भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 66

66.1

इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये पञ्चषष्टितमो ऽध्यायः ॥
र्क्स् अध्याय 66
मार्कण्डेय उवाच:
एवं श्रुतं पुरा राज्ञा रविश्चन्द्रेण धीमता ।
उवाच वचनं श्रीमानगस्त्यो मुनिसत्तम

66.2

सरस्वती न गङ्गा च यमुना वा न सागराः ।
न चैवान्यानि तीर्थानि प्रयागप्रमुखान्य् अपि

66.3

एकैव नर्मदा पुण्या सप्तकल्पवहा शुभा ।
लक्षयोजनपर्यन्तं जम्बूद्वीपं प्रकीर्तितम्

66.4

नर्मदातोयपानेन लोकालोके चराचरे ।
तपोहीना नराश् चैव ते ऽपि यान्ति शिवालयम्

66.5

यो ऽयं कामयते कामं स तं प्राप्नोति पुष्कलम् ।
साधु साधु महाभाग पृष्टो ऽहं यत् त्वयानघ

66.6

नर्मदा कथिता दिव्या हृद्या कस्य न रोचते ।
सन्ति तीर्थानि यावन्ति दक्षिणोत्तरकूलयोः

66.7

त्वत्प्रीतिदानि तावन्ति कथयामि नृपोत्तम ।
अन्यानि ग्रन्थलक्षेण न च कीर्तयितुं क्षमः

66.8

त्रयो वेदास्त्रयो लोकास् तिस्रः सन्ध्यास्त्रयो ऽग्नयः ।
सिद्धगन्धर्वयक्षाश् च सकिन्नरमहोरगाः

66.9

विद्याधरश् चाप्सरसः कल्पगातटमाश्रिताः ।
ओंकारादीनि लिङ्गानि वैदूर्यादिनगाः पुरा

66.10

द्वापरे च कलिं प्राप्य पावनत्वम् अवाप्नुयुः ।
ब्रह्मविष्ण्वादिदेवानां मर्यादा कथ्यते ऽधुना

66.11

प्रभाभिर्द्योतमानाया रेवाया दक्षिणोत्तरे ।
यज्ञभूमिरियं ख्याता सुरासुरनमस्कृता

66.12

अशोकवनिका तत्र तस्या देवो महेश्वरः ।
तत्र सिद्ध्यति निर्विघ्नो यज्ञ इत्य् आह शङ्करः

66.13

उवाच वचनं राजा अगस्त्यं मुनिसत्तमम् ।
स्वस्ति वो ऽस्तु गमिष्यामि त्वया सह महामुने

66.14

अशोकवनिकां प्राप्तः स राजा मुनिभिर्वृतः ।
रेवाया दक्षिणे कूले पुण्यतीर्थेसु शोभने

66.15

दशयोजनपर्यन्तं यज्ञयूपाश् च मण्डपम् ।
मणिमाणिक्यरत्नौघैः सर्वद्वारेषु शोभिताः

66.16

पताकाध्वजशोभाड्या नानावस्त्रावगुण्ठिताः ।
विश्वामित्रो भरद्वाजः कश्यपो भार्गवस् तथा

66.17

ब्रह्मदृश्यो लोमशश् च तथान्ये मुनिसत्तमाः ।
वालखिल्या महाभागा मानसा ब्रह्मणः सुताः

66.18

एते चान्ये च बहवो मुनयः शंसितव्रताः ।
ततः प्रवर्तितो यज्ञो ब्राह्मणैर् आप्तदक्षिणैः

66.19

तृप्ताश् च देवताः सर्वाः प्रतिजग्मुस् त्रिविष्टपम् ।
जग्मुः सर्वे च मुदिता मुनयः स्वाश्रमं प्रति

