातीरयाजनम् ।
कथं प्रेता विनिर्मुक्ताः प्रेतास् ते केन कर्मणा

67.18

एतत् सर्वं यथा न्यायं कथयस्व तपोधन ।
मार्कण्डेय उवाच:
शृणु राजन् यथा न्यायम् इतिहासं पुरातनम्

67.19

कार्त्तिक्याम् उत्सवं प्राप्य पुष्करे ज्येष्ठपुष्करे ।
अयोगन्धः स्वयंभूश् च पुण्डरीकाक्ष एव च

67.20

पितामहः स्वयं तत्र सुरासुरगुरुः पिता ।
काव्यश् च होतृसदनौ वेदगर्भः कृतध्वनः

67.21

स्वस्तिकश् चैव सावित्रो वामदेवो ऽघमर्षणः ।
एते चान्ये च मुनयो ब्रह्मतेजो ऽशसंभवाः

67.22

तथा ते हि यथाशक्ता ऋतुकालाभिगामिनः ।
गार्हस्थ्ये च स्थिता भार्या भर्तृशुश्रूषणे रताः

67.23

चीरवल्कलधारिण्यः शाकस्यामाकभक्षिकाः ।
विषण्णास् तेन धर्मेण सत्यस्ता अप्यगर्हयन्

67.24

द्विजस्य षट् च कर्माणि यजनं याजनं तथा ।
अध्यापनं चाध्ययनं दानं चैव प्रतिग्रहः

67.25

भूषणं परिधानं च योषितां भर्तृसेवनम् ।
एवं च गर्हिता राजन् योषिद्भिः पतयस् तथा

67.26

भीतास् ते विस्मिताः सर्वे विषण्णवदनास् तथा ।
हरिश्चन्द्रः पुरा राजा न भूतो न भविष्यति

67.27

दानेन निर्जितं येन त्रैलोक्यं सचराचरम् ।
राहुसूर्यसमायोगे कुरुक्षेत्रं जगाम ह

67.28

त्यक्त्वा ते पुष्करं तीर्थं धनलोभेन मोहिताः ।
सहस्रसंख्यामुनयः सभार्याः ससुताश् च ते

67.29

यत्र राजा हरिश्चन्द्रः प्रतिग्रहविलिप्सया ।
मुनीनाह हरिश्चन्द्रो मुदा परमया युतः

67.30

धन्या मे सफला यात्रा कुरुक्षेत्रे रविग्रहे ।
क्षुधार्ता दुःखिताश् चैव बाला वृद्धाः कृशातुराः

67.31

वल्कलाजिनवस्त्राश् च यौवने प्रेतरूपिणः ।
यन्नो यूयम् अभिप्राप्ताः पत्नीपुत्रैश् च संयुताः

67.32

उवाच वचनं राजा साष्टाङ्गं प्रणिपत्य च ।
आदेशो दीयतां मह्यं किं करोमि भवत्कृते

67.33

एवमुक्त्वा ददौ श्रीमानेकैकस्य पृथक् पृथक् ।
लक्षं लक्षं हिरण्यस्य तथा गावः सहस्रशः

67.34

सहस्रं तुरगाणां च दन्तिनां शतम् एव च ।
साप्तभौमान् गृहान् रम्यान् हेमप्राकारतोरणान्

67.35

नानाविधविलासांश् च यथा धनपतिः स्वयम् ।
कल्पान्तरे मृता जाताः प्रेतरूपा भयङ्कराः

67.36

लम्बोष्ठा लम्बवृषणा विकृताननसंयुताः ।
प्रतिग्रहप्रभावेण द्विजस्य पतनं ध्रुवम्

67.37

जातिस्मराः स्वं शोचन्ति एकाकीनास् तु ते बहिः ।
न भार्या न च मे पुत्रा न भृत्या न च बान्धवाः

67.38

न ते प्रतिग्रहैर् दग्धा यथा पूर्वं तथैव च ।
वयम् एकाकिनो दग्धा वृक्षा इव हविर्भुजा

67.39

राजप्रतिग्रहैर् दग्धा न प्ररोहन्ति मानवाः ।
वैश्वानरेण दग्धानां पुनर्जन्म प्रजायते

67.40

न माता न पिता पुत्रो द्रविणं न च बान्धवाः ।
यमदूतैर् गृहीतानां धर्म एकः सहानुगः

67.41

शोचित्वा सुचिरं कालं भार्यापुत्रविवर्जिताः ।
भ्रमित्वा च महीं सर्वां पुष्करं तीर्थमागताः

67.42

प्रेतरूपान् मुनीन् दृष्ट्वा विषादं परमं गतः ।
तान् उवाच मुनिश्रेष्ठः कथं प्रेतत्वम् आगताः

67.43

प्रेता ऊचुः:
हरिश्चन्द्रः सत्यधर्म सूर्यवंशे महीपतिः ।
अयोध्याधिपतिः श्रीमान् देवतुल्यपराक्रमः

67.44

तस्य प्रतिग्रहो ऽस्माभिराप्तः सूर्यग्रहे स्थिते ।
तेन प्रेतत्वम् आपन्नाः सर्वे ब्रह्मर्षयो मुने

67.45

एतत् ते कथितं ब्रह्मन् मोक्षो ऽस्माकं विधीयताम् ।
भविष्यभूततत्त्वज्ञो ब्रह्मपुत्रस् तपोनिधिः

67.46

उवाच वचनं श्रीमान् नारदस् तांस् तपोधनान् ।
कस्मिन्नवसरे पुण्ये कार्त्तिक्यां दिव्यपर्वणि

67.47

शिवेन कीर्तितं पूर्वं पार्वत्याः षण्मुखस्य च ।
श्रुतं मयापि तत्रैव पुराणं स्कन्दकीर्तितम्

67.48

कान्या पापक्षयं कर्तुं शक्ता रेवां विना नृप ।
गङ्गाद्याः सरितो विप्राः पुण्यतीर्थास् तथापि च

67.49

वागीशं च पुरं तत्र नर्मदातटमाश्रितम् ।
अध्वरे ब्रह्मदत्तस्य मोक्षणं तु भविष्यति

67.50

उद्देशं तु ततो दत्त्वा नारदस्त्रिदिवं गतः ।
ते ऽपि प्रेता महाभाग ध्यात्वा शिवम् उमापतिम्

67.51

अभिजग्मुस् तम् उद्देशं वागीशपुरम् उत्तमम् ।
तत्र स्नात्वाभ्यर्च्य शिवं हरिं भास्करम् एव च

67.52

अध्वरे ब्रह्मदत्तस्य मुक्ताः सर्वे ऽपि किल्बिषात् ।
ब्रह्मयानं समारुह्य ब्रह्मलोकं समागताः

67.53

प्रतपन्ति यथादित्या ब्रह्मतेजोवपुर्धराः ।
तस्योपरि नरेशस्य पुष्पवृष्टिः पपात वै

67.54

एतत् ते कथितं राजन् यथावृत्तं पुरातनम् ।
श्रवणात् कीर्तनाद् अस्य गोसहस्रफलं लभेत्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc