स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 63
इति श्रीस्कन्दपुराणे रेवाखण्डे मातृस्तुतिर्नाम द्विषष्टितमो ऽध्यायः ॥
र्क्स् अध्याय 63
मार्कण्डेय उवाच:
रेवातटे महापुण्ये पितॄणां मोक्षणं प्रति ।
कुरु यज्ञं महाभाग मुच्यन्ते पितरो यथा
इति श्रुत्वा महाराज नमस्कृत्य च कल्पगाम् ।
वशिष्ठप्रमुखैः सार्द्धं जगाम स्वपुरं नृपः
स वत्सानां च लक्षैकमप्रसूतायुतं तथा ।
विंशतिः श्यामकर्णानां हयानां च दशायुतम्
मणिमाणिक्यमुक्तादि भूषितोच्चैः श्रवस्त्विषाम् ।
अयुतं च करीन्द्राणां घण्टाभरणशोभिनाम्
मणिमाणिक्यरत्नानां संख्यां कर्तुं न शक्यते ।
नानादेशनृपैः सार्द्धं ब्राह्मणैर् वेदपारगैः
वेणुवीणानिनादेन ब्रह्मघोषरवेण च ।
आपूरयन् दिशः सर्वा दिवं भूमिं च संस्पृशन्
हर्षेण महता युक्तो यज्ञसम्भारसंवृतः ।
रन्तिदेवो महीपालः कल्पगातीरम् आश्रितः
अनेकभक्षभोज्यानां तत्र संख्या न विद्यते ।
अष्टयोजनपर्यन्तं यज्ञयूपाश् च मण्डपाः
हेमरत्नमयाः स्तम्भा मणिमौक्तिकभूषिताः ।
हिरण्मयानि कुण्डानि वेदिकाश् च सहस्रशः
स्रुवश् च यज्ञपात्राणि सर्वं स्वर्णम् अयं तथा ।
समाहूतास् ततो देवा ब्रह्मविष्णुमहेश्वराः
चन्द्रादित्यौ ग्रहैः सार्द्धं नक्षत्रध्रुवमण्डलम् ।
सिद्धा विद्याधरा यक्षाः सुरासुरमहोरगाः
देवराजश् च देवाश् च बृहस्पतिपुरोगमाः ।
ततो यज्ञः समारब्धो ब्राह्मणैर् वेदपारगैः
होमेन तर्पिता देवाः सर्वलोकनिवासिनः ।
निर्धूमश् च ज्वलद् वह्णिः सप्तजिह्वासमन्वितः
प्रत्यक्षो हव्यवाहश् च स्वयं यज्ञे नराधिप ।
ततो निवर्तितो यज्ञो ब्राह्मणैर् आप्तदक्षिणैः
घोषणा भ्रामिता राष्ट्रे प्रतीहारैः सहस्रशः ।
यो यं कामयते कामं सो ऽत्र तं त्वेत्यसंशयः
आहूताः पूर्वजास् तत्र मातृकाः पैतृकास् तथा ।
अपमृत्युवशं प्राप्तास् तिर्यग्योनिगताश् च ये
ते सर्वे शुभयोनित्वम् आपन्ना यज्ञयोगतः ।
अर्चिता नर्मदादेवीं प्रत्यक्षा रूपधारिणी
अर्चितो भगवांस् तत्र पार्वत्या सहितो हरः ।
श्रीपतिश् च श्रिया सार्द्धं शङ्खचक्रगदाधरः
शक्रादयस् तथा देवाः सपत्नीका अलंकृताः ।
गाश्चाश्वांश् च करीन्द्रांश् च ब्राह्मणेभ्यो न्यवेदयत्
यच् चान्यद् विद्यते किंचिद् धनं धान्यं पयो दधि ।
अग्निशौचानि वस्त्राणि सर्वं तेभ्यो न्यवेदयत्
युगपत् पूजिता देवा ब्रह्मविष्णुमहेश्वराः ।