66.20

ततो निवर्तितो यज्ञो दुर्वासाः कुपितो गतः ।
नात्र वैवस्वतो नाहं नारदः पर्वतस् तथा

66.21

कथं निवर्तितो यज्ञः पापर्कर्मिनराधमैः ।
आगतस् तु यमस् तत्र नारदः पर्वतस् तथा

66.22

लेखकश्चित्रगुप्तश् च कालो मृत्युस् तथैव च ।
एते च कुपिताः सर्वे यज्ञभागं विना नृप

66.23

तान् सर्वान् कुपितान् दृष्ट्वा रविश्चन्द्रो ऽब्रवीद् वचः ।
अशोकेश्वरदेवस्य नर्मदायाः प्रसादतः

66.24

को मे समर्थो विघ्नाय सुरासुरगणेष्व् अपि ।
तथैव को ऽन्यो जन्तूनां यज्ञविघ्नस्य हेतवे

66.25

यज्ञकाले च संप्राप्तो य कश्चिद् अपि मानवः ।
पूजनीयस् तथार्च्यश् च यथा देवश्चतुर्भुजः

66.26

यथायाता महाभागा ब्रह्मपुत्रा महौजसः ।
ददामि वो न सन्देहो मनसा यदभीप्सितम्

66.27

दुर्वासा उवाच:
परिपूज्यश् च नः पुत्रो नारदः पर्वतस् तथा ।
एकाकी प्रार्थये नाहं मिलित्वा प्रार्थयामहे

66.28

रविश्चन्द्र उवाच:
यो यं कामयते कामं तं तस्मै प्रददाम्य् अहम् ।
इति सर्वे ऽपि तेनैव प्रस्तुता मुनिपुङ्गवाः

66.29

सुप्रीता विहिता राजन्न् अर्घपाद्यप्रदानतः ।
युधिष्ठिर उवाच:
मुनयः केन कार्येण पाटलीपुत्रवासिनः

66.30

देव्या शप्ताः श्वयोनिं च गता मुक्ताश् च ते कथम् ।
मार्कण्डेय उवाच:
पुरा तपोधनाः सर्वे जटावल्कलधारिणः

66.31

नैपाले वै पशुपतिं देवदेवं महेश्वरम् ।
पूजयन्ति शिवं भक्त्या गौर्या विरहितं हरम्

66.32

अर्धनारीश्वरं देवं सुरासुरनमस्कृतम् ।
संशप्तास् तेन कार्येण पार्वत्या लिङ्गभेदिनः

66.33

वर्षं सहस्रं हि मितं श्वयोनिं च गमिष्यथ ।
निर्माल्यभक्षकाः पापाश्चण्डद्रव्यस्य भक्षकाः

66.34

तेषां कृते महाराज दुर्वासा नृपम् अब्रवीत् ।
श्वयोनिं समनुप्राप्तास् तत्र काले मुनीश्वराः

66.35

मोचय त्वं ततो राजन्न् अस्मत् प्रियचिकीर्षया ।
पार्वत्या ते ऽभिशप्ताश् च नरके मज्जन्ति दारुणे

66.36

उवाच वचनं राजा मुनिं दुर्वाससं ततः ।
मोचयामि न सन्देहस् तस्मात् पापाद् द्विजोत्तमान्

66.37

प्रेषिताः किङ्करास् तेन सीदन्तो यत्र ते वने ।
प्रणिपत्य च ते सर्वे तानूचुश् च वनेचरान्

66.38

स्मारयन्ति पूर्वजातिम् आदिष्टाः प्रभुणा यथा ।
ततस् तद् वचनात् प्राप्तास् ते ऽशोकवनिकां द्रुतम्

66.39

रविश्चन्द्रश्चक्रवर्ती तान् विलोक्य तपोधनान् ।
मुदा परमया युक्तः प्राह तान् प्रहसन्न् इव

66.40

अशोकेश्वरदेवस्य मेकलायाः प्रभावतः ।
मम दानप्रभावेण महर्षीणां प्रसादतः

66.41

त्यक्त्वा श्वयोनिं मुनयः शिवलोकं प्रयान्तु वै ।
एतत् पापं महाघोरं मयि सर्वं निषीदतु

