स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 65
इति श्रीस्कन्दपुराणे रेवाखण्डे विष्णुकीर्तनं नाम चतुःषष्टितमो ऽध्यायः ॥
र्क्स् अध्याय 65
मार्कण्डेय उवाच:
नर्मदायाम्यभागे तु तीर्थं पापप्रणाशनम् ।
माण्डव्यस्याश्रमं पुण्यं सिद्धगन्धर्वसेवितम्
विभाण्डकश् च गार्ग्यश् च ऋष्यशृङ्गादयस् तथा ।
तस्मिन् सहस्रसंख्याता मुनयः शंसितव्रताः
अशोकवनिकां राजन् छृणु साम्प्रतमुत्तमम् ।
तत्र सन्निहितो देव उमया सहितो हरः
आविष्टश् चाश्रमे तत्र विशोको विमलः शिवः ।
विशोकया सरिच्छ्रेष्ठा नर्मदा यत्र सङ्गता
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ।
अशोकेश्वरलिङ्गम् च प्रत्यक्षं सिद्धिशङ्करम्
शापभ्रष्टा द्विजास् तत्र नारदेन विमोचिताः ।
तस्य तीर्थस्य माहात्म्यात् मोदन्ते दिवि देवताः
नानावृक्षफलैः पुष्पैः सर्वकामसमन्वितैः ।
नाना पक्षिगणैर्जुष्टं नानावृक्षनिषेवितम्
सिद्धविद्याधरैर् यक्षैर् गन्धर्वैः किन्नरैस् तथा ।
वेणुवीणानिनादेन शङ्खवादित्रनिःस्वनैः
शोभते सर्वदा राजन् नर्मदा विन्ध्यसङ्गमः ।
अशोका देवता यत्र ब्रह्मशक्रपुरोगमाः
विश्वेदेवाश्रमं तद्धि सर्वदेवनमस्कृतम् ।
विश्वायाश् च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः
अशोकवनिकायां च जनयामास कश्यपः ।
वैवस्वते ऽन्तरे प्राप्ते त्रेतायां नरसत्तम
पञ्चायुतानि तानि तीर्थानि निवसन्ति शुभानि च ।
तत्र सिद्धा च सावित्री देवमातादितिस् तथा
देवयानी तथेन्द्राणी रोहिणी संभरायणी ।
दाक्षायणी लोकवन्द्या लोपामुद्रा महायशा
रत्नावली सूर्यभार्या ध्रुवा तारा गणेश्वरी ।
अशोकास् तेन विहितास् तत्रस्थाः शतसंख्यकाः
अस्य तीर्थस्य माहात्म्यान् मुच्यते किल्बिषान् नरः ।
शुक्लपक्षे चतुर्दश्याम् आश्विने मासि भारत
अपुत्रिणी तथा बन्ध्या दुर्भगा भर्तृवर्जिता ।
पञ्चरत्नफलैः स्नाता दिव्यकुम्भैः समर्चयेत्
सहस्रजन्म सा भूयः पुत्रिणी सुभगा भवेत् ।
अशोकवनिका क्षेत्रे तत्र गौर्या वरः कृतः
यस्मिन् वहति सा देवी नर्मदा सप्तकल्पगा ।
तत्रेष्टं धर्मराजेन वरुणेन महात्मना
नैरृत्येन तथान्यैश् च लोकपालैर् यथा विधि ।
प्रत्यक्षो हव्यवाहश् च लोकपालानुपागतः
अत्रिर् मरीचिः कश्यपश् चक्रुस् तत्र मखोत्तमम् ।
अन्यक्षेत्राच् छतगुणा तत्र दानादिका क्रिया
वाराणसी कुरुक्षेत्रं गया वै नैमिषं तथा ।
मायापुरी पुष्करं च प्रयागः शशिभूषणम्
काश्यपी सर्वतीर्थानि यत्र तिष्ठति कल्पगा ।
अशोकवनिकायास् तु नान्यत् तीर्थं समं विदुः
इष्टं यत्र पुरा राजन् हयमेधं मखोत्तमम् ।
ब्रह्मणा मोचिताः पूर्वं विप्राः कौलेययोनितः
अस्य तीर्थस्य माहात्म्यात् पाटलीपुत्रवासिनः ।
युधिष्ठिर उवाच:
हयमेधमखेनेष्टं कथं तात स्वयम्भुवा
कथं च मोचिता विप्राः पूर्वं कौलेययोनितः ।
को वा राजा पुरा ब्रह्मन् देवराजसमो ऽभवत्
एतत् सर्वं यथा न्यायं शंस मे मुनिसत्तम ।
मार्कण्डेय उवाच:
शृणु राजन् महाभाग समाख्यानं पुरातनम्
अशोकवनिका तीर्थं कल्पगा तटमाश्रितम् ।
न जानन्ति महामूढा मनुजाः पापमोहिताः
गुप्ताद् गुप्ततरं तीर्थं सर्वतीर्थोत्तमोत्तमम् ।
विशोकेश्वरलिङ्गं तु तस्मिन् परमसिद्धिदम्
पूज्यते सिद्धगन्धर्वैर् न तत् पश्यन्ति मानुषाः ।
दर्शनात् स्पर्शनात् तस्य ब्रह्महत्यां व्यपोहति
स्वायम्भुवे ऽन्तरे प्राप्ते आदिकल्पे कृते युगे ।
रविश् चन्द्रो महाराज चक्रवर्ती महायशाः
सोमवंशे जनिं प्राप्तः काञ्चीपुरपतिस् तथा ।
शशास पृथिवीं सर्वां यथा शक्रस् त्रिविष्टपम्
गतस् तु पृथिवीपालो नानावृक्षसमाकुलम् ।
नानापक्षिगणैर्जुष्टं नानामुनिनिषेवतम्
यत्रागस्त्येश्वरं नाम शम्भोरायतनं शुभम् ।
सेव्यते मुनिभिः सर्वैर् अगस्त्याद् यैस् तपोधनैः
राहुसूर्यसमायोगे रविश्चन्द्रो नृपोत्तमः ।
सप्तकल्पवहा यत्र शैलश्चामरकण्टकः
हस्त्यश्वरथपादातैः सकोशबलवाहनैः ।
तपस्यन्तं महात्मानं मुनिसङ्घैः समावृतम्
मैत्रावरुणिकं नाम ज्वलन्तमिति पावकम् ।
तेषां मध्ये समुत्थाय शाण्डिल्यश् च महातपाः
उरसा पृथिवीं गत्वा सो ऽगस्तिं परिपृच्छति ।
रविश्चन्द्रो महातेजाः समायातस् तवाश्रमम्
पुरोहितो ऽहम् अस्यास्मि जानीहि त्वं तपोनिधे ।
त्वत् पादार्चनम् आकाङ्क्षी मन्यसे चेद् अनुग्रहः
अगस्त्य उवाच:
आगच्छतु नृपश्रेष्ठः शीघ्रं सिंहासने स्थितः ।
आगतस् तद् अनुज्ञातः पादौ जग्राह तस्य च
अर्घपाद्यैश् च सम्पूज्य पप्रच्छ कुशलं मुनिः ।
कुशलं ते महाभाग सान्तः पुरपरिच्छदः
उवाच वचनं राजा मुनीन्द्रं प्रति भारत ।
अद्य मे सफलं जन्म राज्यं जीवनम् एव च
मुक्तश् च किल्बिषाद् अस्मात् त्वात्पादाम्बुजदर्शनात् ।
सर्वत्र कल्पगा पुण्या सर्वतीर्थमयी शुभा
कस्मिन् स्थाने यजे यज्ञं शंस मे मुनिसत्तम ।
यथा संसिद्ध्यते यज्ञः सुराणां तृप्तिर् अक्षया
एतत् सर्वं यथा न्यायं त्रिकालज्ञ निवेदय ।
अगस्त्य उवाच:
शृणु राजन् महाभाग कथ्यमानं निबोध च
शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च ।
ब्रह्मविष्ण्वादिदेवानामन्येषां च दिवौकसाम्
मया तत्र श्रुतं राजन् मार्कण्डेन चिरायुषा ।
तत्ते ऽहं कथयिष्यामि मेकलातीर्थसम्भवम्
शृणुध्वं मुनयः सर्वे यत् प्रष्टव्यावतारणम् ।
कस्य शक्तिर् महाराज वर्जयित्वा महेश्वरम्
प्रमाणं सर्वतीर्थानां संख्यां वा कर्तुम् आदितः ।
उद्देशमात्रवक्ता ऽहं मार्कण्डस्य महामुनेः
एतत् ते कथितं राजन् यथावृत्तं पुरातनम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0