स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 61
इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये षष्टितमो ऽध्यायः ॥
र्क्स् अध्याय 61
युधिष्ठिर उवाच:
श्रुत्वा नानाविधान् धर्मास्त्वत्प्रसादान् महामुने ।
नाहं तृप्तिं तु गच्छामि नर्मदाख्यानकीर्तनात्
मार्कण्डेय उवाच:
गावः पवित्रमतुलं गावः सर्वार्थसाधकाः ।
तस्माद्धि गोप्रदानेन शिवभक्त्या प्रमुच्यते
यस्मिन् देशे भवेन् नित्यं शिवभक्तिसमन्वितः ।
सो ऽपि देशो भवेत् पूतः किं पुनश् च सबान्धवः
उक्तानि षट्सहस्राणि पुराणे मेकलातटे ।
इत्याह ज्ञानयोगस्य धर्मयोगस्य तत्त्ववित्
धर्माधर्मगतीनां च स्वरूपम् उपवर्णितम् ।
तीर्थाख्यानसमायुक्तं नर्मदाख्यानम् उत्तमम्
कीर्तनाच् छ्रवणात् तस्य मुच्यते भवबन्धनात् ।
विद्यां सिंहासने दिव्ये वस्त्रपुष्पाधिवासिताम्
पूजयित्वा हरं विष्णुं शृणुयाद् वाचयेत् तथा ।
श्रीमत्सिंहासनं वापि कॢप्तं हैमं सुशोभनम्
हेमवस्त्रोपरिच्छन्नं नानारत्नविभूषितम् ।
राजतं ताम्रकं कांस्यं ब्रह्मचारिविनिर्मितम्
तत् तु तारसमुद्भूतं शृङ्गवद् रत्नभूषितम् ।
दिव्यं सिंहासनं वापि पूजां कृत्वा प्रयत्नतः
गन्धाधिवसितकरः श्रीमदासनसंस्थितः ।
शम्भ्वायतनतीर्थेषु नरेन्द्र भवनेषु च
बोधयेत् परमं धर्मं गृहग्रामपुरेषु च ।
नर्मदाकीर्तनाच्छ्रोता शिवलोके महीयते
इदं तीर्थम् इदं तीर्थं पर्यटन् नेति वै नरः ।
नर्मदैव परं तीर्थम् इत्य् आह भगवान् छिवः
अस्मिंस्तीर्थे नरश्रेष्ठ श्राद्धं कार्यं विधानतः ।
स्वागतेन यमः प्रीतश् चासनेन शतक्रतुः
पितरः पादशौचेन अत्राद्येन प्रजापतिः ।
विप्रपादोदकक्लिन्ना यावत् तिष्ठति मेदिनी
तावत् पुष्करपात्रेषु पिबन्ति पितरो जलम् ।
विद्यावते स्नातकाय भिक्षवे श्रोत्रियाय च
तथा परमहंसाय विष्णुव्रतधराय च ।
सर्वोपस्करणं दत्त्वा शिवलोके महीयते
अनाहिताग्निं यो विप्रम् आहिताग्निं करोति च ।
ब्राह्मणः क्षत्रियो वैश्यः स्ववित्तेनैव कारयेत्
अर्धार्धं सफलं तस्य यावज् जीवं न संशयः ।
विष्णुलोके ऽन्तकाले च भोगान् भुङ्क्ते च पुष्कलान्
स्वद्रव्येण च यो यज्ञं करोति विधिवद् द्विजः ।
नर्मदातीरम् आसाद्य ब्रह्मलोके स मोदते
धात्रीं हिरण्मयीं कृत्वा ब्राह्मणाय प्रकल्पयेत् ।
कल्पगा तीरम् आश्रित्य विष्णुलोके महीयते
तिलतण्डुलकर्पूरसुसम्भोज्यविमिश्रितैः ।
कुङ्कुमैर् वस्त्रधान्यैश् च निर्मितं शिवसन्निधौ
पर्वकाले च यो दद्यात् पर्वते मेकलातटे ।
वसेत् विष्णुलोकेषु नरः स्वर्गे न संशयः
प्रत्यक्षधेनुं यो दद्यात् हेमरत्नविभूषिताम् ।
घृतधेनुं गुडधेनुं शर्कराधेनुम् एव च
रेवाकपिलयोर् योगे दत्त्वैतान् नरसत्तमः ।
सर्वपापविनिर्मुक्तो लोके क्रीडति वैष्णवे
यदि तत्र महाराज भिक्षान्नं च निवेदितम् ।
तस्य संख्या न विद्येत स यावत् संगमो नृप
एतत् सर्वं यथान्यायं कथितं तव सुव्रत ।
वैवस्वते ऽन्तरे ऽथान्यच् छृणु त्वं नृपसत्तम
वीरणस्य तु राजर्षेर् मैत्रेयो ऽभूत् पुरोहितः ।
तेन चायतनं विष्णोः कारितं नर्मदातटे
पुर्याश् चैवामरावत्या दिशि याम्यां व्यवस्थितम् ।
तदायतनमाहात्म्यान् नर्मदायाः प्रभावतः
मोदते वैष्णवे लोके युगस्यार्द्धं द्विजोत्तमः ।
शृणु त्वं यानि तीर्थानि रेवायाः पश्चिमोत्तरे
वनं मेघवनं नाम यज्ञपर्वतम् आश्रितम् ।
रन्तिदेवः पुरा तत्र चक्रवर्ती युधिष्ठिर
गवि नीतं कुलं येन स देवासुरमानुषम् ।
पितरो मोचिता येन गोभिर् विनिहताः पुरा
चाण्डालैश् च हता ये च प्राप्नुवन्ति परां गतिम् ।
चाण्डालाद् उदकात् सर्पाद् विद्युतो ब्राह्मणाद् अपि
दन्तिभ्यश् च पशुभ्यश् च मरणं पापशालिनाम् ।
विष्णोर् बलिप्रदानेन क्रियाणां करणेन च
तीर्थपिण्डप्रदानेन ते यान्ति परमां गतिम् ।
दधीचिर् नाम राजर्षिर् अवन्त्यधिपतिस् तथा
सर्वधर्मभृतां श्रेष्ठः शक्रतुल्यपराक्रमः ।
पुरा देवासुरे युद्धे दैत्यैर् देवा विनिर्जिताः
देवानां ब्राह्मणानां च हन्तारो दैत्यकण्टकाः ।
नष्टाः स्वपापदोषेण सभृत्यकुलबान्धवाः
देवाः समुदिताः सर्वे लोकपालाः सवासवाः ।
निर्विघ्नं पृथिवीं कृत्वा लोकं चैव चराचरम्
विन्ध्यं गिरिं गतास् ते तु यस्मिन् वहति कल्पगा ।
समर्थं भूपतिं ज्ञात्वा दधीचिं कुरुसत्तम
दत्तान्य् अस्त्राणि रक्षार्थं तस्य राज्ञः सुरोत्तमैः ।
वज्रं शक्तिं तथा पाशं दण्डं खड्गं ध्वजं गदाम्
त्रिशूलं चेति देवानाम् आयुधानि प्रचक्षते ।
तानि दत्त्वा यथा न्यायं नाकपृष्ठं मुदा ययुः
पुराणमतमाज्ञाय दधीचिः सत्यविक्रमः ।
शापस्यैव भयाद् भीतो नमस्कृत्य प्रगृह्य च
प्रभावात् तोयतां नीत्वा शरीरान्तर् न्यवेशयत् ।
ततः कालान्तरे प्राप्ते दानवा बलदर्पिताः
जम्भकुम्भहयग्रीवप्रमुखाः पुनरुत्थिताः ।
दानवानां बलं ज्ञात्वा त्रस्ता देवाः सवासवाः
कार्यकाले समुत्पन्ने संस्मृत्यास्त्रायुधानि च ।
नारद प्रेषयामासुः दधीचिं प्रति भारत
अवन्तीं स पुरीं प्राप्य देवर्षिर् नारदस् तथा ।
विवेश भवनं राज्ञो मणिकाञ्चनवेदिकम्
उत्थितो नृपशार्दूलो मुनिं दृष्ट्वा सुतेजसम् ।
पूजयित्वा यथा न्यायं हेमकासनसंस्थितम्
तं तु दृष्ट्वा सुखासीनं राजा वचनम् अब्रवीत् ।
किम् अर्थं मानुषे लोके देवलोकात् समागतः
नारद उवाच:
युद्धं महत् समुत्पन्नं देवानां दानवैः सह ।
समर्पय त्वं शस्त्राणि क्षीयन्ते दानवा यथा