अर्चिता नर्मदादेवी शैलमूले व्यवस्थिता
प्रवाहो निर्गतो यत्र कुब्जारेवासमागमे ।
पितरस् तर्पिता देवाः प्राप्ताश् च परमां गतिम्
दिव्ययानसमारूढो दधीचिश् च नृपोत्तमः ।
शतमष्टोत्तरं पूर्वं पश्चिमं तद् अनन्तरम्
देवयानपथे सन्तः शतशो ऽथ नृपोत्तम ।
ऊचुश् च देवास् ते सर्वे ब्रह्माद्या रन्तिदेवकम्
वृणीष्व भद्रं ते प्रीताः सत्येनानेन भूमिप ।
प्राप्तो ऽसि परमं लोकं पितृभिर् मातृभिः सह
रन्तिदेवो ऽब्रवीद् वाक्यं यूयं मे वरदा यदि ।
कलशः स्थापितो यत्र ब्राह्मणैर् वेदपारगैः
चतुर्वेदधरैर्भक्तैः पञ्चब्रह्मतनुः स्वयम् ।
शिवलिङ्गं भवेत् तत्र ज्वालामालासमप्रभम्
यज्ञपर्वतम् आसाद्य प्रवाहो यज्ञनिर्गतः ।
स्नाने विनिर्गता कुब्जा चरुके चरुका तथा
चर्मिला चाङ्घ्रिमूले तु शिल्पे शिल्पा विनिर्गता ।
धनदो देवताश् चान्याः सम्पूज्य प्रणिपत्य च
कल्पगां च नमस्कृत्य कामिकं यानम् आश्रिताः ।
स्तोत्रं चक्रे महाभाग लिङ्गरूपस्य शूलिनः
लोकनाथो जगत्स्रष्टा प्रणिपत्य यथाविधि ।
ब्रह्मो वाच:
नास्ति रुद्रसमो देवो नास्ति रुद्रसमो गुरुः
नित्यदामलकायाय स्वप्रभामलमूर्तये ।
शिवभस्माङ्गरागाय देवेशाय नमो ऽस्तु ते
नीलकण्ठाय देवाय सर्वायामितमूर्तये ।
बहुरूपाय कान्ताय शाश्वताय नमो ऽस्तु ते
पराय परमेशाय सर्वज्ञाय नमो ऽस्तु ते ।
सर्वप्रणतदेहाय स्वयम् अप्रणताय च
पूज्यानाम् अपि पूज्याय नमस्त्र्यक्षाय शूलिने ।
ब्रह्मेन्द्रविष्णुवेद्याय उत्पत्तिस्थितिहेतवे
देवस्तुत नमस्ते ऽस्तु भुक्तिमुक्तिप्रदाय च ।
वामाय वामरूपाय वामोमारोपभासिने
वामकान्तार्धवेहाय ईशानाय नमो ऽस्तु ते ।
श्रुत्वा स्तोत्रम् इदं देवो ब्रह्मणः सो ऽमितद्युतिः
वृणीष्व वाञ्छितं यज्ञे वरम् इत्य् आह शङ्करः ।
ददामि ते न सन्देहो यस् त्वया वर ईप्सितः
उवाच वचनं ब्रह्मा शङ्करं सर्वगं प्रभुम् ।
पञ्चवक्त्रं पञ्चलिङ्गं ब्रह्मपूज्यं प्रकीर्तितम्
बिल्वा निवेदिता यस्मिन्न् आम्राश् च विनिवेदिताः ।
बिल्वाम्रकन्नाम लिङ्गं संसारार्णवतारणम्
प्रसिद्धिं परमां यातु भगवंस् त्वत्प्रसादतः ।
वामना मेकला यत्र यत्रेदं लिङ्गम् उत्तमम्
तत्र स्नात्वा नरव्याघ्र शिवलोकम् अवाप्यते ।
इदं वरम् अहं मन्ये लोकानुग्रहकारकम्
शङ्करस् तु तथेत्य् एवं प्राह ब्रह्माणम् अव्ययम् ।
एवम् उक्त्वा महेशानो गणकोटिसमावृतः
