स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 64
इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये त्रिषष्टितमो ऽध्यायः ॥
र्क्स् अध्याय 64
मार्कण्डेय उवाच:
अथान्यत् कथयिष्यामि तीर्थं तीर्थवरं शुभम् ।
याम्यप्रदेशे रेवाया आश्रमः सुरपूजितः
सुवर्णद्वीपपविख्यातो देवद्रोणीसमावृतः ।
हारीतो गौतमो विष्णुः सावर्णिः कौशिकस् तथा
एते चान्ये च बहवो मुनयः शंसितव्रताः ।
मासोपवासिनः केचिद् अन्ये पक्षोपवासिनः
चान्द्रायणपराश् चान्ये तथान्ये कृच्छ्रचारिणः ।
फलमूलाशिनः केचित् तथान्ये वायुभक्षकाः
कणधूमं पिबन्त्य् अन्ये जलाहारास् तथा परे ।
एकपादाः स्थिताः केचिद् अन्ये चार्धपदाः स्थिताः
दन्तोलूखलिनः केचिदन्ये सूर्यावलोकिनः ।
ब्राह्मणाश् च ब्रह्मविदः श्रुतिस्मृतिविशारदाः
इतिहासपुराणानि मोक्षोपायविचिन्तकाः ।
अग्निहोत्रपरा नित्यं जपयज्ञक्रियापराः
वेदध्वनितनिर्घोषैस् तारयन्ति जगत्त्रयम् ।
न तस्मिन् संचरेत् पापं तमः सूर्योदये यथा
मेकलादक्षिणे तीरे ब्रह्मलोक इव स्थितः ।
आम्रजम्बूकदम्बैश् च कपित्थैर् बिल्वदाडिमैः
कदलीबीजपूराद्यैर् जम्बीरैः पनसैस् तथा ।
न्यग्रोधबदरैर् मुख्यैर् बहुवृक्षविभूषितम्
पुन्नागैर् नागबकुलैर् अशोकैस् तिलकैस् तथा ।
मन्दारैश् चम्पकैश् चाम्रातकैर् नीलोत्पलोत्पलैः
पत्रपुष्पफलोपेतैर् वृक्षैः सर्वैर् अलंकृतम् ।
नानापक्षिगणोपेतं सिद्धगन्धर्वसेवितम्
व्याहरत्यण्डजाः सर्वे मानुषाणां गिरा नृप ।
एतद् गुणसमायुक्तं सुवर्णद्वीपम् उत्तमम्
स्वायम्भुवे ऽन्तरे राजन्न् आदिकल्पे कृते युगे ।
अर्चनाद् देवदेवस्य सुवर्णद्वीपवासिनः
अपहाय तमः कृत्स्नं लोके क्रीडन्ति शाङ्करे ।
पितॄणाम् अन्नदानेन तिलतोयप्रदानतः
मलापकर्षणं कृत्वा वसन्ति ब्रह्मणः पुरे ।
पुण्यायां भूपकार्तिक्यां सर्वतीर्थफलप्रदः
नैतत् पश्यन्ति मनुजाः कलौ मायाविमोहिताः ।
कल्पगा याम्यभागे तु तीर्थकोटिरनेकधा
प्रसिद्धं सिद्धमुनिभिर् ज्ञायते केवलं हि तत् ।
नास्तिकैर् भिन्नमर्यादैः पुराणस्मृतिनिन्दकैः
तैलाभ्यक्तैर् न वेदोक्तकरै रेवातटे तथा ।
कलिमायाविमूढैश् च स्थानं तन्न प्रदृश्यते
हिरण्यगर्भास्थाने तु यस्मिन् वहति कल्पगा ।
यज्ञगर्भेश्वरं नाम शिवलिङ्गं प्रकीर्तितम्
पूज्यते सिद्धगन्धर्वैः सुरासुरमहोरगैः ।
यत्र वैवस्वतो राजा सूर्यपुत्रो महायशाः
तस्य तीर्थस्य माहात्म्याच् चन्द्रबिम्बाननो ऽभवत् ।
चैत्रस्यैव तु मासस्य शुक्लपक्षे नराधिप
चतुर्दश्यां पौर्णमास्यां यत्र सन्निहितो हरः ।
तिलोदकप्रदानेन पिण्डदानेन भारत
पितॄन् समुद्धरेत् तत्र नरकाद् भूरिदक्षिणः ।
निवसेद् वैष्णवे लोके यावच् चन्द्रार्कदर्शनम्
तत्र यद्दीयते दानं कुरुक्षेत्रसमं हि तत् ।
प्राणत्यागे कृते तत्र न पश्यन्ति यमालयम्
रेवाया उत्तरे कूले पर्यङ्को नाम पर्वतः ।
स च विन्ध्यसुतः श्रीमान् सर्वदेवमयः शुभः
तत्र पापहरो विष्णुः स्वयं तिष्ठति केशवः ।
नरपापहरो यस् तु नर्मदातटम् आश्रितः
तत्र स्नात्वा महाराज गोसहस्रफलं लभेत् ।
तर्पिताः पितरस् तस्य तृप्ता यान्ति हरेः पुरम्
एकादशीं द्वादशीं वा तत्र यः कुरुते नरः ।
न तस्य पुनरावृत्तिर् मर्त्यलोके दुरासदे
क्रोशमात्रप्रमाणं च हरिक्षेत्रं प्रकीर्तितम् ।
अपमृत्युमृता ये च ते यान्ति परमां गतिम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0