कुरु कार्यं च देवानां सत्यधर्मव्रते स्थितः ।
दधीचिर् उवाच:
शृणु कार्यं च देवर्षे देवानां हितकाम्यया
अचिरेणैव कालेन क्षयं यास्यन्ति दानवाः ।
मया तान्य् एव शस्त्राणि रक्षणार्थं महामुने
आपोभूतानि पीतानि शरीरे सन्ति तानि वै ।
उपायेन हि गृह्णन्तु दास्याम्य् एतानि वै पुनः
इत्युक्त्वा च नृपश्रेष्ठ आजुहाव च गाः पुरा ।
मांसादिभक्षितं गोभिर् अस्थिवर्जं विशाम्पते
अस्त्रग्रामस् ततः प्राप्तो लोकपालैर् यथा तथा ।
गोनर्दं नाम नगरं तत् तु लोकेषु विश्रुतम्
दानवा निहता देवैः पुनः सृष्टिः प्रवर्तिता ।
अचिन्तयत् तदा तत्र रन्तिदेवो महीपतिः
गोविद्युत्पशुचाण्डालसर्पैर्विनिहता नराः ।
देवलोकं न ते यान्ति न तेषामुदकक्रिया
शोचयित्वा चिरं कालं सान्तःपुरपरिग्रहः ।
प्रक्षाल्य नर्मदातोये तदस्थीनि व्यसर्जयत्
लिङ्गं ब्रह्मेश्वरं तत्र यज्ञपर्वतसन्निधौ ।
धर्मसंशयम् आपन्नो रन्तिदेवो महीपतिः
पप्रच्छ मुनिशार्दूलान् वशिष्ठप्रमुखान् द्विजान् ।
त्रिःप्रदक्षिणम् आवृत्य यथा न्यायम् इदं वचः
के देशाः पर्वताः पुण्या नद्यः काः कीर्तिताः शुभाः ।
नरकस्थान् पितॄन् यत्र तद्वदेयुः समुद्धरेत्
अक्षयं च पितृश्राद्धं पितॄणाम् अक्षया गतिः ।
ऋषय ऊचुः:
मार्कण्डेयाश्रमं गच्छ अस्माभिः सह भूपते
सो ऽपि सर्वं विजानीयात् कल्पगा तीरमाश्रितः ।
तच् छ्रुत्वा रन्तिदेवो ऽपि मुनिभिः परिभाषितः
जगाम मुनिभिः सार्द्धं कल्पगातीरवासिनम् ।
स राजा ब्राह्मणैः सार्द्धं प्रणिपत्य तथा ऽर्चयत्
समुत्थायाब्रवीद् वाक्यम् उपविष्टः कुशासने ।
मार्कण्डेय उवाच:
कान् न मोचयते घोरान् पितॄन् संसारसागरात्
शृण्वन्तु मम वाक्यानि मुनयो विदितात्मनः ।
सर्वतीर्थमयी रेवा सर्वार्थात्ममयी शुभा
शिवेनैतत् निगदितं पुराणे स्कन्दकीर्तिते ।
कुब्जारेवासमायोगे विशेषात् सुरपूजिते
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ।
तत्र श्राद्धेन योगेन पितॄणां परमा गतिः
इदं ते कथितं राजन् कुब्जारेवासमागमे ।
अर्चयित्वा महेशानं तत्र बिल्वाम्रकाह्वयम्
सर्वपापविनिर्मुक्तो गाणपत्यम् अवाप्नुयात् ।
सार्धकोटिस् तु कन्यानां तत्र सिद्धिं परां गताः
शप्तास्ताः पूर्वमुनिभिः कामदोषेण भारत ।
विद्याधराश् च यक्षाश् च गन्धर्वाः किन्नरास् तथा
शप्तास्तेनैव दोषेण कुबेरपुरवासिनः ।
सर्वे ते सिद्धिम् आपन्नाः कुब्जारेवासमागमे
अमासोमसमायोगे कार्त्तिक्यां चैव पर्वणि ।
वाराणसी प्रयागश् च पुष्करं नैमिषं तथा
एते स्नातुं समायान्ति कुब्जारेवासमागमे ।
श्रवणात् कीर्तनाद् अस्य शिवलोके महीयते
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0