66.42

तत्क्षणान् मुक्तशापास्ते कामिकं यानम् आस्थिताः ।
ऊचुर् महर्षयो वाक्यं रविश्चन्द्रं शतक्रतुम्

66.43

त्वं माता त्वं पितास्माकं गुरुर्मोक्षप्रदायकः ।
एवम् उक्त्वा ययुस् ते तु उमामाहेश्वरं परम्

66.44

साधु साधु महाभाग त्वं तु यज्ञतपोनिधिः ।
ना ऽन्यस्त्वया समः कश्चित् सोमवंशे महीपतिः

66.45

त्वया हि निर्जितं सर्वं त्रैलोक्यं सचराचरम् ।
एवम् उक्त्वा सुरश्रेष्ठाः साधुवादैस् तम् आर्चयन्

66.46

देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ।
दुर्वासा उवाच:
क्षत्रियेषु त्वया तुल्यो न दृष्टो न श्रुतो मया

66.47

प्राणत्यागो हि सुकरो धर्मत्यागो हि दुष्करः ।
वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते

66.48

प्रहसन्न् अब्रवीद् वाक्यं राजा दुर्वाससं मुनिम् ।
मम दानप्रभावेण नरा दुष्कृतबुद्धयः

66.49

प्राप्नुवन् तु परं लोकं वर एष मम प्रियः ।
एवमस्त्विति तस्याग्रे ऽभिधाय मुनिपुङ्गवः

66.50

स मुदा परया युक्तस् तत्रैवान्तरधीयत ।
तद् दृष्ट्वा तादृशं कर्म राज्ञश् चामिततेजसः

66.51

शङ्कया परया युक्तो धर्मराजो ऽब्रवीद् इदम् ।
वरं ददामि भद्रं ते यज्ञभागबहिष्कृतः

66.52

श्वयोनित्वं गता विप्रा मोचिताः कर्मबन्धनात् ।
ईदृशं तव सामर्थ्यं जानामि च नृपोत्तम

66.53

पृथिव्यां दुष्करं कर्म यज्ञश् चैव विशेषतः ।
यो ददाति महाभाग स्वकीयं पुण्यमुत्तमम्

66.54

यमलोको जितस् तेन देवलोको जितस् तथा ।
वरयोग्यो ऽसि राजेन्द्र सत्यम् एतत् मयोदितम्

66.55

रविश्चन्द्र उवाच:
यदि तुष्टः सूर्यपुत्र वरं दातुं ममेच्छसि ।
मम यज्ञशतेनैव दानेन तपसा तथा

66.56

पापयोनिगता ये तु ये च दुष्कृतकारिणः ।
प्रयान्तु त्वत्प्रसादेन धर्मराज शिवालयम्

66.57

इमं वरम् अहं मन्ये प्रसादः क्रियतां मयि ।
यम उवाच:
एवं भवतु राजेन्द्र सत्यधर्मपरायण

66.58

प्राप्नुहि त्वं परं लोकं सत्येनानेन सुव्रत ।
यतस् ते मोचिताः सर्वाः कश्मलात् पापयोनयः

66.59

क्षत्रियाः शतशो राजन्न् अन्ये चैव सहस्रशः ।
पापात् समुद्धृता ये च तेषां संख्या न विद्यते

66.60

एवमुक्त्वा नृपश्रेष्ठं धर्मराजो महाभुजः ।
कामिकं यानमारुह्य सुरासुरनमस्कृतम्

66.61

ययौ स्वभवनं राजन् नारदः पर्वतस् तथा ।
तस्याम् अशीतिलक्षाणि तीर्थानां नरसत्तम

66.62

अशोकवनिकायां तु कीर्तितानि तवानघ ।
श्रवणात् कीर्तनात् तेषां गोसहस्रफलं भवेत्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc