स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 60
इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये शिवमहिमानुवर्णनो नामैकोनषष्टितमो ऽध्यायः ॥
र्क्स् अध्याय 60
मार्कण्डेय उवाच:
वैष्णवं दानधर्मं च कथ्यमानं निबोध मे ।
विष्णुयोगं समभ्यस्य सर्वक्लेशापनुत्तये
विष्णुं सम्पूज्य विधिना घृतस्नानादिभिः स्तवैः ।
द्वादश्यां विष्णुम् उद्दिश्य दद्याद् एकां पयस्विनीम्
नर्मदातीरम् आसाद्य तस्य पुण्यफलं शृणु ।
पूज्यते धर्मराजेन यथा विष्णुस् तथैव सः
शैवानां वैष्णवानां च सहस्रम् भोजयेत् तु यः ।
गर्भिणी धेनुसंमिश्रं वृषभैर् दशभिर्युतम्
अर्चितं गन्धपुष्पाद्यैर् हेमवस्त्रैर् अलंकृतम् ।
प्रदक्षिणम् उपाक्रम्य मन्त्रराजं च भक्तितः
ओं नमो भगवते वासुदेवयेति समुच्चरन् ।
वेदविद्भिः समाकीर्णं विष्णोर् आराधनैः शुभैः
नर्मदातोयम् आसाद्य दीपमालां प्रबोधयेत् ।
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च
गावो मे हृदये वापि गवां मध्ये वसाम्य् अहम् ।
इमं मन्त्रं समुत्थाय जपेद् आसां पुरो गवाम्
गन्धतो याक्षतैर् मिश्रैर् गृहीत्वा ताम्रभाजनम् ।
शृङ्गपुच्छ जलस्नातः शुक्लवस्त्रसमन्वितः
नर्मदास्नानपानेन गवां पुच्छाम्भसा तथा ।
सर्वकल्मषनिर्मुक्तः सुसिद्धः सुचिरव्रतः
स्नापयित्वा गतस् तत्र स विप्रो नर्मदातटे ।
पौर्णमास्यां पूर्णचन्द्रे राहुसोमसमागमे
तैरेव सार्द्धं विप्रेन्द्रैः संप्रपूज्य हरिं स्मरेत् ।
भृत्यपुत्रकलत्राद् यैर् युक्तः स्वजनबान्धवैः
निवेदयेत् तु कृष्णाय मन्त्रेण श्रद्धयान्वितः ।
श्राद्धे दाने च होमे च विवाहे मङ्गले तथा
गोमातरः स्थिता नित्यं विष्णुलोके शिवात्मिकाः ।
शिवायैता मया दत्ता विष्णवे च महात्मने
एवं विप्राय यो दद्याद् यज्ञार्थं समलंकृताः ।
एवं निवेद्य पुरुषो गोसहस्रफलं लभेत्
कुलानि त्रिंशदुत्तार्य नरकाद् भृत्यबान्धवान् ।
स्थापयेद् वैष्णवे लोके शिवस्य च महात्मनः
सर्वज्ञः परिपूर्णश् च विशुद्धः सर्वगः प्रभुः ।
संसारसागरान् मुक्तो हरितुल्यः प्रजायते
अनेनैव विधानेन गृहस्थाः प्राप्नुयुर् दिवम् ।
विनापि ज्ञानयोगेन गोसहस्रप्रदानतः
ब्राह्मणः क्षत्रियो वापि शूद्रो ऽथापि च भक्तितः ।
नर्मदाकपिलायोगे यथा विभवविस्तरैः
ब्राह्मणाय दरिद्राय दीक्षितायोपशोभिने ।
चन्द्रसूर्योपरागे तु व्यतीपाते च संक्रमे
षडशीति मुखे दद्याद् अमासोमसमागमे ।
कार्त्तिक्या वा युगादौ वा पुण्ये वाहनि भारत
यद्धि गायन्ति पितरो गाथाम् एतां नराधिप ।
अपि स्यात् स कुले ऽस्माकं पुत्रः परमधार्मिकः
नर्मदाकपिलायोगे कोटितीर्थे च मुक्तिदे ।
नरकाद् उद्धरेद् अस्मान् दत्त्वा गा यस् तु संयुताः
दशवर्षसहस्राणि लोके क्रीडति वैष्णवे ।
तस्मात् त्वम् अपि राजेन्द्र गोसहस्रप्रदो भव
देववद् दिवि मोदन्ते येन ते पितरः सदा ।
कथयामि तवाथाहमितिहासं पुरातनम्
युवनाश्वः पुरा राजा चक्रवर्ती महायशाः ।