स्तूयमानः सुरैः सर्वैः जगाम भवनं स्वकम् ।
ब्रह्माद्या देवताश् चैव गताः स्वं स्वं निवेशनम्
रन्तिदेवः प्रतुष्टाव लिङ्गरूपधरं शिवम् ।
निशम्य रन्तिदेवस्य स्तोत्रं प्राह महेश्वरः
वरं वृणीष्व भद्रं ते स्तोत्रेणानेन सुव्रतं ।
रन्तिदेवो ऽब्रवीद् वाक्यं यदि मे वरदः शिवः
इदं तीर्थं न मोक्तव्यं महादेव सदा त्वया ।
अघौघसमप्लुता ये तु तिर्यग्योनिगता नराः
अस्य तीर्थस्य माहात्म्यात् ते यान्तु परमां गतिम् ।
अत्र यद् दीयते दानं सर्वं भवति चाक्षयम्
इदं वरम् अहं मन्ये यदि तुष्टो ऽसि शङ्कर ।
शङ्कर उवाच:
अमासोमसमायोगे कार्त्तिक्यां चैव पर्वणि
अत्र यद् दीयते दानं तद् अनन्तं समश्नुते ।
एतत् ते कथितं राजंस् तीर्थं पापप्रणाशनम्
विश्वेदेवाः परां सिद्धिम् अस्मिंस् तीर्थे समागताः ।
अगस्त्यशौनकश् चैव पराशरो ऽघमर्षणः
संसिद्धिं परमां प्राप्ता नाना मुनिगणास् तथा ।
अत्रायुतं मुनीनां च तपसा दिवमारुहत्
संक्रमे च व्यतीपाते ग्रहणे चन्द्रसूर्ययोः ।
अमासोमसमायोगे षडशीतिमुखे तथा
पुण्यं दशगुणं वृद्धिं सत्यम् एतच् छिवोदितम् ।
सपादकोटिस् तीर्थानां कुब्जारेवासमागमे
दक्षिणोत्तरभागे तु क्रोशमात्रं प्रतिष्ठितम् ।
अवशः स्ववशो वा ऽपि प्राणान् यस् तु परित्यजेत्
राजा वर्षसहस्राणि विद्याधरपुरे भवेत् ।
कृमिकीटपतङ्गाद्यास् तीर्थे ऽस्मिन् प्राणमोक्षणे
दिव्यं वर्षसहस्रं तु राजा विद्याधरे पुरे ।
बिल्वाम्रकं सिद्धलिङ्गं कामभोगफलप्रदम्
कुब्जेश्वरं महच् चान्यद् ब्रह्महत्यां व्यपोहति ।
अत्रान्तरे महाराज शिवक्षेत्रं विदुर्बुधाः
रेवाकुब्जासमायोगे यवानां सप्ततिस्तथा ।
अमासोमसमायोगे स्नानाच् छान्तिः प्रकीर्तिता
वाराणसी कुरुक्षेत्रं प्रयागो नैमिषं तथा ।
पुष्करं च गया चैव केदारं तीर्थम् उत्तमम्
फलम् एतेषु सामान्यम् अमासोमसमागमे ।
अक्षयं च फलं प्रोक्तं कुब्जारेवासमागमे
तिलोदकप्रदानेन मातृकं पैतृकं सुतः ।
नरकाद् उद्धरेत् सर्वान् पूर्वान् अपि परान् अपि
सो ऽपि राजा गृहं प्राप्तः सर्वान् उद्धृत्य पूर्वजान् ।
अयं ते कथितो राजन् कुब्जारेवासमागमः
रन्तिदेवो हरिश्चन्द्रः पुरुहूतः पुरूरवाः ।
अत्रेष्ट्वा विविधैर् यज्ञैर् दिव्यन्ति दिवि देववत्
श्रवणात् कीर्तनाद् अस्य तीर्थस्य नरसत्तम ।
सर्वपापविशुद्धात्मा शिवलोके महीयते
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0