स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 62
इति श्रीस्कन्दपुराणे रेवाखण्डे रन्तिदेवोपाख्यानं नामैकषष्टितमो ऽध्यायः ॥
र्क्स् अध्याय 62
रन्तिदेव उवाच:
यथा शप्तास् तु ताः कन्यास् तासां नामानि कल्पग ।
श्रोतुम् इच्छामि तत्त्वेन केषु स्थानेषु पूजिता
मार्कण्डेय उवाच:
वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ।
प्रयागे ललितादेवी कामुका गन्धमादने
मानसे कुमुदा नाम विश्वयोनिस् तथाम्बरे ।
गोमन्ते गोमती नाम मन्दरे कामचारिणी
मदोत्कटा चैत्ररथे तपन्ती हस्तिनापुरे ।
कान्यकुब्जे तथा गौरी प्रभा कमलपर्वते
एकाग्रे कीर्तिमत्याख्या विश्वा विश्वेश्वरे तथा ।
पुष्करे पुरुहूतेति केदारे मार्गदायिनी
नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकार्णिका ।
स्थानेश्वरे भवानीति बिल्वके बिल्वपत्रिका
श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा ।
जया वाराहशैले तु कमला कमलालये
रुद्रकोट्यां तु रुद्राणी कोटिः कालञ्जरे तथा ।
महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी
शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ।
मायापुर्यां कुमारी तु सन्ताने ललिता तथा
उत्पलाख्ये सहस्राक्षी हिरण्याक्षे महोत्पला ।
तीर्थायां मङ्गला नाम विमला पुरुषोत्तमे
विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने ।
नारायणी सुपार्श्वे च त्रिकूटे भद्रसुन्दरी
विपुले विपुला नाम कल्याणी प्रलयाचले ।
कोटीविकोटि तीर्थे तु यमुनायां मृगावती
करवीरे महालक्ष्मीर् उमादेवी विनायके ।
आरोग्या वैद्यनाथे तु महाकाले महेश्वरी
अभया कृष्णतीर्थे तु अमृता विन्ध्यकन्दरे ।
माण्डव्ये माण्डुका नाम स्वाहा माहेश्वरे पुरे
छागलम्बा प्रचण्डे च चण्डिका ऽमरकण्टके ।
सोमेश्वरे वराही तु प्रभासे पुष्करावती
देवमाता सरस्वत्यां पारा पारावते तथा ।
महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी
संहिता कृतशौचे तु कार्त्तिकेये तु शाङ्करी ।
उत्पला वर्षके लोला सुभद्रा शोणसङ्गमे
मालासिद्धतले लक्ष्मीरनन्ता भारताश्रमे ।
जालन्धरे सिद्धमुखी तारा किष्किन्धपर्वते
देवदारुवने पुष्टिर् मेधा कश्मीरमण्डले ।
भीमादेवी हिमाद्रौ तु तुष्टिर् वस्त्रेश्वरे तथा
कपालमोचने सिद्धिर् माता कायावरोहणे ।
शङ्खोद्धारे धृतिर् नाम ध्वनिः पिण्डारके तथा
कला तु चन्द्रभागायाम् अक्षोदे शिवधारिणी ।
वैजयन्त्य् अमृता नाम बदर्याम् ओषधी तथा
ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ।
मन्मथा हिमकूटे तु प्रमते सत्यवादिनी
अश्वत्थे वन्दिनी नाम निधिर्वैश्रवणे तथा ।
गायत्री वेदवदने पार्वती शिवसन्निधौ
देवलोके तथेन्द्राणी ब्रह्मणास्ये सरस्वती ।
सूर्यबिम्बे प्रभा नाम मातृका वैष्णवी तथा
अरुन्धती सतीनां च अप्सरस्सु तिलोत्तमा ।
चितिर्ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम्
एतद् उद्देशतः प्रोक्तं नामाष्टशतम् उत्तमम् ।
अष्टोत्तरं तु तीर्थानां शतम् एकं ह्य् उदाहृतम्
यः पठेत् प्रातरुत्थाय स याति परमां गतिम् ।
एषु तीर्थेषु ये स्नात्वा एताः पश्यान्ति मानवाः
सर्वपापविनिर्मुक्तास् ते यान्ति परमां गतिम् ।
यः करोति तनुत्यागम् उमास्थानेषु मानवः
स भित्त्वा ब्रह्मसदनं पदमाप्नोति शाङ्करम् ।
नामाष्टकशतं यस् तु श्रावयेच् छिवसन्निधौ
तृतीयायां तथाष्टम्यां बहुपुत्रो भवेन् नरः ।
गोदाने श्राद्धकाले च विवाहे मङ्गले तथा
देवार्चनविधौ वापि पठन् ब्रह्मत्वम् आप्नुयात् ।
श्रुत्वैतत् स्तोत्रमतुलं नमस्कृत्य च पर्वतम्
राजा स्वपितृमोक्षाय यज्ञार्थं प्राह कल्पगम् ।
कस्मिंस् तीर्थे भवेद् यज्ञः पितॄणां मोक्षदायकः
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0