शक्राच् छतगणं पुण्यं प्रजापालनतत्परः
अयोध्यानगरी यस्य ब्रह्मलोकसमप्रभा ।
तस्या कृतयुगे चादौ सर्वधर्मपरायणः
बृहस्पतिब्रह्मसमं वशिष्ठं स्वपुरोहितम् ।
अभिवाद्य यथान्यायम् उवाच मुनिसत्तमम्
कस्मिन् स्थाने यजेद् यज्ञं तीर्थे देशे सुरालये ।
वशिष्ठप्रमुखाः सर्वे मुनयश् चेदम् अब्रुवन्
पृथिव्यां नैमिषं तीर्थं सर्वतीर्थमयं शुभम् ।
सफलो हयमेधस् तु कोटिकोटिगणोत्तरः
पुराणे कीर्तितं राजन् मत्स्यरूपेण विष्णुना ।
सूर्येण कीर्तितं राजन् मनुपुत्राय चात्मनः
सर्वेषां तु पुराणानां पुराणं मत्स्यकीर्तितम् ।
वेदाश्चैव पुरा नष्टा मत्स्यरूपेण चोद्धृताः
वेदहीनाश् च वर्तन्ते द्विजा वै यज्ञकर्मसु ।
एवं विधं तु तत् तीर्थं युवनाश्व तवोदितम्
एवं श्रुत्वा ततो वाक्यं वशिष्ठस्य पुरोधसः ।
आदिदेश ततो ऽमात्यान् धर्मिष्ठान् सत्यवादिनः
यज्ञोपस्करम् आदाय समागच्छत सत्वरम् ।
घोषणा क्रियतां राष्ट्रे दण्डहस्तैश् च किङ्करैः
आहूतास् तु ततो देवा नृपतेर् यज्ञकर्मणि ।
ब्रह्मा विष्णुः सुरेशश् च स्कन्दो वैश्रवणस् तथा
शम्भुश् चैव विशेषेण सुरासुरनमस्कृतः ।
धेनूनां दशलक्षाणि हेमरत्नान्वितानि च
लक्षमेकं हयानां च दन्तिनाम् अयुतत्रयम् ।
मणिमाणिक्यमुक्ताश् च हिरण्यं चाप्य् अनन्तकम्
नानाविधानि द्रव्याणि भक्ष्यभोज्यमलंकृतम् ।
यज्ञद्रव्यं च यच् चान्यत् तत् सर्वसहितो नृपः
नानासहस्रयानैस् तु नानादेशगतैर् नृपैः ।
नानावाद्यसहस्रैस् तु नानागीतैर् मनोहरैः
वेदघोषेण महता दिवं भूमिं विनादयन् ।
विवेश नैमिषं तीर्थं यत्र देवो महेश्वरः
हरिं सद्यः प्रभुं दृष्ट्वा मुच्यते यत्र किल्बिषात् ।
स्वर्गसोपानम् एतत् तु प्रत्यक्षं देवलोकवत्
तत्र स्नात्वा ऽभ्यर्च्य हरिं हरं स्वर्गम् अवाप्नुयात् ।
कीर्तनान् नैमिषस्यास्य नरो दहति तत्क्षणात्
अनेकभाविकं घोरं तूलराशिम् इवानलः ।
दीक्षिता ब्राह्मणा देवाः कुतश्चित् तु समागताः
आर्तानाम् अयुतं तेभ्यो ददौ देवाय चानघ ।
सहस्रम् एकं नृपतिर्भूषणानां च भारत
ओं नमः शङ्करायेति माधवायेति चोत्तमः ।
जलदर्भौ समादाय पात्रे राजा हिरण्मये
एवं संकल्प्य राजेन्द्र यज्ञवाटम् अकारयत् ।
दशयोजनपर्यन्तं यज्ञयूपाश् च हेमजान्
ततो निर्वर्तितो यज्ञो वशिष्ठप्रमुखैर् द्विजैः ।
मुदिता देवताः सर्वा दिव्ययानसमाश्रिताः
जयशब्दं प्रचक्रुस् ता राजा नान्यो भवत्समः ।
नान्यो मम समः कश्चिद् इत्यहंकारवान् नृपः
यावद् यानं समारुह्य सान्तःपुरपरिच्छदः ।
निःसृतो नैमिषारण्यात् तावत् पश्यति वानरम्
तिष्ठ तिष्ठेत्य् उवाचाथ शृणु राजन् वचो मम ।
किं ते यज्ञविधानेन देवतादानकर्मणि
अहंकारविमूढात्मा कर्ताहम् इति मन्यसे ।
पुरामरेश्वरे यज्ञे सत्यधर्मस्य भूपतेः
वर्जयित्वा मुखम् मे ऽभूत् कण्ठाधो हेमवर्णकम् ।
ये गताः शिशवस् तेषां सर्वाङ्गाश् च हिरण्मयाः
कपिला नर्मदायोगे यज्ञतोयप्रवाहतः ।
स्नानावगाहनात् पानाल् लोडनात् कर्दमे तथा
गन्धर्वलोकं सम्प्राप्तो भूतग्रामश् चतुर्विधः ।
त्वदीये लुलितं यज्ञे नैमिषारण्यसम्भवे
पङ्केन लिप्तं गात्रं मे क्षालितं चाम्बुना तथा ।
न किंचित् फलमासीन् मे तव यज्ञो निरर्थकः
गवां त्वयायुते दत्तं धनं धान्यं तथा बहु ।
भूभुजा सत्यधर्मेण किंतु तावन् निरर्थकम्
दानेन तपसा वापि त्रयो लोकाः समर्जिताः ।
सर्वेषाम् एव तीर्थानां माता वै मेकला स्मृता
एतत् ते कथितं राजन् यथाभूद् अमरेश्वरे ।
स्वस्ति वो ऽस्तु गमिष्यामि त्वं वायोध्या प्रति व्रज
अहम् एव गमिष्यामि नर्मदां सप्तकल्पगाम् ।
श्रुत्वा त्वदीयं यज्ञं हि नैमिषारण्यम् आगतः
निराशो ऽहं गमिष्यामि नाभून् मे कांचनं मुखम् ।
वानरस्य वचः श्रुत्वा युवनाश्वो ऽब्रवीद् वचः
कस्त्वं वानररूपेण सत्यम् एतद् ब्रवीषि मे ।
वानर उवाच:
अहं जाबालिनः पुत्रः कदम्बो नाम विश्रुतः
तिर्यग्योनौ प्रविष्टश् च प्राकृतैः कर्मभिः स्वकैः ।
भ्रान्तानि सर्वतीर्थानि वेषेणानेन सुव्रत
परित्राणं परं नाभूत् सत्यधर्ममखोत्तमे ।
वपुर् हिरण्मयं सर्वं मुखवर्जं ममाभवत्
वानरस्य वचं श्रुत्वा सन्निवृत्य नृपोत्तमः ।
आराध्य देवदेवेशं नैमिषे यज्ञपूरुषम्
उवाच वचनं श्लक्ष्णं प्रणिपत्य प्रसाद्य च ।
मदीययज्ञे दानेन तपसा नियमेन च
शमिच्छं छ्रावयामास एको वानररूपधृक् ।
हिरण्मयं मुखं चास्य यथा स्यात् त्वं तथा कुरु
उवाच वचनं देवो युवनाश्वं महीपतिम् ।
प्रत्यक्षं नैमिषं तीर्थं सूर्यकोटिसमप्रभम्
पृथिव्यां नैमिषं तीर्थम् अन्तरिक्षे च पुष्करम् ।
त्रिषु लोकेषु विख्यातो गिरिश् चामरकण्टकः
न च श्रुतं त्वया तात पुराणं स्कन्दकीर्तितम् ।
माता सा यत्र सरितां तीर्थानां च सरिद्वरा
नामसंकीर्तनादस्या मुच्यते भवबन्धनात् ।
विषादं त्यज तीर्थानां प्रधानो ऽमरकण्टकः
सत्यधर्मः पुनस् तत्र करिष्यति मखोत्तमम् ।
रेवाकपिलयोर् योगे मुखं तत्र हिरण्मयम्
भविष्यति न सन्देहस् तव वानरसत्तम ।
नैमिषं स नमस्कृत्य आदिदेवं हरं हरिम्
स्थानं स्वं च जगामाथ मुदा परमया युतः ।
नैमिषस्य वचः श्रुत्वा अयोध्याधिपतिस् तथा
विवेश नगरीं पुण्यां यथा शक्रो ऽमरावतीम् ।
वानरो ऽपि गतस् तत्र सत्यधर्मो यतः स्वयम्
प्रणम्य सत्यधर्माख्यम् इदं वचनम् अब्रवीत् ।
रेवाकपिलयोर् योगे त्वदीये च महामखे
अवभृथस्नानजनिते कर्दमे लुठनान् मम ।
शरीरं काञ्चनीभूतं मुखम् एवावशिष्यते
यज्ञमिष्ट्वा पुनस् तत्र मुखं मे काञ्चनं कुरु ।
गन्धर्वाधिपतिर् भूयो मुक्तो वानरयोनितः
हेमीभूतवपुस् तत्र यदा वानरसत्तमः ।
देवन्दुन्दुभिनादेन नानालङ्कारभूषितः
हंसयुक्तेन यानेन वीज्यमानो ऽप्सरोगणैः ।
जगाम शाङ्करं लोकं तीर्थस्यास्य प्रभावतः
तत्र ये श्वापदास् सर्वे ते ऽपि स्नात्वा दिवङ्गताः ।
एतत् ते कथितं पार्थ यथावृत्तं पुरातनम्
श्रवणात् कीर्तनाच् चास्य गोसहस्रफलं लभेत्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0